॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|103
SK 2851
3|1|103
अर्यः स्वामिवैश्ययोः   🔊
SK 2851
सूत्रच्छेद:
अर्यः - प्रथमैकवचनम् , स्वामि-वैश्ययोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऋ गतौ, अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत् प्रत्ययो निपत्यते। अर्यः स्वामी। अर्यो वैश्यः। यतो ऽनावः 6|1|213 इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। स्वामिवैश्ययोः इति किम्? आर्यो ब्राह्मणः।
`वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तन्त्रेणेह द्वावर्यशब्दावुच्चारितौ,तत्रैक आद्युदात्तः,अपरोऽन्तोदात्तः। य आद्युदात्तः स वैश्ये निपात्यते, इतरस्तु स्वामिनीति॥
अर्यः स्वामिवैश्ययोः॥ स्वमिन्यन्तोदातत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते-----वैश्याख्यायामाद्यौदातत्वम्, स्वाम्याख्यायामन्तोदातत्वम्। तथा च ठर्यस्य स्वाम्याख्यायाम्ऽ इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः॥
सिद्धान्तकौमुदी
ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥
अर्यः स्वामिवैश्ययोः - अर्यस्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद इति ।ऋहलो॑रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह — अर्यः स्वामीति । आर्यो ब्राआहृण इति । ण्यति वृद्धौ रपरत्वमिति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अर्यः स्वामिवैश्ययोः (720) (442 यत्प्रत्ययविधिसूत्रम्।। 3 । 1। 6 । आ. 6) (1945 अन्तोदात्तत्वविधिवार्तिकम्।। 1 ।।) - स्वामिन्यन्तोदात्तत्वं च- (भाष्यम्) स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। अर्यः स्वामीति।। अर्यः स्वामि ।। 103 ।।