॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|84
SK 658
2|4|84
तृतीयासप्तम्योर्बहुलम्‌   🔊
SK 658
सूत्रच्छेद:
तृतीयासप्तम्योः - षष्ठीद्विवचनम् , बहुलम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वेण नित्यम् अम्भावे प्राप्ते वचनम् इदम्। तृतीयासप्तम्योः विभक्त्योर् बहुलम् अम्भावो भवति अव्ययीभावे। उपकुम्भेन कृतम्, उपकुम्भं कृतम्। उपकुम्भे निधेहि, उपकुम्भं निधेहि। सपम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यम् इति वक्तव्यम्। सुमद्रम् सुमगधम्। उन्मत्तगङ्गम्। लोहितगङ्गम्। एकविंशतिभारद्वाजम्। बहुलवचनात् सिद्धम्।
`सुमद्रम्` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिना समृद्धावव्ययीभावः। ` उन्मत्तगङ्गम्` इति। `अन्यपदार्थे च संज्ञायाम्` 2|1|20 इत्यनेन। `एकविंशतिभारद्वाजम्` इति। `संख्या वंश्येन` 2|1|18 इति॥
तृतीयासप्तम्योर्बहुलम्॥ सुभद्रमिति। मद्राणां समृद्धिरित्यव्ययीभावः, ततः सप्तमी, तस्या नित्यमम्भावः। एकविशतिभारद्वाजमिति। एकविशतिर्भरद्वाजा वंश्या इति ठ्सङ्ख्या वंश्येनऽ इति समासः। तत्र वर्तिपदार्थानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्भारद्वाजशब्द एकत्वविशष्टार्थान्तरे सङ्क्रान्त इत्यञो लुगभावः। नेति वयम्, गर्गाणां कुलं गर्गकुलमित्यादावपि प्रसङ्गात्। तस्माद् भाष्यकारप्रयोगादत्र लुगभावः॥
सिद्धान्तकौमुदी
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥
तृतीयासप्तम्योर्बहुलम् - तृतीया ।नाव्ययीभावा॑दित्यस्मादत इत्यनुवर्तते, तदाह — अदन्तादिति । अमादेशाऽभावे तुनाव्ययीभावा॑दित्यलुक् । ननु वेति सिद्धे किं बहुलग्रहणेनेत्यत आह — बहुलग्रहणादिति । तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते-विभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति-समीप समृद्धि-व्यृद्धि-अर्था-ऽभावाऽत्यया-ऽसंप्रति-शब्दप्रादुर्भाव-पश्चात्-यथा-ऽ‌ऽनुपूव्र्य-यौगपद्य-सादृश्य-संपत्ति-साकल्य-अन्त॑ — एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्चेति विग्रहः । विभक्त्यर्थादिषु वाच्येइआत्यर्थः ।अव्यय॑मित्यनुवर्तते । "अव्ययीभावः" "समास" इति चाधिकृतं । तदाह — विभक्त्यर्थादिष्विति । विभक्तौ तावदिति । विभक्त्यर्थे प्रथममुदाह्यियत इत्यर्थः । हरौ इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वादधेः पूर्वनिपाते समासादुत्पन्नस्य सुपःअव्ययादाप्सुपः॑इति लुगिति भावः । ननु लौकिकविग्रहे समस्यमान#ओऽधिशब्दः कुतो नोपात्त इत्यत आह — सप्तम्यर्थस्यैवात्रेति । तथाचाऽधिद्योत्यार्थस्याऽधिकरणत्वस्य सप्तम्यैव उक्तत्वादधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानोचित्नादिति भावः । ननु हरौ इति परिनिष्ठितसन्धिकार्यस्य समासे सति "औ" इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात्प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेःप्रत्ययोत्तरपदयोश्चे॑ति भाष्यसंमतत्वादिति भावः । यथा चैत्तथा "भूतंपूर्व" इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुप्तेयनुवर्त्त्य सुबन्तेनाऽत्र समासविधिसामथ्र्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणमनं दृष्टम् । अतो निपातेनाऽधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्बाधा ।