Page loading... Please wait.
2|4|67 - न गोपवनादिभ्यः
॥ तस्मै पाणिनये नमः ॥
2|4|67
SK 1149
न गोपवनादिभ्यः   🔊
सूत्रच्छेदः
(अव्ययम्) , गोपवन-आदिभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोपवनाऽदिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग् न भवति। बदाद्यनतर्गणो ऽयम्। ततो ऽञो गोत्रप्रत्ययस्य यञञोश्च 2|4|64 इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः। गोपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एव अष्टौ गोपवनाऽदयः। परिशिष्टानां हरितादीनं प्रमादपाठः। ते हि चतुर्थे बिदाऽदिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग् भवत्येव, हरितः, किंदासाः इति।
विदाद्यन्तर्गणोऽयमिति लुक्प्राप्त दर्शयति। `शैग्रवाः` इति। `ओर्गुणः` 6|4|146 । ननु चान्येऽपि हरितादयोऽत्र पठन्ते, तत्किमित्यवधार्यत एतावन्त इत्यत आह-- `परिशिष्टानाम्` इत्यादि। `प्रमादपाठः` इति। अनार्षः पाठः इत्यर्थः। यदि तेषां प्रमादपाठः, एवं तह्र्रविदादित्वादञप्येभ्यो न प्राप्नोतीत्यत आह-- `ते हि` इत्यादि। ते हि चतुर्थेऽध्याये बिदादिषु गोपवनादिभ्यः पर्वे पठन्त इति न भवत्येष दोषप्रसङ्गः। यस्त्विह गोपवनादिभ्योऽष्टभ्यः पर एषां पाठः, स प्रमादपाठ इत्युच्यते॥
न गोपवनादिभ्यः॥ परिशिष्टानां हरितादीनां प्रमादपाठ इति। ननु चेह स्थाने न गोपवनादयः पठ।ल्न्ते, किं तर्हि? चतुर्थ एव बिदादिषु तदुपजीवनेनैतत्प्रवर्तते। अथ चतुर्थ पाठः प्रमादज इत्युज्यते, बिदाद्यञपि तर्हि न प्राप्नोति। अथ गोपवनादिभ्यः परत्र पाठः प्रमादजः पूर्वत्र पाठयः----इत्युच्येत्, एवमपि ठ्हरितादिभ्योऽञ्ऽ इत्येष विधिर्गोपवनादीनामपि प्राप्नोति। तस्माद्यथाव्यवस्थित एव पाठे मध्ये वृत्करणं वर्तव्यम्, इह वा प्राक् हरितादिभ्य इति वक्तव्यम्। यथोक्तम्----ठ्गोपवानादिभ्यः प्रितिषेध प्राग्घरितादिभ्यःऽ इति। वृत्तिकारस्तु चतुर्थेऽत्र चपृथक् पाठ्ंअ मन्यते॥
सिद्धान्तकौमुदी
एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥
न गोपवनादिभ्यः - न गोप । बिदाद्यन्तर्गणोऽयमिति । ततश्च अञःयञञोश्चे॑ति प्राप्तस्य लुङ् नेति भावः ।
न गोपवनादिभ्यः - विदाद्यन्तर्गणोऽयमिति ।यञञोश्चे॑ति लुगत्र प्राप्नोतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न गोपवनादिभ्यः (598) (369 लुक्प्रतिषेधसूत्रम् ।। 2।4।2 आ. 4 सू.) (1637 वार्तिकम् ।। 1) - गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यः - गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यो द्रष्टव्यः। हारितः हारितौ। बहुषु ‐ हरिताः।। न गोपव ।। 67 ।।