॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|85
SK 2188
2|4|85
लुटः प्रथमस्य डारौरसः   🔊
SK 2188
सूत्रच्छेद:
लुटः - षष्ठ्येकवचनम् , प्रथमस्य - षष्ठ्येकवचनम् , डा-रौ-रसः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
लुट: प्रथमस्य डा-रौ-रस:
सूत्रार्थ:
लुट्-लकारस्य प्रथमपुरुषस्य प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति ।
लुट्-लकारस्य विषये प्रथमपुरुषस्य परस्मैपदस्य तिप्-तस्-झि प्रत्ययानाम्, तथा आत्मनेपदस्य त-आताम्-झ प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । यथा -

1) पठँ व्यक्तायां वाचि इति परस्मैपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतादृशं सिद्ध्यन्ति -
(अ) पठ् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ पठ् + इ + तास् + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ पठ् + इ + तास् + डा [ लुटः प्रथमस्य डारौरसः 2|4|85 इति तिप्-प्रत्ययस्य डा-आदेशः]
→ पठ् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् टेः 6|4|143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः]
→ पठि + ता [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ पठिता

(आ) पठ् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ पठ् + इ + तास् + तस् [तिप्तस्.. 3|4|78 इति तस् ]
→ पठ् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः 2|4|85 इति तस्-प्रत्ययस्य रौ-आदेशः]
→ पठ् + इ + ता+ रौ [रि च 7|4|51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]
→ पठि + तारौ [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ पठितारौ

(इ) पठ् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ पठ् + इ + तास् + झि [तिप्तस्.. 3|4|78 इति झि ]
→ पठ् + इ + तास् + रस् [ लुटः प्रथमस्य डारौरसः 2|4|85 इति झि-प्रत्ययस्य रस्-आदेशः]
→ पठ् + इ + ता+ रस् [रि च 7|4|51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]
→ पठि + तारस् [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ पठितारः [ससजुषो रुँः 8|2|66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

2) एधँ वृद्धौ इति आत्मनेपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतानि - एधिता, एधितारौ, एधितारः ।
(अ) एध् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ एध् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ एध् + इ + तास् + त [तिप्तस्.. 3|4|78 इति त]
→ एध् + इ + तास् + डा [ लुटः प्रथमस्य डारौरसः 2|4|85 इति त-प्रत्ययस्य डा-आदेशः]
→ एध् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् टेः 6|4|143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः]
→ एधि + ता [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ एधिता

(आ) एध् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ एध् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ एध् + इ + तास् + आताम् [तिप्तस्.. 3|4|78 इति आताम् ]
→ एध् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः 2|4|85 इति आताम्-प्रत्ययस्य रौ-आदेशः]
→ एध् + इ + ता+ रौ [रि च 7|4|51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]
→ एधि + तारौ [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ एधितारौ

इ) एध् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्]
→ एध् + तास् + ल् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः तास्]
→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7|2|35 इति इडागमः]
→ एध् + इ + तास् + झ [तिप्तस्.. 3|4|78 इति झ ]
→ एध् + इ + तास् + रस् [ लुटः प्रथमस्य डारौरसः 2|4|85 इति झ-प्रत्ययस्य रस्-आदेशः]
→ एध् + इ + ता+ रस् [रि च 7|4|51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]
→ एधि + तारस् [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1|1|6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]
→ एधितारः [ससजुषो रुँः 8|2|66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
One-line meaning in English
The प्रथमपुरुष प्रत्यया: of लुट्-लकार are converted respectively to डा, रौ and रस्.
