॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|82
SK 452
2|4|82
अव्ययादाप्सुपः   🔊
SK 452
सूत्रच्छेद:
अव्ययात् - पञ्चम्येकवचनम् , आप्सुपः - षष्ठ्येकवचनम्
अनुवृत्ति:
लुक्  [2|4|58] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
अव्ययात् आप्-सुप: लुक्
सूत्रार्थ:
अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति ।
स्वरादिनिपातमव्यम् 1|1|37 इत्यतः अव्ययीभावश्च 1|1|41 इति यावत्सु सूत्रेषु "अव्यय"संज्ञा विधीयते । अव्ययानाम् यथायोग्यम् अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् 1|2|45 तथा कृत्-तद्धित-समासाश्च 1|2|46 इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः स्वौजस्.. 4|1|2 इत्यनेन एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते, तथा स्त्रियाम् 4|1|3 अस्मिन् अधिकारे एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्/चाप्/डाप्-प्रत्ययः अपि भवति । एतेषाम् प्रत्ययानाम् वर्तमानसूत्रेण लुक् भवति ।

यथा, "तत्र शालायाम्" - अस्मिन् वाक्ये "तत्र" एतत् "शालायाम्" इत्यस्य विशेषणम् अस्ति । अतः अत्र "तत्र" शब्दस्य स्त्रीत्वं द्वोतयितुम् टाप्-प्रत्ययः, तथा, सप्तम्येकवचनं द्योतयितुम् "ङि" प्रत्ययः - द्वावपि विधीयेते । परन्तु "तत्र" इत्यस्य तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञा भवति, अतः एतयोः द्वयोरपि प्रत्यययोः अनेन सूत्रेण लुक् भवति । यथा - तत्र + टाप् + ङि → तत्र ।

अनेन सूत्रेण एतत् ज्ञाप्यते, यत् अव्ययसंज्ञकाः शब्दाः सर्वेषु लिङ्गेषु, सर्वेषु वचनेषु, सर्वासु विभक्तिषु च समानानि एव भवन्ति । अतएव एका कारिका उच्यते -
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न वेत्ति तदव्ययम् ॥

अत्र एकम् वार्तिकम् ज्ञातव्यम् - आब्ग्रहणम् व्यर्थम् अलिङ्गत्वात् । इत्युक्ते, अव्ययानाम् लिङ्गम् नास्ति, अतः तेषाम् परे स्त्रीप्रत्ययाः भवितुमेव न अर्हन्ति, अतः अनेन सूत्रेण "आप्" प्रत्ययस्य यः लुक्-उच्यते सः अनावश्यकः - इति । अस्मिन् विषये भाष्यकारः वदति - निपातानाम् लिङ्गम् , कारकम् , सङ्ख्या च नास्ति, परन्तु अन्येषाम् अव्ययानाम् अस्ति कुत्रचित् भवितुम् अर्हत, अतः तदर्थम् ये प्रत्ययाः विधीयन्ते, तेषां लोपः अनेन सूत्रेण क्रियते ।

ज्ञातव्यम् -

1. यत्र समासे अप्रधानरूपेण (= गौणरूपेण) अव्ययम् उपतिष्ठति, तत्र समस्तपदस्य अव्ययसंज्ञा न भवति, अतः तस्मात् परस्य आप्/सुप्-प्रत्यययोः लुक् अपि न भवति । यथा - अत्यादयाः क्रान्ताद्यर्थे द्वितीयया अनेन वार्त्तिकेन प्रादि-तत्पुरुषसमासेन "उच्चैः अतिक्रान्तः" इत्यर्थे "अत्युच्चैस्" इति समस्तपदम् सिद्ध्यति । अत्र "उच्चैस्" इति अव्ययम् गौणपदे अस्ति, अतः तस्य अव्ययसंज्ञा न भवति, अतः "अत्युच्चैस्" इत्यस्यापि अव्ययसंज्ञा न भवति, अतः अस्मात् शब्दात् विभक्तिप्रत्ययानाम् लुक् न भवति । यथा - अत्युच्चैस् + औ = अत्युच्चैसौ ।

2. अनेन सूत्रेण अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च "लुक्" कृतः अस्ति, "लोपः" न । किम् प्रयोजनं "लुक्" इत्यस्य ? प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन प्रत्ययलोपेऽपि निर्दिष्टे अङ्गकार्ये प्राप्ते लुक्-प्रक्रियायाम् न लुमताङ्गस्य 1|1|63 इति तस्य निषेधः भवति, अतः अङ्गकार्यम् न जायते । यथा - "भूयस्" इति चादिगणस्य शब्दः अव्ययसंज्ञकः अस्ति । अस्य सुँ-प्रत्यये परे "भुयस् + सुँ" इत्यत्र सुँ-प्रत्ययस्य अव्ययादाप्सुपः 2|4|82 इति लुक् कृते अत्वसन्तस्य चाधातोः 6|4|14 इत्यनेन अङ्गस्य उपधादीर्घे प्राप्ते न लुमताङ्गस्य 1|1|63 इति स निषिध्यते ।
One-line meaning in English
The आप्-प्रत्यया: and the सुप्-प्रत्यया: attached to an अव्यय are removed by doing a लुक्.
