॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|81
SK 2238
2|4|81
आमः   🔊
SK 2238
सूत्रच्छेद:
आमः - पञ्चम्येकवचनम्
अनुवृत्ति:
ले:  [2|4|80] - षष्ठ्येकवचनम् , लुक्  [2|4|58]
अधिकार:
-
सम्पूर्णसूत्रम्
आम: ले: लुक्
सूत्रार्थ:
"आम्" प्रत्ययात् परस्य लकारस्य लुक् भवति ।
"आम्" इति कश्चन प्रत्ययः अस्ति । कास्प्रत्ययादाममन्त्रे लिटि 3|1|35 इत्यतः भीह्रीभृहुवां श्लुवच्च 3|1|39 इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य वर्तमानसूत्रेण लोपः भवति ।
यथा - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -

एध् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः 3|1|36 इति आम्-प्रत्ययः]
→ एध् + आम् [आमः 2|4|81 इति लकारस्य लुक्]
→ एध् + आम् + चक्रे [कृञ्चानुप्रयुज्यते लिटि 3|1|40 इति कृ-धातोः अनुप्रयोगः । आम्प्रत्ययवत् कृञोनुप्रयोगस्य 1|3|63 इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् "चक्रे" इति]
→ एधांचक्रे [मोऽनुस्वारः 8|3|23 इति मकारस्य अनुस्वारः]
→ एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः]

ज्ञातव्यम् - अत्र निर्दिष्टः "आम्" इति प्रत्ययः अस्ति, आगमः न । तथा च, अत्र मकारः इत्संज्ञकः अपि नास्ति ।
One-line meaning in English
The लकार that follows the "आम्" प्रत्यय is removed.
काशिकावृत्तिः
आमः परस्य लेः लुग् भवति। ईहाञ्चक्रे। ऊहाञ्चक्रे। ईक्षाञ्चक्रे।
`ईहाञ्चक्रे` इति। `ईह चेष्टायाम्` (धातुपाठः-632), लिट्, `इजादेश्च` 3|1|36 इत्यादिनाऽ‌ऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, `अव्ययादाप्सुपः` 2|4|82 इति सुलोपः, `कृञ्च` 3|1|40 इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, `आम्प्रत्ययवत्` 1|3|63 इत्यादिनाऽ‌ऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, `अनुस्वारस्य ययि परसवर्णः` 8|4|57 । अथेह कस्मान्न भवति-- जगाम, शशामेति? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।पा।90) इत्यर्थवान्। इह तर्हि कस्मान्न भवत्यम् रोग इति-- आमेति? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3), अस्य तु लाक्षणिकत्वात्॥
आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र ठ्तिङ्ङतिङःऽ इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां ठ्नञ्ऽ सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः----शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम----अत्र प्राप्तोति, अर्थवत्वात्? ठ्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ इति अत्र न भविष्यति॥
सिद्धान्तकौमुदी
आमः परस्य लुक् स्यात् ॥
आमः - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — "कृन्मेजन्त" इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ "आम" इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । "आम" इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् ।
आमः - ॒लक्षणप्रतिपदोक्त॑परिभाषया,प्रत्ययग्रहण॑परिभाषया च नेह- आम । आमतुः । परसय् लुगिति ।मन्त्रे घसे॑ति सूत्राल्लेरित्यनुवर्त्त्यलेर्लु॑गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात् । तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक् । तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपितिङ्ङतिङः॑ इति न निघातः । आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः । न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् ।
लघुसिद्धान्तकौमुदी
आमः परस्य लुक्॥
महाभाष्यम्
