Page loading... Please wait.
2|4|5 - अध्ययनतोऽविप्रकृष्टाख्यानाम्‌
॥ तस्मै पाणिनये नमः ॥
2|4|5
SK 909
अध्ययनतोऽविप्रकृष्टाख्यानाम्‌   🔊
सूत्रच्छेदः
अध्ययनतः (अव्ययम्) , अ-वि-प्रकृष्ट-आख्यानाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अध्ययनेन निमित्तेन येषाम् अविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद् भवति। पदकक्रमकम्। क्रमकवार्तिकम्। सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनतः इति किम्? पितापुत्रौ। अविप्रकृष्टाऽख्यानाम् इति किम्? याज्ञैकवैयाकरणौ।
अधीतिरध्ययनमिति भावसाधनोऽध्ययनशब्दः, कर्मसाधनो वा -- अधीयत इत्यध्ययनमिति। `अध्ययनतः` इति। `आद्यादिभ्यस्तस्युपसंख्यानम्` (वा। 634) इति हेतुतृतीयान्तात् तसिः। अत आह-- `अध्ययनेन निमित्तेन` इति। `अविप्रकृष्टा` इति। अविप्रकृष्टाऽ‌ऽख्या येषां तेऽविप्रकृष्टाख्याः। निमित्तस्य साधारणत्वादिविप्रकृष्टता। तत्पुनर्निमित्तं सूत्रोपात्तमेवाध्ययनमाख्यानामधेयम्। `पदकक्रमकम्` इति। पदमधीते, क्रममधीते इति `क्रमादिभ्यो वुन्` 4|2|60 । `क्रमकवार्तिकम्` इति। वृत्तिमधीत इति वार्तिकः। क्रतूक्थादिसूत्रान्ताट्ठक् 4|2|59 । कथं पुनः पदस्याध्येतुः क्रमस्य चाध्ययनेन निमित्तेनाविप्रकृष्टता भवतीत्याह-- `सम्पाठः` इत्यादि। यस्मात् पदानां क्रमस्य च यः पाठः स नातिभिन्नः। ग्रन्थोऽपि तादृश एव, अतः प्रत्यासन्नः। यतश्च पदान्यधीत्य क्रमोऽध्येतव्यः, ततोऽपि सम्पाठस्तयो। प्रत्यासन्नः, ततश्च तेन सम्पाठेनाध्ययनेन निमित्तेन पदक इति क्रमक इति च याऽध्येतुराख्या साऽपि प्रत्यासन्ना भवतीत्यभिप्रायः। `पितापुत्रौ` इति। `आनङ ऋतो द्वन्द्वे` 6|3|24 इत्यानङादेशः। तत्र हि `पुत्रेऽन्यतरस्याम्` 6|3|21 इत्यतः पुत्र इत्यनुवत्र्तते। अत्रापि पितेति पुत्र इति चाख्ये प्रत्यासन्ने साधारणत्वान्निमित्तस्य। तथा हि-- जन्यजनकभावो द्वयोरपि तयोर्निमित्तम्। `याज्ञिकवैयाकरणम्` इति। यज्ञमधीते याज्ञिकः। क्रतूक्थादिना 4|2|59 इक्। व्याकरममधीते वैयाकरणः। `तदधीते तद्वेद` 4|2|58 इत्यण्। अस्त्यत्राध्ययननिमित्तत्वमनयोराख्ययोः, न तु प्रत्यासतिः। न हि यज्ञाध्ययनेन व्याकरणाध्ययनेन वा तयोः क्रियाप्रत्यासत्तिर्नापि ग्रन्थप्रत्यासत्तिः॥
अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमितद्वारेण, तच्चेहाध्ययनम्, तदाह---अध्ययनत इति। अधीतिःउअध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वातसिः, प्रवृत्तिनिमितभूतस्याध्ययनस्याविप्रकृष्टत्वातद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह---अध्ययनेन निमितेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः, ठ्क्रमादिभ्यो वुन्,ऽ एवं क्रमकः। वृत्तिःउ संहिता, तामधीते वार्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमितस्याध्ययनस्याविप्रकर्षं दर्शयति---संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासतिर्विज्ञेया॥
सिद्धान्तकौमुदी
अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥
अध्ययनतोऽविप्रकृष्टाख्यानाम् - तदाह — अध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदककक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः ।क्रमादिभ्यो बुन् । पदकानां क्रमकाणां च समाहर इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाह्मतम्,जातिरप्राणिना॑मित्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः ।
अध्ययनतोऽविप्रकृष्टाख्यानाम् - पदकेति । पदान्यधीते पदकः ।क्रमादिभ्यो वुन् । एवं क्रमकोऽपि । पदान्यधीत्यक्रमोऽद्येतव्य इति स्पष्टा प्रत्यासत्तिः । अध्यनतः किम् । पितापुत्रौ । अविप्रकृष्टेति किम् । याज्ञिकनैयायिकौ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.