काशिकावृत्तिः
अव्ययादुत्तरस्य आपः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि कृत्वा। हृत्वा।
`तत्र शालायाम्` इति। तच्छब्दात् सप्तम्यास्त्रल्। तस्य `प्राग्दिशो विभक्ति` 5|3|1 इति। विभक्तिसंज्ञा, त्यदाद्यत्वम्,टाप्, `तसिलादिष्वाकृत्वसुचः` 6|3|34 इति पुंवद्भावः। `तद्धितश्चासर्वविभक्तिः` 1|1|37 इति त्रलोऽव्ययत्वम्, ततौत्पन्नस्य टापो लुक्। केन पुनरव्ययाट्टाबुत्पद्यते? `अजाद्यतष्टाप्` 4|1|4 इति चेत्, नच स्त्रियां टापो विधानात्, अव्ययस्य चालिङ्गत्वात्। तस्मादव्ययाट्टापः सम्भव एव नास्तीत्यव्ययादपार्थकं टापो लुग्वचनम्? नापार्थकम्; `स्त्रियाम्` 4|1|3 गुणिप्रधाननिर्देशः-- स्त्रीत्ववति पदार्थे टाबादय इति। स्त्रीत्ववति च तस्यां शालायमित्येतस्मिन् पदार्थे तत्रेत्येतदव्ययं वत्र्तते। यद्यपि वाक्यार्थोऽत्र स्त्रीत्वम्; तथापि वाक्यार्थतयैव तसय् स्त्रीप्रत्ययो द्योत्यते, सति च स्त्रीप्रत्यये पदार्थ एव स्त्रीत्वं भवति, ततष्टापो लुग्वक्तव्यः। `कृत्वा, ह्मत्वा` इति। `क्त्वातोसुन्कसुनः` 1|1|39 इति क्त्वाप्रत्ययस्याव्ययत्वम्, तत उत्पन्नस्य सुपो लुक्। केन पुरव्ययात् सुबुत्पत्तिः? स्वादि 4|1|2 सूत्रेणेति चेत्, न; तत्र `बहुषु बहुवचनम्` 1|4|21 इतयादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां नियत्वात्, अव्ययानाञ्चासंख्यत्वात्। स्यादेतत्-- यत्र संख्यास्ति तत्र `बहुषु वहुवचनम्` 1|4|21 इत्येवमादिना स्वादिनियः कृतः, अव्ययेभ्यस्तु निःसंख्येभ्यः समान्यविहिताः स्वादयो विद्यन्त एवेति?वात्र्तमेतत्; स्वादिसूत्रेण 4|1|2 हि `बहुषु बहुवचनम्` 1|4|21 इत्यादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां विधानात्। तथा हि-- तत्रोक्कतं संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति। एकवाक्यतायाञ्च कुतः स्वादीनां सामान्येन विधानाम्। न ह्रपरं लक्षणमस्ति येन स्वादयः सामान्येन विहिताः। एवं तह्र्रेतदेवाव्ययादुत्पन्नस्य सुपो लुग्वचनं ज्ञापकम्-- भवन्त्यवययात् स्वादय इति। न ह्रनुत्पन्नस्य लुगुपपद्यते। एतदेव ज्ञापकं ह्मदि कृत्वोक्तम्-- `अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव` इति॥
अव्ययादाप्सुपः॥ तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानातस्यामितिवतत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्यर्थ टापो लुग्वक्तव्यः, यथा----षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्तिककारस्त्वाह----ठव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्ऽ इति। कृत्वा, हृत्वेति। यदा ठ्बहुषु बहुवचनम्ऽ इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः----बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या---प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्॥
सिद्धान्तकौमुदी
अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे ॥ ।आब्ग्रहणं व्यर्थमलिङ्गत्वात् (वार्तिकम्) ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥। इति अव्ययप्रकरणम्‌ ।
