Page loading... Please wait.
2|4|80 - मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः
॥ तस्मै पाणिनये नमः ॥
2|4|80
SK 3402
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः   🔊
सूत्रच्छेदः
मन्त्रे (सप्तम्येकवचनम्) , घस-ह्वर-णश-वृ-दह-आत्- वृच-कृ-गमि-जनिभ्यः (पञ्चमीबहुवचनम्) , लेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मन्त्रविषये घस ह्वर नश वृ दह आत् वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग् भवति। घस अक्षन् पितरो ऽमीमदन्त पितरः। ह्वर इति ह्वृ कौटिल्ये मा ह्वार्मित्रस्य त्वा। णश धूर्तिः प्रणङ् मर्त्यस्य। वृ इति वृङ्वृञोः सामान्येन ग्रहनम् सुरुचो वेन आवः। दह मा न आ धक्। आतिति आकारान्तग्रहनम्। प्रा पूरने आप्रा द्यावापृठीवी अन्तरिक्षम्। वृच् मा नो अस्मिन् महाधने परा वृग् भारभृद्यथा। कृ अक्रन् कर्म कर्मकृतः। गमि {सद्यः पुंष्टि निरुन्धानासो} अग्मन्। जनि अज्ञत वा अस्य दन्ताः। ब्राह्मने प्रयोगो ऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्।
सिच इत्यनुवत्र्तमाने पुनर्लिग्रहणं `आदिः सिचोऽन्यतरस्याम्` 6|1|181 इत्यादेःसिच्कार्यस्य निवृत्त्यर्थम्, उत्तरार्थञ्च। `अक्षन्` इति। `अद भक्षणे` (धातुपाठः-1011) लुङ, `लुङसनोर्धस्लृ` 2|4|37 इति घस्लादेशः। ततः `च्लि लुङि` 3|1|43 इ#इत च्लिः, तस्यानेन लुक्, झेरन्तादेशः, `इतश्च` 3|4|100 इकतीकारलोपः, `संयोगान्तस्य` 8|2|23 इति तकारलोपः, `गमहन` 6|4|98 इत्यादिनोपधालोपः, `शासिवसिघलसीनाञ्च` 8|3|60 इति षत्वम्, `झलां जश् झशि` 8|4|52 इति जश्त्वम्, `खरि च` 8|4|54 इति चत्र्वम्। ह्वरेत्यागन्तुकेनाकारेण निर्देशः। `मा ह्वः` इति। लुङ, तिङगुणरपरत्वानि, हल्ङ्यादिलोपः, 6|1|66 , `न माङयोगे` 6|4|74 इत्यडागमाभावः। `प्राणड्` इति। `णश अदर्शने` (धातुपाठः-1194), पूर्ववल्लुङादिकार्यम्, व्रश्चादिसूत्रेण 8|2|36 षत्वम्, `झलां जशोऽन्ते` 8|2|39 इति जस्त्वम्-- षकारस्य डकारः, तस्य `वावसाने` 8|4|55 इति चर्त्वं टकारः,`उपसर्गादसमासेऽपि` 8|4|14 इति णत्वम्। क्वचित् `प्राणग्` इति पाठः। तत्र `क्विन्प्रत्ययस्य कुः` 8|2|62 इत्यतः कुरित्यनुवत्र्तमाने `नशेर्वा` 8|2|63 इति कुत्वम्। `आवः` इति। वृञस्तिप्, गुणो रपरत्वम्, हल्ङ्यादिना 6|1|66 सिपो लोपः। `धक्` इति। `दह भस्मीकरणे` (धातुपाठः-911), सिप्,हल्ङ्यादिना 6|1|66 सिपो लोपः। `दादेर्धातोर्घः` 8|2|32 इति हस्य घः। `एकाचो बशो भष्` 8|2|37 इत्यादिना दकारस्य धकारः, धकारस्य जश्त्वम्-- गकारः, तस्य चत्र्वम्-- ककारः, आडागमस्य `बहुलं छन्दस्यामाङ्योगेऽपि` 6|4|75 इति निषेधः। `आप्रात्` इति। `प्रा पूरणे` (धातुपाठः-1061) इत्यस्मात् तिप्। `परावर्क` इति। वृजेस्तिप्, लघूपधगुणः,हल्ङ्यादिना 6|1|66 लोपः। `रात्सस्य` 8|2|24 इति नियमात् संयोगान्तलोपाभावः। जकारस्य पूर्ववत् कुत्वं गकारः, तस्य चर्त्वं ककारः। `अक्रन्` इति। कृञो झेरन्तादेशः, संयोगान्तलोपः। `अज्ञत` इति। जनेर्झस्य `आत्मनेपदेष्वनतः` 7|1|5 इत्यदादेशः, पूर्ववदुपधालोपः, `स्तोः श्चुना श्चुः` 8|4|39 इतिश्चुत्वम्। क्वचित् `अज्ञन्` इति पाठः। तत्र झिः, ततः परस्मैपदं वधेयम्। `ब्राआहृणे प्रयोगोऽयम्` इति। योऽयमनन्तरं मन्त्रे जनेरुक्तः स ब्राआहृणो मन्त्रव्याख्यानग्रन्थः। मन्त्रे जनेर्लुक् च दृश्यत इति तद्विषयमुदाहरणं नोपन्यस्तम्। यदि तह्र्रमन्त्रे लुग्भवति मन्त्रग्रहणं किमर्थमित्याह-- `मन्त्रग्रहणम्` इत्यादि॥
मन्त्रे गसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ च्लेरेवात्र ग्रहणमिष्यते, न लिङदीनाम्, तदर्थं ठ्सिचःऽ इत्यनुवर्तयन्ति---सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति। ठ्लुङ्सनोर्घस्लृऽ, ठ्गमहन्ऽ इत्युपधालोपः, ठ्शासिवसिऽ इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे ठ्नशेर्वाऽ इति कुत्वम्। आप्रादिति। ठ्प्रा पूर्तौऽ आङ्पूर्वः। अज्ञतेति। ठ्जनी प्रादुर्भावेऽ, अनुदातेत्। बहुवचनस्य ठात्मनेपदेष्वनतःऽ इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्। यथाह भगवाञ्जैमनिः----ठ्यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दःऽ इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम्---अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह---मन्त्रग्रहणन्त्विति। मन्त्रस्य च्छन्दोरूपत्वातएन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्॥
सिद्धान्तकौमुदी
एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन--(कौमुदी-2363) इत्युपधालोपे शासिवसि -- (कौमुदी-2410) इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा--(कौमुदी-431) इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.