॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|8
SK 912
2|4|8
क्षुद्रजन्तवः   🔊
SK 912
सूत्रच्छेद:
क्षुद्रजन्तवः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अपचितपरिमाणः क्षुद्रः। क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तवः इति किम्? ब्राह्मणक्षत्रियौ। क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि। आ नकुलादपि इति इयम् एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्।
क्षुद्रशब्दोऽयमस्त्येव यः कार्पण्यवति पुरुषे वत्र्तते; यथा-- क्षुद्रो देवदत्त इति, कृपण इति गम्यते। अस्ति च शीलहीनेऽङ्गहीने च, यथा --क्षुद्राभ्यो वेति। अत्र ह्रनियतपुंस्का विकलाङ्गाश्च स्त्रियः क्षुद्राग्रहणेन गृह्रन्ते। अस्ति च परिमाणापचये, यथा-- क्षुद्रास्तण्डुला इति। इह तु जन्तुशब्दसन्निधानात् प्राणिशरीरस्याल्पतामाचष्टे। तेन परिमाणापचये वत्र्तमानस्य क्षुद्रशब्दस्य ग्रहणं विज्ञायत इत्याह-- `अपचितपरिमाणः क्षुद्रः` इति। अल्पशरीर इत्यर्थः। अपचितपरिमाणता चापेक्षाभेदादनवस्थितेति। अस्थिरेत्यर्थः।क्षुद्रजन्तुशब्दस्याभिधेयं प्रति स्म-तीरुपन्यस्यति-- `क्षुद्रजन्तुरनस्थिः स्यात्` इति। `क्षुदिर् सम्पेवणे` (धातुपाठः-1443) क्षुद्यत इति क्षुद्रः। औणादिकः `स्फायीतञ्चि` (द।उ।8।31) इत्यादिना रक्। क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अनस्थिः` इति। यस्यास्थीनि न विद्यन्ते। कवलं यस्य चर्मशोणितमांसमस्ति स क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अथ वा क्षुद्र एव यः` इति स्मृत्यन्तरमाह। क्षोदयितुं यः शक्यते स क्षुद्रजन्तुः। शब्दार्थवशात् प्रसिद्ध एव लोके क्षुद्रजन्तुग्र्राह्रः। स पुनर्मशकादिरङ्गे यस्यात्मीयं शोणितं नास्ति। येषां वा गोचर्ममात्रं राशिहत्वापि नरः पतितो न भवति ते प्रसिद्धाः क्षुद्रजन्तव उच्यन्ते। `शतं वा प्रसृतौ येषाम्` अपरा स्मृतिः। प्सृतौ अञ्जलौ बद्धं येषां प्राणिनां शतं प्रसृतिर्भवति शतेन वा प्रसृतिः पूर्यते ते क्षुद्रजन्तवः। `केचिदानकुलादपि` इति। ककेचिद्वर्णयन्ति-- नकुलपर्यन्ताः क्षुद्रजन्तव इति। `इयमेव स्मृतिः प्रमाणम्` इति। अस्याः सर्वस्मृत्यनुग्राहिणीत्वात्। तथा ह्रेतदुपलक्षितेषु क्षुद्रजन्तुषु स्मृत्यन्तरदर्शिता अपि क्षुद्रजन्तवोऽन्तर्भवति। इतरा अपि स्मृतयः प्रमाणं कस्मान्न भवन्तीत्याह-- `इतरासाम्` इत्यादि। अनस्थ्यादीनां स्मृतीनामा नकुलादपीति स्मृत्या विरोधः। तस्मान्नैताः प्रामाण्येनाभ्युपगम्यन्ते, तेन सर्वत्रेदं सिद्धं भवति। `क्षुद्रजन्तवः` इति बहुवचननिर्देशात् बहुवचननिर्देशात् बहुप्रकृतेरेवैकवद्भावो यथा स्यात्। तनेह न भवति-- यूकालिक्षे, दंशमशकाविति। अयञ्च प्राणिजात्यर्थ आरम्भः। `क्षुद्रजन्तव इति किम्` इति? ननु च सूत्रास्याभावे किं प्रत्युदाहरणं स्यात्? एवं मन्यते-- अन्यथा हि जन्तव इति सूत्रं कत्र्तव्यम्, ततश्चातिप्रसङ्ग स्यादिति॥
क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे---क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च---ठ्क्षुद्राभ्यो वाऽ इति, अस्ति परिमाणापचये---क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह--अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति---क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह---अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि ठ्स्फायीतञ्चिऽ इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा---जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह----शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह---केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥
सिद्धान्तकौमुदी
एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥
क्षुद्रजन्तवः - क्षुद्रजन्तवः । एतेषां द्वन्द्व एकबदित्यर्थः । फलितमाह — एषां समाहारे [एव ]द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः । लिक्षाश्च प्रसिद्धाः । एकवत्त्वं, नपुंसकह्यस्वत्वं च । आ नकुलादिति ।नकुलपर्यन्ताः क्षुद्रजन्तवः॑ इति भाष्यादिति भावः ।
क्षुद्रजन्तवः - क्षुद्र । अपचितपरिमाणत्वं क्षुद्रत्वम् । तच्चापेक्षिकत्वादनवस्थितम् । यच्च स्मर्यते — -॒क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसृतौ येषां, केचिदानकुलादपि॑इति । तत्र सर्वपक्षसाधारण्येनोदाहरति — यूकालिक्षमिति । आ नकुलादिति । नकुलपर्यन्ता इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्षुद्रजन्तवः (539) (340 एकवद्भावसूत्रम् ।। 2।4।1 आ. 5) (क्षुद्रजन्तुत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) क्षुद्रजन्तव इत्युच्यते। के क्षुद्रजन्तवः? (समाधानभाष्यम्) क्षोत्तव्या जन्तवः क्षुद्रजन्तवः।। (आक्षेपभाष्यम्) यद्येवं यूकालिक्षं कीटपिपीलिकं दंशमशकमिति न सिध्यति।। (समाधानभाष्यम्) एवं तर्ह्यनस्थिकाः क्षुद्रजन्तवः।। (लक्षणान्तरभाष्यम्) अथ वा येषां स्वं शोणितं नास्ति ते क्षुद्रजन्तवः।। (लक्षणान्तरभाष्यम्) अथ वा येषामासहस्रादञ्जलीर्न पूर्यते ते क्षुद्रजान्तव: ।। (लक्षणान्तरभाष्यम्) अथ वा येषां गोचर्ममात्रं राशिं हत्वा न पतति ते क्षुद्रजन्तवः।। (सिद्धान्तलक्षणम्) अथ वा नकुलपर्यन्ताः क्षुद्रजन्तवः।। क्षुद्रजन्त ।। 8 ।।