Page loading... Please wait.
2|4|31 - अर्धर्चाः पुंसि च
॥ तस्मै पाणिनये नमः ॥
2|4|31
SK 816
अर्धर्चाः पुंसि च   🔊
सूत्रच्छेदः
अर्धर्चाः (प्रथमाबहुवचनम्) , पुंसि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते। अर्धर्चः। अर्धर्चम्। गोमयः। गोमयम्। शब्दरूपाऽश्रया च इयं द्विलिङ्गता क्वचिदर्थभेदेन अपि व्यवतिष्ठते, यथा पड्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ, जलजे उभयलिङ्गौ। भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्य अभिधेयवल्लिङ्गम्। सैन्धवशब्दो लवणे उभयलिङ्गः, यौगिकस्य अभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुंलिङ्गः, न्यायादनपेते नपुंसकम्, नैतत् सारम् इति। धर्मः इत्यपूर्वे पुंलिङ्गः, तत्साधने नपुंसकम्। तानि धर्माणि प्रथमान्यासन्। अर्धर्च। गोमय। कषाय। कार्षापण। कुतप। कपाट। शङ्ख। चक्र। गूथ। यूथ। ध्वज। कबन्ध। पड्म। गृह। सरक। कंस। दिवस। यूष। अन्धकार। दण्ड। कमण्डलु। मन्ड। भूत। द्वीप। द्यूत। चक्र। धर्म। कर्मन्। मोदक। शतमान। यान। नख। नखर। चरण। पुच्छ। दाडिम। हिम। रजत। सक्तु। पिधान। सार। पात्र। घृत। सैन्धव। औषध। आढक। चषक। द्रोण। खलीन। पात्रीव। षष्टिक। वार। बान। प्रोथ। कपैत्थ। शुष्क। शील। शुल्ब। सीधु। कवच। रेणु। कपट। सीकर। मुसल। सुवर्ण। यूप। चमस। वर्ण। क्षीर। कर्ष। आकाश। अष्टापद। मङ्गल। निधन। निर्यास। जृम्भ। वृत्त। पुस्त। क्ष्वेडित। शृङ्ग। शृङ्खल। मधु। मूल। मूलक। शराव। शाल। वप्र। विमान। मुख। प्रग्रीव। शूल। वज्र। कर्पट। शिखर। कल्क। नाट। मस्तक। वलय। कुसुम। तृण। पङ्क। कुण्डल। किरीट। अर्बुद। अङ्कुश। तिमिर। आश्रम। भूषण। इल्वस। मुकुल। वसन्त। तडाग। पिटक। विटङ्क। माष। कोश। फलक। दिन। दैवत। पिनाक। समर। स्थाणु। अनीक। उपवास। शाक। कर्पास। चशाल। खण्ड। दर। विटप। रण। बल। मल। मृणाल। हस्त। सूत्र। ताण्डव। गाण्डीव। मण्डप। पटह। सौध। पार्श्व। शरीर। फल। छल। पूर। राष्ट्र। विश्व। अम्बर। कुट्टिम। मण्डल। ककुद। तोमर। तोरण। मञ्चक। पुङ्ख। मध्य। बाल। वल्मीक। वर्ष। वस्त्र। देह। उद्यान। उद्योग। स्नेह। स्वर। सङ्गम। निष्क। क्षेम। शूक। छत्र। पवित्र। यौवन। पानक। मूषिक। वल्कल। कुञ्ज। विहार। लोहित। विषाण। भवन। अरण्य। पुलिन। दृढ। आसन। ऐरावत। शूर्प। तीर्थ। लोमश। तमाल। लोह। दण्डक। शपथ। प्रतिसर। दारु। धनुस्। मान। तङ्क। वितङ्क। मव। सहस्र। ओदन। प्रवाल। शकट। अपराह्ण। नीड। शकल। इति अर्धर्चादिः।
