॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|79
SK 2547
2|4|79
तनादिभ्यस्तथासोः   🔊
SK 2547
सूत्रच्छेद:
तनादिभ्यः - पञ्चमीबहुवचनम् , तथासोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तनादिभ्य उत्तरस्य सिचः तथासोः परतो विभाषा लुग् भवति। अतत, अतथाः। अतनिष्ट, अतनिष्ठाः। असात, असाथाः। असनिष्ट, असनिष्ठाः। जनसनखनां संज्ञलोः 6|4|42 इत्यात्वम्। थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहनम्। प्रस्मैपदे न भवति, अतनिष्त यूयम्।
`अतत` इति। `स्वरितञितः` 1|3|72 इत्यात्मनेपदम्। `अनुदात्तोपदेश` ( 6|4|37 इत्यादिनाऽनुनासिकलोपः। `अतनिष्ट ययम्` इति। मध्यमपुरुषबहुवचनान्तमेतत्॥
तनादिभ्यस्तथासोः॥ उदाहरणेषु स्वरितेत्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः---अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार---आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्॥
सिद्धान्तकौमुदी
॥ अथ तिङन्ततनादिप्रकरणम्‌ ॥ अथ सप्त स्वरितेतः । 1464 तनु विस्तारे । तनादिकृञ्भ्य उः {*2466*} । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्‌-अतानीत्‌ ।

तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश---(कौमुदी-2428) इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । 1465 षणु दाने । सनोति । सनुते । ये विभाषा (कौमुदी-2319) । सायात् । सन्यात् । जनसन--(कौमुदी-2504)इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः । 1466 क्षणु हिंसायाम् । क्षणोति । क्षणुते । ह्मयन्त--(कौमुदी-2299) इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः । 1467 क्षिणु । उप्रत्ययनिमित्तो लघूपधगुणः । [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट । 1468 ऋणु गतौ ऋणोति । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः । 1469 तृणु अदने । तृणोति । तर्णोति । तृणुते । 1470 घृणु दीप्तौ । जघर्ण । जघृणे ॥ अथ द्वावनुदात्तेतौ ॥ 1471 वनु याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । 1472 मनु अवबोधने । मनुते । मेने । 1473 डुकृञ् करणे । करोति । अत उत्सार्वधातुके (कौमुदी-2467) कुरुतः । यण् । न भकुर्छुराम् (कौमुदी-1629) इति न दीर्घः । कुर्वन्ति ॥
तनादिभ्यस्तथासोः - तनादिभ्यस्तथासोः ।गातिस्ते॑त्यतः सिच इति, "ण्यक्षत्रियार्षे" त्यतो लुगिति,विभाषा घ्राधे॑डित्यतो विभाषेति चानुवर्तते । तदाह — - तनादेरित्यादिना । एकवचनशब्दो गृह्रत इति । नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति । लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति — अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति । तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकिअनुदात्तोपदेसे॑ति नकारस्य लोप इत्यर्थः । तदाह — अतत अतनिष्टेति । अतथाः अतनिष्ठा इति च । अतनिषातामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्षे रूपम् । असनिष्टेति । इट् । झलादिपरकत्वाऽभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः ।वज्रेऽध्वर्युः क्षण्वीते॑ति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायमित्यर्थः ।वज्रेऽध्वर्युः क्षिण्वीते॑ति शाखान्तरं शाबरभाष्ये उदाह्मतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह — उप्रत्ययनिमित्त इति । ऋणु गतौ । अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ । तदाह — ऋणोति अर्मोतीति.एवमग्रेऽपि । अर्ण्वन्तीति ।इको यणची॑ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्यमाश्रित्य ऋकारस्य गुणः । रपरत्वम् । उकारस्य तु तिपमाश्रित्यगुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । रकुरु अन्तीति स्थिते आह — यणिति ।इको यणचीत्यनेने॑ति शेषः । उकारस्य यणि कुर्व् अन्ति इति स्थितेहलि चे॑ति दीर्घमाशङ्क्याह — नभेति । वसि मसि चलोपस्चास्यान्यतरस्या॑मित्युकारलोपविकल्पे प्राप्ते — नित्यं करोतेः ।उतश्च प्रत्यया॑दित्यनुवर्तते,लोपश्चास्यान्यतरस्या॑मित्यतो लोपः, म्वोरिति च । तदाह- - करोतेरिति । चकर्थेति ।कृसृभृवृ॑इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु- कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते — ये च ।लोपश्चास्यान्यतरस्या॑मित्यतो लोप इति, अस्येति चानुवर्तते । अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते ।नित्यं करोते॑रित्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः । तदाह - कृञ उलोप इति । आशिषि क्रियादिति । "रिङ् शयग्लिङ्क्षु" इति रिङिति भावः । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुण इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः । ननु लुङ्स्तङि अकृ स् त इति स्थितेतनादिभ्यस्तथासो॑रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि ।
तनादिभ्यस्तथासोः - अतनिष्ट अतानिष्टेति ।तस्थस्थमिपा॑मिति तादेशः ।अतो हलादे॑रिति वा वृद्धिः । अततेति ।तनादिभ्यस्तथासो॑रिति सिज्लुक्यनुनासिकलोपः । अतनिष्टेति । लुगभावपक्षे इट् । षणु दाने । नान्तोऽयम् । णकारस्तु लाक्षणिकः ।तेन यङ्लुकिसंसन्ति संसन्त॑ इत्यादावनुस्वारपरसवर्णौ । क्षणु हिंसायाम् । क्षिणु च । इमावपि लाक्षिकणकारौ । तेन चङ्क्षन्ति,चेक्षेति इत्यत्रानुस्वारपरसवर्णौ ।
लघुसिद्धान्तकौमुदी
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ षणु दाने॥ 2॥ सनोति, सनुते॥
महाभाष्यम्
तनादिभ्यस्तथासोः (610) (374 सिज्लुक्सूत्रम् ।। 2।4।2 आ.9) (तप्रत्ययनिर्णयाधिकरणम्) (1646 वार्तिकम् ।। 1 ।।) - तथासोरात्मनेपदवचनम् - (भाष्यम्) तथासोरात्मनेपदस्य ग्रहणं कर्तव्यम्। आत्मनेपदं यौ तथासाविति वक्तव्यम्।। (1647 वार्तिकम् ।। 2 ।।) - एकवचनग्रहणं वा - (भाष्यम्) अथ वा एकवचनं ये तथासी इति वक्तव्यम्।। तच्चावश्यमन्यतरत्कर्तव्यम्।। (1648 वार्तिकम् ।। 3 ।।) - अवचने ह्यनिष्टप्रसङ्गः - (भाष्यम्) अनुच्यमाने ह्येतस्मिन्ननिष्टं प्रसज्येत ‐ अतनिष्टं यूयम् असनिष्ट यूयमिति। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। यद्यपि तावदयं तशब्दो दृष्टापचारोस्त्यात्मनेपदम्, अस्ति च परस्मैपदम्, अस्त्येकवचनम्, अस्ति बहुवचनम् अयं तु खलु थास्शब्दोऽदृष्टापचार आत्मनेपदमेकवचनं च। तस्यास्य कोन्यः सहायो भवितुमर्हति अन्यदत आत्मनेपदादेकवचनाच्च। तद्यथा ‐ अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ इति। तनादि ।। 79 ।।