॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|58
SK 1276
2|4|58
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः   🔊
SK 1276
सूत्रच्छेद:
ण्य-क्षत्रिय-आर्ष-ञितः - पञ्चम्येकवचनम् , यूनि - सप्तम्येकवचनम् , लुक् - प्रथमैकवचनम् , अण्-इञो: - षष्ठीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ण्याऽदयो गोत्रप्रत्ययाः। ण्यान्तात् क्षत्रियगोत्रादार्षाद् ञितश्च प्रयोः अण्डञोर्यूनि लुग् भवति। ण्यान्तात् तावत् कुर्वादिभ्यो ण्यः 4|1|151 , तस्माद् यूनि इञ्, तस्य लुक्। कौरव्यः पिता। कौरव्यः पुत्रः। ननु च कौरव्यशब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरुनादिभ्यो ण्यः 4|1|172 इत्यनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्वादिभ्यो ण्यः 4|1|151 इति। क्षत्रिय ऋष्यन्धकवृष्णिकुरुभ्यश्च 4|1|114 इत् यण्, तस्माद् यूनि इञ्, तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कः पुत्रः। आर्ष ऋष्यण् 4|1|114, तस्माद् यूनि इञ्, तस्य लुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। ञित् अनृष्यानन्तर्ये विदाऽदिभ्यो ऽञ् 4|1|104, तस्माद् यूनि इञ्, तस्य लुक्। बैदः पिता। वैदः पुत्रः। अणः खल्वपि तिकाऽदिभ्यः फिञ् 4|1|154, तस्माद् यूनि प्राग् दीव्यतो ऽण् 4|1|83, तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः। एतेभ्यः इति किम्? शिवाऽदिभ्यो ऽण् 4|1|112, तस्माद् यूनि अत इञ् 4|1|95, तस्य लुग् न भवति। कौहडः पिता। कौहडि पुत्रः। यूनि इति किम्? वामरथ्यस्य छात्राः वामरथाः। कुर्वादिभ्यो ण्यः 4|1|151 इति ण्यः, तस्मात् कण्वाऽदिभ्यो गोत्रे 4|2|111 इति शैषिको ऽण्। तस्य लुग् न भवति। अणिञोः इति किम्? दाक्षेरपत्यं युवा दाक्षायणः। अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्रानम्। बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबालिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भाण्डीजङ्घिः पिता। भाण्डीजङ्घिः पुत्रः। शाल्वावयवलक्षन इञ्, तस्मात् फक्, तस्य लुक्। पैलादिदर्शनात् सिद्धम्।
`ण्यादयो गोत्रप्रत्ययाः` इति। `गोत्राद्यून्यस्त्रियाम्` 4|1|94 इति गोत्रप्रत्ययान्तादेव युवप्रत्ययविधानात्। `तस्माद्यूनीञ्` इति। `अत इञ्` 4|1|95 इत्यनेन। `कौरव्यशब्दस्तिकादिषु पठते` इति। औरसशब्दादनन्तरम्। `क्षत्रियगोत्रस्य तत्र ग्रहणम्` इति। औरसशब्देन क्षत्रियगोत्रप्रत्ययान्तेन साहचर्यात्। औरसशब्दो हि जनपदशब्दात् क्षत्त्रियादञ् 4|1|166 इति क्षत्त्रियगोत्रप्रत्ययान्तः॥`ऋष्यण्` इति। `ऋष्यन्धकवृष्णिकुरुभ्यश्च` 4|1|114 इत्यनेन। `कुर्वादिभ्यो ण्यः` इति। वमरथ्यशब्दं व्युत्पादयति। तस्मात् `कण्वादिभ्योगोत्रे इति शैषिकोऽण्` इति। ननु च वामरथ्यशब्दः कुर्वादिषु पठते, न कण्वादिषु, तत्कथमेवमुक्तम्? यद्यपि न पठते, तथापि वामरथ्यस्य कण्वादिवत् स्वरवर्जमिति पाठात् कण्वादिवद्भावोऽस्ति, अत एवमुक्तमित्यदोषः।`दाक्षायणः` इति। `यञिञोश्च` 4|1|101 इति फक्।