आमः (612) (375 लुक्सूत्रम् ।। 2।4।2 आ.10) (लुङ्लोटोर्लुक्साधनाधिकरणम्) (1649 शेषवार्तिकम् ।। 1 ।।) - आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् - (भाष्यम्) आमः लेर्लोपे लुङ्लोटोरुपसंख्यानं कर्तव्यम्। तां वैजवापयो विदामक्रन्। अस्य भवन्तो विदांकुर्वन्तु।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। लिग्रहणं निवर्तिष्यते।। (आक्षेपभाष्यम्) यदि निवर्तते। प्रत्ययमात्रस्य लुक् प्राप्नोति।। (समाधानभाष्यम्) इष्यत एव प्रत्ययमात्रस्य।। आतश्चेष्यते। एवं ह्याह कृञ्ञ्चानुप्रयुज्यते लिटिःथ्द्य;ति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति।। (आम्ग्रहणनिर्णयाधिकरणम्) (1650 आक्षेपवार्तिकम् ।। 2 ।।) - आमन्तेभ्यो णलः प्रतिषेधः - (भाष्यम्) आमन्तेभ्यो णलः प्रतोषेधो वक्तव्यः। शशाम तताम। वृद्धौ कृतायम्आमःइति लुक् प्राप्नोति।। (1651 समाधानवार्तिकम् ।। 3 ।।) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोऽप्रतिषेधः - (भाष्यम्) आमन्तेभ्योर्थवद्ग्रहणाण्णलः। अप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः।। लुक् कस्मान्न भवति ‐ शशाम ततामेति? अर्थवद्ग्रहणात्। अर्थवत आम्शब्दस्य ग्रहणम्। न चैषोर्थवान्।। (1652 समाधानबाधकवार्तिकम् ।। 4 ।।) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोप्रतिषेध इति चेदमः प्रतिषेधः - (भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेत् अमधातोः प्रतिषेधो वक्तव्यः। आम ।। (समाधानसाधकभाष्यम्) उक्तं वा।। किमुक्तम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति।। (लुकआदेशापवादत्वाधिकरणम्) (आक्षेपभाष्यम्) किं पुनर्लुगादेसापवादः, आहोस्वित्-कृतेष्वादेशेषु भवति।। (1653 समाधानवार्तिकम् ।। 5 ।।) - लुगादेशापवादः - (भाष्यम्) लुग् आदेशानामपवादः।। (1654 समाधानबाधकवार्तिकम् ।। 6 ।।) - तिङ्कृताभावस्तु - (भाष्यम्) तिङ्कृतस्य तु अभावः।। कस्य? पदत्वस्य।। (1655 समाधानसाधकवार्तिकम् ।। 7 ।।) - सुबन्तत्वात्सिद्धम् -) (भाष्यम्) सुबन्तं पदम् इति पदसंज्ञा भविष्यति।। (आक्षेपभाष्यम्) कथं स्वाद्युत्पत्तिः? (1656 समाधानवार्तिकम् ।। 8 ।।) - लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् - (भाष्यम्) लकारः कृत्, कृत्प्रातिपदिकम् इति प्रातिपदिकसंज्ञा, तदाश्रयं प्रत्ययविधानम्, प्रातिपदिकाश्रयत्वात्स्वाद्युत्पत्तिर्भविष्यति।। (समाधानबाधकभाष्यम्) (यद्येवं) सुपः श्रवणं प्राप्नोति।। (समाधानसाधकभाष्यम्) अव्ययादिति लुग् भविष्यति।। (आक्षेपभाष्यम्) कथमव्ययत्वम्? ।। (1657 समाधानवार्तिकम् ।। 9 ।।) - अव्ययत्वं मकारान्तत्वात् ।। 8 ।। (भाष्यम्) कृदन्तं मान्तमव्ययसंज्ञं भवतीति अव्ययसंज्ञा भविष्यति।। (आक्षेपभाष्यम्) स्वरः कथम् ‐ यत्प्रकारयांचकार? (1658 समाधानवार्तिकम् ।। 10 ।।) - स्वरः कृदन्तप्रकृतिस्वरत्वात् - (भाष्यम्) कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो भविष्यति।। (1659 फलान्तरवार्तिकम् ।। 11 ।।) - तथा च निघातानिघातसिद्धिः - (भाष्यम्) तथा च निघातानिघातसिद्धिर्भवति। चक्षुष्कामं याजयांचकार तिङ्ङतिङ इति तस्य चानिघातः। तस्माच्च निघातः सिद्धो भवति।। (1660 आक्षेपवार्तिकम् ।। 12 ।।) - नञ्ञा तु समासप्रसङ्गः - (भाष्यम्) नञ्ञा तु समासः प्राप्नोति ‐ नकारयाम् नहारयाम्। नञ्ञ् सुबन्तेन सह समस्यत इति समासः प्राप्नोति।। (समाधानभाष्यम्) उक्तं वा ।। किमुक्तम्? असार्मथ्यादिति। नात्र नञ्ञ आमन्तेन सार्मथ्यम्।। केन तर्हि? लिडन्तेन न चकार कारयाम् न जहार हारयामिति ।। आमः ।। 81 ।।