काशिकावृत्तिः
लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमम् डा रौ रसित्येते आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्य इति किम्? श्वः कर्तासि। श्वो ऽध्येतासे। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः। तृतीयो ऽद्यायः प्रथमः पादः।
परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डारौरस्-- इत्येत आदेशा भवन्ति` इति। यद्ेयवम्, परस्मैपदेषु तिप् तस् झीत्येतत् प्रत्येकं प्रथमपुरुषसंज्ञा, आत्मनेपदेष्वपि त आतां झ इति; तत्र स्थानिनः षट्, त्रय आदेशा इति वैषम्यात् संख्यायानुदेशाभावादेकैकस्य पर्यायेण सर्व आदेशाः स्युः? नैष दोषः; आनन्तर्यतो हि व्ययस्था भविष्यति। तच्चार्थकृतमानन्तर्यम्---` एकार्थस्यैकार्थः, द्वयर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थ इति। `कत्र्ता` इति। `अनद्यतने लुट्` 3|3|15 , तिप्, तस्यानेकाल्त्वात् डा इत्ययं सर्वादेशः। ननु च नानुबन्धकृतमनेकाल्त्वम् (व्या।प।14), डकारश्चानुबन्धः,तत् कुतोऽनेकाल्त्वं यतः सर्वादेशः स्यात्? नैष दोषः; न ह्रकृते सर्वादेशे `चुटू` 1|3|7 इतीत्संज्ञा भवति। इत्संज्ञाया अभावे चानुबन्धो न भवतीत्यनेकाल्त्वात् सर्वादेशो भवति। डित्यभस्यापि `टेः` 6|4|143 इति टिलोपः। `कत्र्तारौ, कात्र्तारः` इति। `रिच` 7|4|51 इति सकारलोपः। एवमध्येतेत्येवमादीनि रूपाणि `इङ अध्ययने` (धातुपाठः-1046) इत्येतस्य। अत्र परमपि टेरेत्वं बाधित्वाऽन्तरङ्गत्वात् डादय आदेशा भवन्ति। अन्तरङ्गत्वं पुनस्तेषां स्थानिमात्रापेक्षत्वात्। टेरेत्वन्तु बहिरङ्गम्; तद्धि धातुमप्यपेक्षते, न केवलं स्थानिनम्; आ तृतीयाध्यायपरिसमाप्तेः `धातोः` 3|1|7 इत्यस्याधिकृतत्वात्। `थासः से` 3|4|80 इति ज्ञापकम्-- तिङादेशस्य टेरेत्वं न भवतीति। तेन कृतेष्वपि डारौरस्स्वेत्त्वं न भवति। `कत्र्तासि` इति। `तासस्त्योर्लोपः` 7|4|50 इति सकारलोपः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्य चतुर्थः पादःसमाप्तश्चायं द्वितीयोऽध्यायः॥
लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा---सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। ठ्रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा--- पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम्----ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा ठ्थासः सऽ इत्येव वाच्यं स्यात्। कर्तासीति। ठ्तासस्त्योःऽ इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥
सिद्धान्तकौमुदी
डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥
लुटः प्रथमस्य डारौरसः - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । "लुट" इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन "चुटू" इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामथ्र्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामथ्र्याट्टेरिति टिलोप इत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
डा रौ रस् एते क्रमात्स्युः। डित्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥
महाभाष्यम्