अव्ययादाप्सुपः - अव्ययादाप्सुपः । आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी ।ण्यक्षत्रियार्षे त्यतोलु॑गित्यनुवर्तते । तदाह — अव्ययाद्विहितस्येति । तत्र शालायामिति । तत्रेत्यस्याव्ययत्वादापो लुक् । स्त्रीत्वबोधनायशालाया॑मिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चैसाविति । उच्चैरतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यतादोषामन्यमहः,दिवाभूता रात्रि॑रिति । अतो द्वितीयासम्भवात् "अत्यादयः" इति द्वितीयासमासस्याऽविरोधः । अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे ।ञपि ततो विहतत्वाऽभावान्न लुक् ।अत्युच्चे॑रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः । ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि "स्वरादिनिपातमव्यय" मित्यव्ययसंज्ञा भवत्येव,प्रयोजनं सर्वनामाव्ययसंज्ञाया॑मिति वचनादित्याशङ्कते — अव्ययसंज्ञायामिति । परिहरति — तथापीति । सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इतितद्धितश्चासर्वविभक्तिः॑ इति सूत्रे भाष्ये स्पष्टमिति भावः । व्यर्थमिति । "अव्ययादाप्सुपः" इति सूत्रे॑ इति शेषः । अलिङ्गत्वादिति । अव्ययानां लिङ्गाऽभावादित्यर्थः । तथाच वार्तिकम्,-॒अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात् इति । तथातद्धिताश्चासर्वविभक्तिः॑ इति सूत्रे भाष्येऽप्युक्तम् — स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित । ननु अव्ययानां लिङ्गाऽभावेसदृशं त्रिषु लिङ्गेषु॑ इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति । त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात् । लिङ्गकारकेति । लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः । लिङ्गेष्वित्यादिषु सप्तमी हि "षष्ठी चानादरे" इति विहिता । तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति, तदव्ययमित्युदाह्मतश्रुतेरर्थः ।तद्धितश्चासर्वविभक्तिः॑ इति सूत्रभाष्येस्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च । एतानर्थान् ये न वियन्ति तदव्ययम् इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाह्मतत्वादिति भावः । अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव,स्वरादिनिपातमव्यय॑मिति सूत्रे भाष्येचादीनामस्त्तववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे॑त्युक्तत्वात्,स्वस्ति वाचयति॑, "स्वस्ति वाच्य" इति,क्षीणे पुण्ये स्वः पतति॑, "प्रातर्यजते" इत्यादौ कर्मकारकयोगदर्शनाच्च । अथ प्रसङ्गादाह — वष्टीति । अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानाम् आपं च भागुरिनामक आचार्यो वष्टि -इच्छतीत्यर्थः । एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठआदिं केचित्पठन्ति । तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति केचित् । उदाहरणमात्रमित्यन्ये । यद्यपि "वश क्रान्तौ" इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तुवष्टि भागुरि॑रिति श्लोको भाष्ये न दृश्यते । प्रत्युतङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्रेवमुक्तम्-॒आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि॑ति आक्षिप्यक्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे॑ति अकारान्तादेव तत्रापि टा॑बित्युक्त्ताडाबुभाभ्यामन्यतरस्या॑मिति बहुराजा, बहुराजे, बहुराजाः — इत्यर्थमाब्ग्रहण॑मिति समाहितम् । तस्मात्आपं चैव हलन्ताना॑मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम् । ***इति बालमनोरमायामव्ययानि ।***सिद्धान्तकौमुद्याम् । — — — — — — -अव्ययीभावप्रकरणम् । — — — — — — — -
