`प्रजग्घ्य` इति। `समानकर्त्तृकयोः पूर्वकाले`
3|4|21 इति क्त्वा। `कुगतिप्रादयः`
2|2|18 इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्`
7|1|37 । `जग्धः` इति। `झषस्तथोर्द्धोऽधः`
8|2|40 इति तकारस्य धकारः। `झलां जश् झशि`
8|4|52 इति जश्त्वम्-- धकारस्य दकारः। `झरो झरि सवर्णे`
8|4|64 इति लोपः। अथेह `इदितो नुम् धातोः`
7|1|58 इति नुम् कस्मान्न भवतीत्यत आह-- `इकार उच्चारणार्थः` इति। यथा-- `अद भक्षणे` (धातुपाठः-1011) इत्यत्राकार उच्चारणार्थः, तथेहापीकारो वेदितव्यः। अथ ल्डग्रहणं किमर्थम्, ति कितीत्येवं सिद्धम्? न सिध्यति; यस्मात् क्त्वाप्रत्ययस्य परत्वाल्ल्यवादेशः प्राप्नोति, नैतदस्ति; अन्तरङ्गत्वाज्जग्ध्यादेशेन भवितव्यम्। अन्तरङ्गत्वन्तु तस्यैकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरङ्गत्वम्; समासाश्रयत्वात्; समासस्य चानेकपदाश्रयत्वात्। एवं तर्हि---जग्धौ सिद्धेऽन्तरङ्गत्वात् ति किति यल्ल्यबुज्यते।(तज्) ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥इति।तेन दधातेः, जहातेश्च संपूर्वाद्विपूर्वाच्च क्त्वाप्रत्यये कृते `द्यतिस्यतिमास्थामिति किति`
7|4|40 इत्यतस्ति कितीत्यनुवत्र्तमाने `दधातेर्हिः`
7|4|42 `जहातेश्च क्त्वि`
7|4|43 इति हिरादेशो ल्यबादेशं बाधित्वं प्राप्तः। अस्मादेव ज्ञापकाल्ल्यपा बाधितत्वान्न भवति-- संधाय, विहायेति। एवं निर्दाय दुर्दायेति `दो दद् घोः`
7|4|46 इति ददादेशो न भवति। प्रस्थायेत्यत्र `द्यतिस्यातिमास्थामितित किति`
7|4|40 इतीत्वं न भवति। प्रखन्य प्रखायेति `जनसनखनां सञ्जलोः`
6|4|42 इति नित्यमात्त्वं न भवति, `ये विभाषा`
6|4|43 इति विभाषैव भवति। तत्र हि `विह्वनोरनुनासिकस्यात्`
6|4|41 इत्यत आद्ग्रहणनुवत्र्तते। `प्रक्रम्य` इति `क्रमश्च क्त्वि`
6|4|18 इति दीर्घत्वं न भवति। तत्र हि `ढ्रलोपे पूर्वस्य दीर्घोऽणः`
6|3|110 इत्यतो दीर्घग्रहणम्, `अनुनासिकस्य क्विझलोः क्ङिति`
6|4|15 इत्यतो झल्ग्रहणं क्ङिति चानुवत्र्तते। आपृच्छ्येति `च्छ्वोः शूजनुनासिके च`
6|4|19 इति शकारो न भवति। प्रदीव्येत्यत्रानेनैव सूत्रेणोठ् न भवति। `हलि च`
8|2|77 इति दीर्घत्वम्। प्रपठएत्यत्र `आद्र्धधातुकस्य`
7|2|35 इतीड् न भवति॥