`अब्राआहृणगोत्रमात्रात्` इति। इह कैश्चिदुक्तम्-- `अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्` इति। तेषां वैश्यगोत्रान्न प्राप्नोति; तस्माद्वैश्यगोत्रादपि यथा स्यादित्येवमर्थं मात्रग्रहणम्। ब्राआहृणक्षत्रियवैश्यानां हि गोत्राणि सम्भवन्ति, तत्र ब्राआहृणगोत्रं वर्जयित्वाऽन्यतः सर्वस्माद्भवति। पूर्वके तु वाक्येऽतद्राजादपि क्षत्रियगोत्राद्यथा स्यादित्येवमर्थं मात्रग्रहणम्। तथा हि `अणिञोर्लुकि तद्राजाद्युप्रत्ययस्योपसंख्यान्` दर्शयति। `भाण्डीजङ्घिः` इत्येवमादिना वैश्यगोत्रोदाहरणम्। ब्राआहृणगोत्रप्रतिषेधादिह न भवति--दाक्षायण इति। `शाल्वावयवलक्षणः` इति। क्षत्रियगोतर्मधिकृत्येदमुक्तम्। भाण्डीजङ्घिरित्यत्र वैश्यगोत्रे `अत इञ्` 4|1|95 इत्यनेनेञेव भवतीति वेदितव्यम्। `पैलादिदर्शनात् सिद्धम्` इति। पैलादेराकृतिगणत्वात् तत्रेते द्रष्टव्या इति दर्शयति॥
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ ण्यादयो गोत्रप्रत्यया इति। ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति गोत्रप्रत्ययान्तादेव यूनि प्रत्ययविधानात्। क्षत्रियगोत्रस्यक्षत्रियादभेदोपचारात् क्षत्रियशब्देनाभिधानम्। ऋषेरपत्यमार्षम्, ठितश्चानिञःऽ इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीष्यते----आर्षेयं वृणीते इति। तस्माच्छुभ्रादिष्वपि पठनीयः। एवं गोत्ररूपाभ्यां क्षत्रियार्षाभ्यां प्रत्ययस्योपलक्षणाद् ण्यादयो गोत्रप्रत्यया इत्युक्तम्। क्षत्रियादिति। क्षत्रियगोत्रप्रत्ययान्तादित्यर्थः। आर्षादिति। ऋष्यभिधायिनो गोत्रप्रत्ययान्तादित्यर्थः। प्रथमनिर्दिष्टाद् ण्यान्तादणोऽसम्भवाच्चरमनिर्द्दिष्टोऽपीञेव प्रथममुदाहृतः। क्षत्रियगोत्रस्य तत्र ग्रहणमिति। औरसशब्देन साहचर्यात्। स हि ठ्जनपदशब्दात् क्षत्रियादञ्ऽ इत्यञन्तत्वात्क्षत्रियशब्दः। उरसशब्दः सकारोपधो जनपदवाची, तस्माद्यौउनि प्राग्दीव्यतीयोऽणिति। ठ्फेश्च्छ चऽ इति च ञच्छौ तु न भवतः, यमुन्दश्च सुयामा चेति परिगणनात्। कण्वादिभ्यो गोत्रे इति शैषिकोऽणिति। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठादिति भावः। अब्राह्मणगोत्रमात्रादिति। अत्र भाष्ये त्रीणि वाक्यान्युपन्यस्तानि---अणिञोर्लुकि तद्राजाह्युवप्रत्ययस्योपसंख्यानमिति प्रथमम्, अस्योदाहरणम्---बौधिः पिता, बौधिः पुत्रा; औदुम्बरिः पिता, औदुम्बरिः पुत्रः, बुधोदुम्बराभ्यां शाल्ववयवालक्षण इञ् ठ्यञिञोश्चऽ इति फक्, तस्य लुक्। अनणिञर्थमेतद्वचनभ्। शाल्वावययवेत्यत्रोदुम्बरास्तिलखिला इत्यादि संभवोदाहरणं न परिगणनमिति बुधशब्दादपीञ् भवति। क्षत्रियगोत्रमात्राद्यौवप्रत्ययस्योपसंख्यानमिति द्वितीयम्। मात्रशब्दो व्याप्त्यर्थः, तद्राजादिति नियमो नास्ति---क्षत्रियगोत्रमात्रादिति। तेन जाबालशब्दादत इञोऽतद्राजादपि परस्य फको लुग् भवति---जाबालिः पिता, जाबालिः पुत्रः। वृत्तिकारेणोन्यस्तं तृतीयम्। अत्रापि मात्रशब्दो व्याप्त्यर्थः। क्षत्रियादित्यापि नियमो नास्ति---अब्राह्मणगोत्रमात्रादिति, तेन वैश्यगोत्रादपि भवति। भाण्डिजङ्घकर्णखरकौ वैश्यौ, ताभ्यामत इञ् तदन्तात्फको लुक्। व्यापकत्वाच्चेदमुपन्यस्तं वृत्तिकारेण॥
