Page loading... Please wait.
3|1|101 - अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु
॥ तस्मै पाणिनये नमः ॥
3|1|101
SK 2849
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु   🔊
सूत्रच्छेदः
अवद्य-पण्य-वर्याः (प्रथमाबहुवचनम्) , गर्ह्य-पणितव्य-अनिरोधेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्र पणितव्य अनिरोध इत्येतेष्वर्थेषु यथासङ्ख्यम्। अवध्यम् इति निपात्यते गर्ह्रं चेत् तद् भवति। अवद्यं पापम्। अनुद्यम् अन्यत्। वदः सुपि क्यप् च 3|1|106। पण्यम् इति निपात्यते, पणितव्यं चेत् तद् भवति। पण्यः कम्बलः। पण्या गौः। पाण्यम् अन्यत्। वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद् भवति। अनिरोधो ऽप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्या अन्या। स्त्रीलिङ्गनिर्देशः किम् अर्थः? वार्या ऋत्विजः।
`अवद्यम्` इति। वदेर्नञ्युपपदे `वदः सुपि क्यप् च` 3|1|106 इति यत्क्यपोः प्राप्तयोर्यदेव निपात्यते। `अनुद्यम्` इति। यजादित्वात् संप्रासरणम्, `नलोपो नञः` 6|3|72 , `तस्मान्नुडचि` 6|3|73 इति नुट्। `पण्यम्` इति। पणेव्र्यवहारार्थस्य ण्यति प्राप्ते यन्निपात्यते। `पाण्यम्` इति। स्तोतव्यमित्यर्थः।`वर्या` इति। वृङो ण्यति प्राप्ते यन्निपात्यते। स्त्रियामित्यनेन सूत्रे लिङ्गनिर्देशस्य तन्त्रतां दर्शयति। `अप्रतिबन्धः` इति। अनेनानिरोधशब्दस्यार्थमाचष्टे। अप्रतिबन्धः प्रसराभिघात इत्यर्थः। `वृत्या` इति। निरोधनीया। प्रसरविघातोऽस्याः कत्र्तव्य इत्यर्थः। एतच्च वृञः `एतिस्तृशासु` 3|1|109 इति क्यपि कृते `ह्यस्वस्य पिति कृति` 6|1|69 इति तुकि च रूपम्। `वार्या ऋत्विजः` इति। वृङ एतद्रूपम्। ऋत्विजो हि धनेन संविभक्तव्या इत्यस्त्यनिरोधः। स्त्रीलिङ्गता तु नास्तीति ण्यदेव भवति। ननु `एतिस्तुशास्वृ` 3|1|109 इति क्यपा भवितव्यम्? नैतदस्ति; वृञो हि तत्र ग्रहणम्, वृङश्चात्रोदाहरणम्॥
अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु॥ अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे ठ्वदः सुपि क्यप् चऽ इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद्----गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्, ठ्नलोपो नञःऽ,ठ्तस्मान्नुडचिऽ। पण्यं व्यवहर्तव्यमिति। निपातनस्य रूढ।ल्र्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च----- धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ।ल्र्थं च निपातनम्॥ इति। पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति। ठ्वृङ् सम्भक्तौऽ इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति। ठ्वृञ् वरणेऽ ठेतिस्तुशास्वृऽ इत्यादिना क्यप्। वार्या ऋत्विज इति। ठेतिस्तुशास्वृऽ इत्यत्र वृञो ग्रहणम्, वृङ्स्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुÄल्लिङ्गेऽपि यदेव प्रयुक्तः----ठ्सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमःऽ इति॥
सिद्धान्तकौमुदी
वदेर्नञि उपपदे वदः सुप् - (कौमुदी-2854) इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु - अवद्यपण्य । अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु "वदः सुपि" इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह — नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः । अवद्यं पापामिति.गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेतव । अत्र नञि उपपदेवदः सुपीटति क्यपिवचिस्वपियजादीनां किती॑ति संप्रसारणे रूपम् । वचनाऽनर्हमित्यर्थः । अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः । ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह — तद्धि न गर्ह्रं वचनानर्हं चेति.कुत इत्यत आह — आत्मनामेति । पण्या गौरिति । पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः । यद्यपिपण व्यवहारे स्तुतौ च॑ इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते । तदाह — व्यवहर्तव्येति । क्रेतव्येत्यर्थः । पाण्यमन्यदिति । ण्यति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह — स्तुत्यर्हमिति । प्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । "वृङ् संभक्तौ" इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु "वृञ् वरणे" इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्याकन्येति । पुरुषशतेन परिग्रहीतुमर्हा । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः ।एतिस्तुशास्वृदृजुषः क्य॑बिति तुक् । अत्र अनियमस्य अप्रतीतेर्न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि "वार्या ऋत्विज" इति वृत्तिः ।
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु - अनुद्यमिति । अत्र वदेः क्यबेव भवति.यजादित्वात्संप्रसारणम् ।नलोपो नञः॑ ।तस्मान्नुडचि॑ । व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि निपातनस्येह रूढर्थत्वद्व्यवहर्तव्य एवाऽयं निपात्ते । उक्तंच हरिणा — धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणां रूढर्थं च निपातन॑मिति । अनुबन्धविकाराणां नियमस् च प्राप्त्यर्थमिति पूर्वेणान्वयः । शतेनेति । शतशब्दोऽनियतपरः । कन्याय वरणे वरयितृणां नियमो नास्तीत्यर्थः । वर्येति । संभक्तव्येत्यर्थः । वृङ् संभक्तावित्स्येदं निपानम्, तत्रैवाऽनिरोधरूपस्याऽर्थस्य संभवादिति भावः । अनिरोदेष्वित्यस्याऽनुक्तौ वृञोऽपि स्यादिति ध्वनयति — वृत्येति ।एतिस्तुशास् इत्यादिना वृञः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि,तत्र वर्याशब्दष्टाबन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्येति स्त्रियामेव निपात्यते । अस्त्रियां तु वृङःऋहलोण्र्यत् । वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति ण्यदेव भवति । एतच्च वृत्तिकारमतम् । न चाऽत्र॒एतिस्तु॑ इतिक्यप् शङ्क्यः, तत्र वृञ एव ग्रहणं न तु वृङ इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाज्जसा निर्देश इति मत्वा पुंलिङ्गेऽपि यतं प्रायुङ्क्त — — ॒सुग्रीवो ममवर्योऽसौ॑ इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.