Page loading... Please wait.
3|1|104 - उपसर्या काल्या प्रजने
॥ तस्मै पाणिनये नमः ॥
3|1|104
SK 2852
उपसर्या काल्या प्रजने   🔊
सूत्रच्छेदः
उपसर्या (प्रथमैकवचनम्) , काल्या (प्रथमैकवचनम्) , प्रजने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपसर्या इति निपात्यते काल्या चेत् प्रजने भवति। उपपूर्वात् सर्तेः यत् प्रत्ययः। प्रप्तकाला काल्या। प्रजनः प्रजननं, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्रप्तकाला। उपसर्या गौः। उपसर्या वडवा। काल्या प्रजने इति किम्? उपसार्या शरदि मधुरा।
`प्राप्तकाला काल्या` इति। `तदस्य प्राप्तस्य` 5|1|103 इत्यनुवत्र्तमाने `कालाद्यत्` 5|1|106 इति यत्। प्रजननम् = प्रजनः, भावे घञ्, `जनिवध्योश्च` 7|3|35 इति वृद्धिप्रतिषेधः। `उपसार्या` इति। उपसंक्रमणीत्येत्यर्थः।
उपसर्या काल्या प्रजने॥ उपपूर्वात्सर्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च ठ्सर्तिशास्त्यर्तिभ्यश्चऽ इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति। ठ्तदस्य प्राप्तम्ऽ इति वर्तमाने ठ्कालाद्यत्ऽ इति यत्। प्रजननमुप्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः॥
सिद्धान्तकौमुदी
गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्ग गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥
उपसर्या काल्या प्रजने - उपसर्या । प्रजननं प्रजनः = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मित्यनुवर्तमानेकालाद्य॑दिति यत् । चेदित्यध्याहार्यम् । तदाह — गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः । उपपूर्वात् सृधातोर्यदिति फलितम् । ण्यतोऽपवादः ।
उपसर्या काल्या प्रजने - उपसर्या । उपपूर्वात्सरतेः सर्तेर्वा यन्निपात्यते । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मिति वर्तमानेकालाद्यत् इति यत् । प्रजननं प्रजनो = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्च॑ इति वृद्धिनिषेधः । उपसार्येति । कर्मणि ण्यत् । कर्तरि यदिति ।तयोरेव॑ इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.