सिद्धान्तकौमुदी
ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । वृद्धाच्छः (कौमुदी-1337) । इञश्च (कौमुदी-1333) इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः - अत्र इञो लुकमाशङ्कितुमाह — ण्यक्षित्रियार्ष । ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्रन्ते,गोत्राद्यूनी॑त्युक्तेः । तदाह — गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाहरति — कौरव्य इति । कुरोर्गोत्रापत्यं कौरव्यः ।कुर्वादिभ्यो ण्यः॑ । कौरव्यस्यापत्यं युवेत्यर्थेऽत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति — आआफल्क इति । आफल्कस्य गोत्रापत्यं आआफल्कः ।ऋष्यन्धके॑त्यण् । आआफल्कस्यापत्यं युवेत्यर्थेअत इञ् । तस्याऽनेन लुक् । आर्षप्रत्ययस्योदाहरति — वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण् । वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । ञित उदाहरति — तैकायनिरिति । तिकस्य गोत्रापत्यं तैकायनि । तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । "कुर्वादिभ्यो ण्यः" वामरथ्यस्य छात्रा इत्यर्थेकण्वादिभ्यो गोत्रे॑ इति छापवादोऽण्, तस्यानेन लुङ्ग भवति, तस्य युवार्थकत्वाऽभावादिति भावः । इत्यणो लुक्तु न भवतीति ।ण्यक्षत्रिये॑ति सूत्रेण पाणिनिरित्यत्र [अणः परस्य]इणो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — आर्षग्रहणेनेति । पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाऽभावान्न ततः परस्य इञो लुगिति भावः । नच पणिन्शब्दाद्गोत्रापत्येऋष्यन्धके॑त्यणेव कुतो न स्यादिति वाच्यं, यत्र औत्सर्गिकस्य अण इञादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थभृष्यणः प्रवृत्तेः । वस्तुतस्तुवाऽन्यस्मिन्सपिण्डे॑ इति सूत्रभाष्येऽत्रिशब्दात् "इतश्चानिञः" इति ढकि आत्रेयशब्दादिञोण्यक्षत्रियार्षे॑ति लु॑गित्युक्तत्वादिदमुपेक्ष्यम् ।ण्यक्षत्रिये॑त्यत्र तु ऋशिवाचकस्य रूञस्यैव ग्रहणम् । पणिन्शब्दः, तदपत्ये पाणिनशब्दश्च न ऋषिवाचकौ । अत औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितम् । पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणं बाधित्वा॒वृद्धाच्छः॑ इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षितेयूनिलुगितीञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादोऽण्स्यादित्यत आह — इञश्चेत्यण्तु नेति । पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसंत्रया गोत्रसंज्ञाया बाधादिति भावः । अद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तं, तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्रते इत्युपरिष्टात्इञश्चे॑ति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेति वेत्यर्थे पाणिनीयशब्दादणिप्रोक्ताल्लु॑गिति तस्य लुगिति भावः । ननु असत्यपि अध्येतृवेतितृप्रत्ययस्याऽणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह — स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितृप्रत्ययस्याऽणो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः । प्रत्ययस्वरेणोदात्तः टाप्च सिध्यति । तदाह — पाणिनीयः पाणिनीयेति ।