विषवृक्षोऽपि संबध्र्य स्वयं छेत्तुमसांप्रत॑मित्यत्र तु "एष्टव्य" इत्यध्याहार्यम् । कृताऽभिधानाद्विषवृक्षाद्द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम्,कटं करोति भीष्ममुदारं दर्शनीय॑मित्यत्र परिगणनफलस्याऽन्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत् ।
तृतीयासप्तम्योर्बहुलम् - अपदिशमिति । पञ्चमीव्यतिरिक्तविभक्तीनामुदाहरणमिदम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । विभक्तौ तावदिति । तावच्छब्दः क्रमार्थः । लौकिकं विग्रहवाक्यं प्रदर्शयति — हराविति । प्राचा तुहरौ अधिकृत्ये॑ति विगृहितं, तदसत् । अधिहरीत्यत्रअधिकृत्येत्यर्थस्याऽप्रतीतेः । हरि ङीति । अलौकिके ङिशब्दस्यैव प्रवेश उचितः,अन्तरङ्गानपि — -॑इति न्यायात् । अन्यथा ङेरौत्त्वे कृते अधिहरीति समासे हरिशब्देकारो दुर्लभः स्यादिति भावः । इह॒हरावधी॑ति स्थिते॑इति प्राचोक्तमुपेक्षितं, नित्यसमासेषु अस्वपदविग्रहस्यैवोचितत्वात् । अभिहितेऽपीति । द्योतितेऽपीत्यर्थः । वचनसामथ्र्यादिति ।सुपे॑त्यनुवर्त्त्य सुबन्तेन समासविधानसामथ्र्यात्सप्तमी स्यादेवेति भावः । नन्वभिहितेऽधिकरणेप्रतिपदिकार्थमात्रे॑ति प्रथमैव स्यान्न तु सप्तमीति चेत् । अत्राहुः — अचीत्यस्य सुबन्तेन समासस्यावश्यकत्वेऽधिशब्दद्योत्यादिकरणार्थवाचकविभाक्तेरेवेह स्वीकर्तुमुचितत्वादिति । यत्तु प्रसादकृता व्याख्यातं — ॒तिङ्कृत्तद्धितसमासैरिति परिगणनादधिनाऽभिहितेऽपि सप्तमी स्यादेवे॑तिष । तन्न । परिगनस्याकरे प्रत्याख्यातत्वात् ।कर्मणि द्वितीया॑इति सूत्रे स्वयमपि तथैवोक्तत्वात् ।क्रमादमुं नारद इत्यबोधि सः॑ इति प्रयोगविरोधाच्च । अत्र व्याचक्षते — -॒वचनग्रहणं विभक्त्यादिभिः प्रत्येकं संबध्यते॑,साकल्यान्तेषु॑इत्येव वक्तव्ये वचनग्रहणात् । एवं च तत्सामथ्र्याद्विङक्त्यर्थमात्र वृत्तेरव्ययस्येह ग्रहणम् । तेन वृक्षस्योपरि वृक्षस्य पुर इत्यत्र समासो न भवति । उपर्यादयो हि दिग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमात्रे । अतएवक्रमादमुं नारद इत्यूबोधि सः॑ इत्यादौ नातिप्रसङ्गः, इतिशब्दस्य सर्वनामवत्प्रकृतपरामर्शकत्वेन कर्मत्वमात्रनभिधायकत्वात् । एवं च विभक्तिशब्दं प्रायुङ्क्त॑ति । अन्ये तु — -॒लाघवात्ङिसमीपसमृद्धी॑ति वक्तव्ये विभक्तिग्रहणाद्विभक्तिशब्दो न सप्तम्यां पर्यवस्यति । ततश्च कर्मत्वमात्रद्योतकतायाम्इतिनारद॑मिति समासो भवत्येव॑इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तृतीयासप्तम्योर्बहुलम् (615) (378 अम्विकल्पसूत्रम् ।। 2।4।2 आ. 13 ।।) (1669 वार्तिकम् ।। 1 ।।) - सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् - (भाष्यम्) सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यमिति वक्तव्यम्। सुमद्रं सुमगधम्। ऋद्धि।। नदीसमास ‐ उन्मत्तगङ्गं लोहितगङ्गम्।। संख्यावयव ‐ एकविंशतिभारद्वाजं त्रिपञ्ञ्चाशद्गौतमम्।। तृतीयासप्त ।। 84 ।।