लुटः प्रथमस्य डारौरसः (626) (379 आदेशसूत्रम् ।। 2। 4। 2 आ.14 सू.) (डारौरसां टेरेत्वनिवारणाधिकरणम्) (1670 पूर्वविप्रतिषेधवार्तिकम् ।। 1 ।।) - टितां टेरेविधेर्लुटो डारौरसः पूर्वविप्रतिषिद्धम् - (भाष्यम्) टितां टेरेविधेर्लुटो डारौरसो भवन्ति पूर्वविप्रतिषेधेन। टेरेत्वस्यावकाशः ‐ पचते पचते पचन्ते। डारौरसामवकाशः ‐ श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः प्र् इहोभयं प्राप्नोति ‐ श्वः अध्येता श्वः अध्येतारौ श्वः अध्येतार इति। डारौ रसो भवन्ति पूर्वविप्रतिषेधेन ।। (आक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः।। (1671 वार्तिकम् ।। 2।।) - आत्मनेपदानां चेति वचनात्सिद्धम् - (भाष्यम्) आत्मनेपदानां च डारौरसो भवन्तीति वक्तव्यम्।। (1672 वार्तिकम् ।। 3 ।।) - तच्च समसंख्यार्थम् - (भाष्यम्) तच्चावश्यमात्मनेपदग्रहणं कर्तव्यं समसंख्यार्थं संख्यातानुदेशो यथा स्यात्। अक्रियमाणे ह्यात्मनेपदग्रहणे षट् स्थानिनस्त्रय आदेशाः वैषम्यात्संख्यातानुदेशो न प्राप्नोति।। (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) पूर्वविप्रतिषेधार्थेन तावन्नार्थ आत्मनेपदग्रहणेन। इदमिह संप्रधार्यम् ‐ डारौरसः क्रियन्ताम्, एत्वम्, इति। किमत्र कर्तव्यम्? परत्वादेत्वम्।। नित्या डारौरसः कृतेप्येत्वे प्राप्नुवन्ति, अकृतेपि प्राप्नुवन्ति।। टेरेत्वमपि नित्यम्उकृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति।। अनित्यमेत्वम् उ अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य प्राप्नुन्विधिरनित्यो भवति।। डारौरसोप्यनित्याः अन्यस्य कृते एत्वे प्राप्नुवन्ति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन्तोऽनित्या भवन्ति। अभयोरनित्ययोः परत्वादेत्वम्। एत्वे कृते पुनः प्रसङ्गविज्ञानाद् डारौरसो भविष्यन्ति।। (द्वितीयवार्तिकप्रत्याख्यानभाष्यम्) समसंख्यार्थेन चापि नार्थ आत्मनेपदग्रहणेन। स्थानेन्तरतमेन व्यवस्था भविष्यति। कुत आन्तर्यम्? अर्थतः। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः।। अथ वा आदेशा अपि षडेव निर्दिश्यन्ते। कथम्? एकशेषनिर्देशोयम् ।। (आक्षेपभाष्यम्) अथैतस्मिन्नेकशेषे सति किमयं कृतैकशेषाणां द्वन्द्वः ‐ डा च डा च डा। रौ च रौ च रौ। रश्व रश्च रः। डा च रौ च रश्च डारौरस इति।। आहोस्वित्कृतद्वन्द्वानामेकशेषः ‐ डा च रौ च रश्च डारौरसः। डारौरसश्च डारौरसश्च डारौरस इति।। (भाष्यम्) किं चातः।। (प्रथमपक्षदूषणभाष्यम्) यदि कृतैकशेषाणां द्वन्द्वः अनिष्टः समसंख्यः प्राप्नोति। एकवचनद्विवचनयोर्डा प्राप्नोति बहुवचनैकवचनयो रौ प्राप्नोति द्विवचनबहुवचनयो रस्प्राप्नोति।। अथ कृतद्वन्द्वानामेकशेषः। न दोषो भवति।। (सिद्धान्तलक्षणम्) यथा न दोषस्तथास्तु।। (आक्षेपभाष्यम्) किं पुनरत्र ज्यायः? (समाधानभाष्यम्) उभयं हि दृश्यते ‐ बहु शक्तिकिटकं बहुनि शक्तिकिटकानि। बहु स्थालीपिठरं बहूनि स्थालीपिठराणि।। (श्लोकार्थोपसंहारभाष्यम्) डारौरसः कृते टेरे यथा द्वित्वं प्रसारणे।। समसंख्येन नार्थोस्ति सिद्धं स्थानेर्थतोन्तरः।। आन्तर्यतो व्यवस्था त्रय एवेमे भवन्तु सर्वेषाम्।। टेरेत्वं च परत्वात्कृतेपि तस्मिन्निमे सन्तु।। (डादेशेसर्वादेशत्वाधिकरणम्) (1673 वार्तिकम् ।। 4 ।।) - डाविकारस्य शित्करणं सर्वादेशार्थम् - (भाष्यम्) डाविकारः शित्कर्तव्यः। किं प्रयोजनम्? सर्वादेशार्थम् शित्सर्वस्य इति सर्वादेशो यथा स्यात्। अक्रियमाणे हि शकारे अलोन्त्यस्य विधयो भवन्ति इत्यन्त्यस्य प्रसज्येत ।। (1674 वार्तिकम् ।। 5 ।।) - निघातप्रसङ्गस्तु - (भाष्यम्) निघातस्तु प्राप्नोति। श्वः कर्ता। तासेः परं लसार्वधातुकमनुदात्तं भवतीत्येष स्वरः प्राप्नोति।। (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) यत्तावदुच्यते ‐ डाविकारस्य शित्करणं सर्वादेशार्थम् इति ।। (1675 शित्करणप्रत्याख्यानवार्तिकम् ।। 6 ।। - सिद्धमलोन्त्यविकारात् - (भाष्यम्) सिद्धमेतत्।। कथम्? अलोन्त्यविकारात्।। (आक्षेपभाष्यम्) अस्त्वयमलोन्त्यस्य। का रूपसिद्धिः ‐ कर्ता? (1676 समाधानवार्तिकम् ।। 