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः - ण्यक्षत्रियार्ष । कौरव्य इति ।कुर्वादिभ्यो ण्यः॑ । तत इञो लुक् । कौरव्यः पुत्रः । ननु तिकादिषु कौरव्यशब्दः पठते, तथा च कौरव्यायणिरिति फञा भाव्यं, नत्विञेति चेत्सत्यम् ।कुरुनादिभ्यो ण्यः॑ इति क्षत्रियगोत्रे विहितो यो ण्यस्तदन्तं तत्र पठते । प्रकृते तु ब्राआहृणगोत्रप्रत्ययान्तमित्यवधेयम् । आआफल्क इति ।ऋष्यन्धके॑त्यण् । तत इञो लुक्, आआफल्कः पुत्रः । वासिष्ठ इति । ऋष्यञ् । तत इञो लुक् । वासिष्ठः पुत्रः । तैकायनिरिति ।तिकादिभ्यः फिञ् । ततोऽणो लुक् । तैकायनिः पुत्रः । वामरथा इति । कुर्वादित्वाण्ण्यः । ततो वृद्धाच्छं बाधित्वाकण्वादिभ्यो गोत्रे॑ इति शैषिकोऽण् । इतीति ।ण्यक्षत्रियार्षे॑त्युदाह्मतसूत्रेणेत्यर्थः । ऋष्यण एवेति । पाणिनशब्दे तु औत्सर्गिक एवाऽणिति भावः । नन्विदंवान्यस्मिन् सपिण्डे॑इति सूत्रस्थभाष्यकैयटाभ्यां विरुध्यते । अत्रेर्युवापत्यानि पुमांसोऽत्रयः । इनश्चानिञः ॑इति ढक् । तदन्ताद्यूनिअत इञ् । तस्यण्यक्षत्रिये॑ति लुक्,अत्रिमृगुकुत्से॑ति ढकोऽपि लुक् इत्युक्तत्वात्ष ।ऋष्यन्धके॑त्यण एव ग्रहणे तु ढकोऽग्रहणात्ततः परस्येञो लुङ्न स्यादित्याहुओः । वस्तुतस्तुदाक्षीपुत्रस्य पाणिने॑रिति भाष्यप्रयोगादस्य साधुत्वमिति ज्ञेयम् । इञश्चेतीति ।यूनि लु॑गिति लुक्यपि प्रत्ययलक्षणेन इञन्तमस्तीति भावः । गोत्रे य इञिति ।गोत्रमिह शास्त्रीयं, न तु लौकिक॑मिति तत्र वक्ष्यते इति भावः । स्वरे इति । लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि सति त्वोकार उदात्तः, टाप् च सिध्यतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ण्यक्षत्रियार्षञितो यूनि लुगणिञ्ञोः (589) (अथ लुक्प्रकरणम्) (365 लुग्विधायकसूत्रम् ।। 2।4।1 आ.30) (1624 वार्तिकम् ।। 1 ।।) - अणिञ्ञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानम् - (भाष्यम्) अणिञ्ञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानं कर्तव्यम्। बौधिः पिता बौधिः पुत्रः। औदुम्बरिः पिता औदुम्बरिः पुत्रः।। (न्यासान्तरभाष्यम्) अपर आह ‐ (1625 वार्तिकन्यासान्तरम् ।। 2 ।।) - अणिञ्ञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् - (व्याख्याभाष्यम्) अणिञ्ञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति। जाबालिः पिता जाबालिः पुत्रः।। (न्यासान्तरभाष्यम्) अपर आह ‐ (1626 अपरमतेनवार्तिकम् ।। 3 ।।) - अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् - (व्याख्याभाष्यम्) अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति। किंप्रयोजनम्? इदमपि सिद्धं भवति ‐ भाण्डिजङि्घः पिता भाण्डिजङि्घः पुत्रः। कार्णखरकिः पिता कार्णखरकिः पुत्रः।। इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चचुर्थेपादे प्रथममाह्निकम् ।।