Page loading... Please wait.
2|4|51 - णौ च सँश्चङोः
॥ तस्मै पाणिनये नमः ॥
2|4|51
SK 2579
णौ च सँश्चङोः   🔊
सूत्रच्छेदः
णौ (सप्तम्येकवचनम्) , च (अव्ययम्) , सन्-चङोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
आर्धधातुके  2|4|35
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इङो गाङ् विभाषा इति वर्तते। णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया। णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति। अध्यापिपयिषति। चङि खल्वपि अध्यजीगपत्। न च भवति। अध्यापिपत्।
`णावितीङपेक्षया` इत्यादि। णावितीयं या परसप्तमीङपेक्षया सा। `संश्चङोः` इतीयं या परसप्तमी सा ण्यपेक्षयेत्यर्थः। `अधिजिगापयिषति` इति। णिच्। `अर्तिह्यी` 7|3|36 इत्यादिना पुक्, सन्, इट्, गुणायादेशौ। अध्यापिपयिषति` इति। `क्रीङजीनां णौ` 6|1|47 इत्यात्त्वम्, पुक्, `अजादेर्द्वितीयस्य` 6|1|2 इति `पा` इत्यस्य द्विर्वचनम्। `अध्यजीगपत्` इति। `णिश्रि` 3|1|48 इत्यादिना चङ। `णौ चङ्युपधाया ह्यस्वः` 7|4|1 । `सन्वल्लघुनि` 7|4|93 इति सन्वद्भावात् `सन्यतः` 7|4|79 इतीत्त्वम्। `दीर्घो लघोः` 7|4|94 इती दीर्घः॥
णौ च संश्चेङे॥ अध्यापिपयिषतीति। ठ्क्रीङ्जीनां णौऽ इत्यात्वम्। अध्यजीगपदिति। लुङ् चिङ् ठ्णिउ चङ्युपधाया ह्रस्वःऽ,ठ्सन्वल्लघुनिऽ, ठ्दीर्घो लघोःऽ॥
सिद्धान्तकौमुदी
सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । [(परिभाषा - ) संप्रसारणं तदाश्रयं च कार्यं बलवद्‌] इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥
णौ च सँश्चङोः - णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते ।इङश्चे॑त्यत इङ इति,गाङ् लिटी॑त्यतो गाङिति,विभाषा लुङ्लृङो॑रित्यतो विभाषेति चानुवर्तते । तदाह — सन्परे चङ्परे चेत्यादि । सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः । अध्यजीगपदिति । णौ इङो गाङादेशे पुकि उपधाह्यस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्यस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । नचद्वित्वे कार्ये णावजादेशो ने॑ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम्अजादेर्द्वितीयस्ये॑ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः । अध्यापिपदिति । गाङभावे "क्रीङ्जीनां णौ" इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थितेपी॑त्यस्य द्वित्वे रूपमिति भावः । सिध्येतरपारलौकिके । "आदेच उपदेशे" इत्यस्मादादेच इति,क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते । तदाह — ऐहलौकिके इत्यादि । अन्नमिति । तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति । आत्मस्वरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.