7 ।।) - डिति टेर्लोपाल्लोपः - (भाष्यम्) डिति टेर्लोपेन लोपो भविष्यति।। (बाधकभाष्यम्) अभत्त्वान्न प्राप्नोति।। (समाधानसाधकभाष्यम्) डित्करणसार्मथ्याद्भविष्यति।। (1677 शित्करणप्रत्याख्यानवार्तिकम् ।। 8 ।।) - अनित्त्वाद्वा - (भाष्यम्) अथ वा अनित्त्वादेतत्सिद्धम्।। किमिदमनित्त्वादिति? अन्त्यस्यायं स्थाने भवन्न प्रत्ययः स्यात्। असत्यां प्रत्ययसंज्ञायामित्संज्ञा न। असत्यामित्संज्ञायां लोपो न। असति लोपेनेकाल्। यदानेकाल् तदा सर्वादेशः। यदा सर्वादेशः तदा प्रत्ययः। यदा प्रत्ययस्तदेत्संज्ञा। यदेत्संज्ञा तदा लोपः।। (1678 शित्करणप्रत्याख्यानवार्तिकम् ।। 9 ।।) - प्रश्लिष्टनिर्देशाद्वा - (भाष्यम्) अथ वा प्रश्लिष्टनिर्देशोयम् ‐ डा आ डा। सः अनेकाल्शित्सर्वस्य इति सर्वादेशो भविष्यति।। (प्रत्याख्याननिराकरणभाष्यम्) यदा तर्ह्ययमन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणं न प्राप्नोति।। (1679 प्रत्याख्यानसाधकवार्तिकम् ।। 10 ।।) - तिङ्ग्रहणमेकदेशविकृतस्यानन्यत्वात् - (भाष्यम्)एकदेशविकृतमनन्यवद्भवति इति तिङ्ग्रहणेन ग्रहणं भविष्यति।। (आक्षेपभाष्यम्) स्वरः कथम्? (1680 वार्तिकम्।। 11 ।।) - स्वरे विप्रतिषेधात्सिद्धम् - (भाष्यम्) (इदमिह संप्रधार्यम् ‐ ) डारौरसः क्रियन्तामनुदात्तत्वमिति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम्।। नित्या डारौरसः कृतेऽप्यनुदात्तत्वे प्राप्नुवन्ति, अकृतेऽपि प्राप्नुवन्ति।। अनुदात्तत्वमपि नित्यं कृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति।। अनित्यमनुदात्तत्वम्। अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति।। डारौरसोऽप्यनित्याः। अन्यथास्वरस्य कृतेऽनुदात्तत्त्वे प्राप्नुवन्ति। अन्यथास्वरस्याकृते। स्वरभिन्नस्य च प्राप्नुवन्तोऽनित्या भवन्ति। उभयोरनित्ययोः परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानाद् डारौरसः। टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम्।। (बाधकभाष्यम्) न सिध्यति। किं कारणम्? अन्तरङ्गत्वाद् डारौरसः। तत्रान्तरङ्गत्वाड्डारौरस्सु कृतेषु अनुदात्तत्वं क्रियतां टिलोप इति।। किमत्र कर्तव्यम्? परत्वाटि्टलोपेन भवितव्यम्।। (वार्तिकतात्पर्यान्तरभाष्यम्) एवं तर्हि स्वरविप्रतिषेधात् सिद्धम् । न्याय्य एवायं स्वरविप्रतिषेधः। इदमिह संप्रधार्यम् ‐ अनुदात्तत्वं क्रियतामुदात्तनिवृत्तिस्वर इति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानादुदात्तनिवृत्तिस्वरो भविष्यति।। (आक्षेपभाष्यम्) तदेतत्क्व सिद्धं भवति यत् पिद्वचनम्। यदपिद्वचनं तत्र न सिध्यति? (समाधानभाष्यम्) तत्रापि सिद्धम्। कथम्? इदमद्य लसार्वधातुकानुदात्तत्वं प्रतद्ययस्वरस्यापवादः। न चापवादविषये उत्सर्गोभिनिविशते पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः प्रकल्प्य वापवादविषयं तत उत्सर्गोभिनिविशते। तन्न तावदत्र कदाचित्प्रत्ययस्वरो भवति अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते। तत्रानुदात्तत्वं क्रियतां लोप इति। यद्यपि परत्वाल्लोपः सोसावविद्यमानोदात्तत्वे अनुदात्ते उदात्तो लुप्यते।। प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम्।। तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदाचित्।। प्रत्ययस्वरश्च तासेर्वृत्तिसंनियोगशिष्टः। तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः।। लुट: प्र ।। 85 ।। इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीय माह्निकम्।। समाप्तश्चायं पादोऽध्यायश्च।।