अव्ययादाप्सुपः - अव्ययादाप्सुपः ।ण्यक्षन्त्रियार्षे॑ति सूत्राल्लुगत्रानुवर्तत इत्याह — लुक्स्यादिति ।अव्यय॑मिति महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । न व्येति — विविधं विकारं न गच्छति । सत्त्वधर्मान् लिङ्गसङ्ख्यादीन्न गृह्णातीति यावत् । तेनात्युच्चैसौ अत्युच्चैस इत्यादि सिद्धम् । अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरग्रहादव्ययसंज्ञाया अत्राऽभावात् । नन्वेमप्युच्चैः — शब्दस्याव्ययत्वानपायात्सुपो लुग्दुर्वार इत्यत आह — विहितविशेषणादिति । अत्युच्चैसाविति । ननु अत्यादयः क्रान्ताद्यर्थे द्विती ।यान्तेन समस्यन्ते, उच्चैःशब्दस्त्वधिकरणशक्तिमत्प्रधान इति कर्मत्वाऽयोगान्न तस्य द्वितीयान्तता । सत्यम् । शक्तिप्रधानान्यपि कानिचिदव्ययामि वृत्तिविषये शक्तिमत्प्रधानानि क्वचिद्भवन्ति । यथा दोषामन्यमहः । दिवामन्या रात्रिरिति । ततश्च प्रक्रियादशायमुच्चैःशब्दस्य द्वितीयान्तत्वं संभवतीति दिक् । ननु स्वरादिषु उच्चैःशब्दः पटते तत्र कथं तदन्तस्य प्रसङ्ग इति चेन्न, अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात् । अन्यथा उपसर्जने प्रसङ्गाऽभावेन तन्निवृत्त्यर्थाया अन्वर्थसंज्ञाया वैयथ्र्यापत्तेः । तेनपरमस्वः॒॑परमोच्चै॑रित्यादौ सत्त्वधर्मापरिग्रह#आदव्ययत्वं सिद्धम् । तदेतदाह — अव्ययसंज्ञायां यद्यपीत्यादि ।अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाऽभावा॑दिति वार्तिकं मनसि निधायाह — अब्ग्रहणं व्यर्थमिति । सूत्रस्योक्तिसंभवस्तुस्त्रिया॑मिति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वेति बोध्यः । स च न स्थितः,भूतमियं ब्राआहृणी॑त्यादावतिव्याप्तेः । यदि तुआमः॑इति सूत्रानन्तरंसुपो धातुप्रातिपदिकयोपव्यया॑दिति सूत्र्यते तदा सुब्ग्रहममपि व्यर्थं,सुप् इत्यनुवृत्तिसंभवादिति नव्याः । अलिङ्गत्वे आथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह — सदृशमिति । एतेषु यन्न व्येति किंतु सदृशम् एकप्रकारं तदव्ययमिति योजना । यद्वा — यस्मान्न व्येति तस्मात्तदव्ययम् । लिङ्गकारकेति । विभक्तिवचनशब्दौ कारकसङ्ख्यापराविति भावः । यद्यप्यव्ययीभावस्य लिङ्गसङ्ख्याकारकयोगोऽस्ति तथापि वचनादव्ययत्वेम् । अव्ययविशेषे कार्यान्तरमाह — वष्टीति । भादुरिः आचार्यः । आपं चैवेति ।वष्टी त्यनुषज्यते । यथा वाचेति । परिगणनमिदमित्येके । अन्ये तूदाहरणमात्रमित्याहुः । वगाह इति । अपिना साहचर्यादादिरेवाऽकारो लुप्यते नान्त्य इति भावः ।इति तत्त्वबोधिन्याम् अव्ययप्रकरणम्॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अव्ययादाप्सुपः (613) (376 लुक्सूत्रम् ।। 2।4।2 आ.11) (आप्ग्रहणस्यादृष्टार्थत्वाधिकरणम्) (1661 वार्तिकम् ।। 1 ।।) - अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात् - (भाष्यम्) अव्ययादापः लुग्वचनमनर्थकम् ।। किं कारणम्? लिङ्गाभावात्। अलिङ्गमव्ययम्।। (आक्षेपभाष्यम्) किमिदं भवान् सुपो लुकं मृष्यति, आपो लुकं न मृष्यति। यथैव ह्यलिङ्गमव्ययम्, एवमसंख्यमपि? (समाधानभाष्यम्) सत्यमेवमेतत्। प्रत्ययलक्षणमाचार्यः प्रार्थयमानः सुपो लुकं मृष्यति। आपः पुनरस्य लुकि सति न किंचिदपि प्रयोजनमस्ति।। (आक्षेपभाष्यम्) उच्यमानेप्येतस्मिन् स्वाद्युत्पत्तिर्न प्राप्नोति।। किं कारणम्? एकत्वादीनामभावात्। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति।। (समाधानभाष्यम्) अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते।। अथ वा प्रकृतानर्थानपेक्ष्य नियमः क्रियते।। के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति।। अथ वा आचार्यप्रवृत्तिर्ज्ञापयति ‐ उत्पद्यन्तेऽव्ययेभ्यः स्वादय इति। यदयम् अव्ययादाप्सुप इति लुकं शास्ति।। अव्ययादा ।। 82 ।।