Page loading... Please wait.
2|4|70 - आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌
॥ तस्मै पाणिनये नमः ॥
2|4|70
SK 1152
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌   🔊
सूत्रच्छेदः
आगस्त्य-कौण्डिन्ययोः (षष्ठीद्विवचनम्) , अगस्ति-कुण्डिनच् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आगस्त्यकौण्डिन्ययोर् गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यम् अगस्ति, कुण्डिनचित्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारः स्वरार्थः। मद्योदात्तो हि कुण्डिनीशब्दस् तदादेशो ऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्, कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः गोत्रे ऽलुगचि 4|1|89 इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे 4|2|111 इति। तत्र विशेषो न अस्ति। कौण्डिनाश्छात्राः।
यद्यपि प्रत्ययान्तात् षष्ठ्युच्चारिता, तथापि प्रत्ययस्यैव लुग्विज्ञायते, न तदन्तस्य; यस्मात् प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तदन्तस्येत्यालोच्याह-- `आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः` इति। व्यधिकरणे षष्ठ्यौ। आगस्त्यकौण्डिन्ययोर्याववयवौ गोत्रप्रत्ययौ तयोरित्यर्थः। तावेव प्रत्ययौ स्वरूपेण दर्शयन्नाह-- `अणो यञश्च` इति। यञो यद्यपि लुक् सिद्धस्तथापि पुनर्विधीयते कुण्डिनजादेशेन तस्य बाधा मा विज्ञायीति। `मध्योदात्तो हि कुण्डिनीशब्दः` इति। कुण्डमस्यास्तीति `अत इनिठनौ` 5|2|114 इतीनिप्रत्यये कृते प्रत्ययस्वरेण। `तदादेशोऽपि तथा स्यात्` इति। स्थानिवद्भावेन मध्योदात्तः स्यात्। चित्करणान्मध्योदात्तत्वं न बवति। किमर्थं पुनः प्रत्ययान्तरयोरेवायमादेशो न क्रियत इत्याह--- `तयोः` इत्यादि। यदि प्रत्ययान्तयोरेवायमादेशः स्यात `गोत्रेऽलुगचि` 4|1|89 इति प्रतिषधो न स्यात्। यस्माल्लुकोऽसौ प्रतिषेधो नादेशस्येति स्यादेवात्रादेशः, ततश्चावृद्धादणेव स्यात्; एवं चागस्ता इत्यनिष्टं रूपं स्यात्। यद्यपि वृद्ध्सयादेशः स्यानिवद्भावाद् वृद्धग्रहणेन गृह्रते तथाप्यगस्तीया इति स्यात्, आगस्तीया इति न सिध्यति। न च स्थानिवद्भावो लभ्यते; वृद्धसंज्ञाया अल्विधित्वात्। इह प्रत्ययस्य तु लुकि परिशिष्टस्यादेशे विहिते `गोत्रेऽलुगचि` 4|1|89 इति लुकि च प्रतिषिद्धे `वृद्धाच्छः` 4|2|113 सिद्धो भवति। `तत्र विशेषो नास्ति` इति। सत्यामपि वृद्धसंज्ञायां `कण्वादिभ्यो गोत्रे` 4|2|110 इति च्छापवदेनाणैव भवितव्यमिति नास्ति कौण्डिन्ये विशेषः॥
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावे ठ्नस्तद्धितेऽ इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति---अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह---तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम्---ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम्---अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते----यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥
सिद्धान्तकौमुदी
एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (601) (371 प्रकृत्योरादेशसूत्रम् ।। 2।4।2 आ.6सू.) (प्रकृत्यादेशत्वनिर्णयाधिकरणम्) (1639 वार्तिकम् ।। 1 ।।) - आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् - (भाष्यम्) आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनं कर्तव्यम्। अगस्ति ‐ कुण्डिनजित्येतौ प्रकृत्यादेशौ भवत इति वक्तव्यम्।। किं प्रयोजनम्? (1640 वार्तिकद्वितीयखण्डम् ।। 2।।) - लुक्प्रतिषेधे वृद्ध्यर्थम् - (भाष्यम्) लुक्प्रतिषेधे वृद्धिर्यथा स्यात्।। (1641 वार्तिकतृतीयखण्डम् ।। 3 ।।) - प्रत्ययान्तनिपातने हि वृद्ध्यभावः - (भाष्यम्) प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात्। आगस्तीयाः कौण्डिना इति।। (आक्षेपभाष्यम्) यदि प्रकृतिनिपातनं क्रियते। केनेदानीं प्रत्ययस्य लोपो भविष्यति? (1642 वार्तिकम् ।। 4 ।।) - अधिकारात्प्रत्ययलोपः - (भाष्यम्) अधिकारात्प्रत्ययलोपो भविष्यति।। (आक्षेपभाष्यम्) तत्तर्हि प्रकृतिनिपातनं कर्तव्यम्? (समाधानभाष्यम्) न कर्तव्यम्।। (1643 वार्तिकम् ।। 5 ।।) (- योगविभागात् सिद्धम् -) (भाष्यम्) योगविभागः करिष्यते ‐ (ठठआगस्त्यकोण्डिन्ययोः) आगस्त्यकौण्डिन्ययोर्बहुषु लुग्भवति। ततः(ठठअगस्ति कुण्डिनच्) अगस्तिकुण्डिनजित्येतौ च प्रकृत्यादेशौ भविष्यतः आगस्त्यकौण्डिन्ययोरिति।। (प्रत्याक्षेपभाष्यम्) एवमपि प्रत्ययान्तयोरेव प्राप्नोति। प्रत्ययान्ताद्धि भवान् षष्ठीमुच्चारयति ‐ आगस्त्यकौण्डिन्ययोः इति।। (समाधानभाष्यम्) नैष दोषः। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति प्रत्ययस्यैव भविष्यति। अवशिष्टस्यादेशो भविष्यतः ।। आगस्त्य ।। 70 ।।