अद्र्धर्चा इति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह-- `अद्र्धर्चादयः` इत्यादि।`शब्दरूपाश्रया चेयम्` इति। शब्दरूपमाश्रयो यस्याः सा तथोक्ता। शब्दरूपमाश्रित्यार्थमनपेक्ष्यद्विलिङ्गतेयं विधीयत इत्यर्थः। क्रियाशब्दस्याभिधेयवल्लिङ्गमिति भूतं कुण्डम्, भूता शाटी, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति लवणं शाकम्, लवणा यवगूः, लवणः सूपः इति। लवणेन संसृष्टमिति `संसृष्टे` (4।4।क22) इति ठक्। तस्य `लवणाल्लुक्` 4|4|24 इति लुक्। अत एव तद्धितार्थयोगे भूतत्वात् अपूर्वशब्दोऽयं धर्माधर्मयोर्वत्र्तते। `तत्साधने` इति। अदृष्टोपार्जनं प्रति यस्याङ्गभावः स तत्साधनमित्यर्थः, स पुनर्यागादिः। कर्मशब्दो नकारान्त एवोभयलिङ्ग इति क्रम कर्मा चेति॥
अर्धर्चाः पुंसि च॥ साहचर्याच्छत्रिन्यायेन कार्षापणादीनामप्यर्धर्चशब्देन ग्रहणमित्याह----अर्धर्चादय इति बहुवचनमत्र प्रमाणम्। शब्दरूपाश्रया चेयं द्विलिङ्गतेति। अस्मिंश्च्छब्दरूपे लिङ्गद्वयं भवतीत्येतावदत्र विवक्षितम्, न पुनरस्य शब्दस्य यावानर्थस्तत्र सर्वत्र लिङ्गद्वयं बवतीत्येवमपीत्यर्थः। किमेवं सति सिद्धं भवतीत्याह----क्वचिदिति। अर्थभेदेन व्यवस्थयापि भवल्लिङ्गद्वयं तत्रैव शब्दे संप्रवृतमिति भावः। अत्रोदहरणमाह---यथेति। ठ्शङ्खः पद्मश्च विज्ञेयौ धनदस्य महानिधीऽ। क्रियाशब्दस्येति। तद्यथा---भूतं काण्डम्, भूता शाला, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति। यद्यपि लवणवृतेरपि सैन्धवशब्दस्य योगोऽपि निमितम्, तथापि रूढिशक्तिरपि तत्र निमितम्। अतो यौगिकस्येति केवलयोगनिमितस्येत्यर्थः। अभिधेयवल्लिङ्गमिति, यथा---सिन्धौ भवं सैन्धवं जलम्, सैन्धवो मत्स्यः, सैन्धवी शफरीति। उत्कर्षे तुंल्लिङ्ग इति। चन्दनसारः, खदिरसार इति। धर्म इत्यपूर्वे पुंल्लिगा इति। यागादिक्रियाजन्यः स्वर्गादिफलानुगुणः कर्तर्युत्पन्नः संस्कारविशेषःऊअपूर्वम्। भाट्टास्तु अपूर्वसाधने यागादावेव धर्मशब्दं पुंल्लिङ्गम्मन्यन्ते----ठ्चोदनालक्षणोऽर्थो धर्मःऽ, ठ्द्रव्यक्रियागुणादीनां धर्मन्वं स्थापयिष्यतेऽ इति। शाबरेऽप्युक्तम्----ठ्यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षतेऽ इति॥
सिद्धान्तकौमुदी
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥
अर्धर्चाः पुंसि च - अर्धर्चाः । बहुवचनात्तदादीनां ग्रहणमित्याह — अर्धर्चादय इति । अर्धर्चमिति । ऋचोऽर्धमिति विग्रहेअर्द्धं नपुंसक॑मिति समासः । "ऋक्पूः" इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुंनपुंसकत्वविकल्पः ।
अर्धर्चाः पुंसि च - अद्र्धर्चा इति । इह केषांचिदर्थभेदेन व्यवस्थेष्यते । सा च व्यवस्था, — -मद्यमकरन्दमाक्षिकाणां वाची मधुशब्दो द्विलिङ्गः, चैत्रादिवाची तु पुंलिङ्गः, भूतः पिशैचे द्विलिङ्गः, क्रियावचनस्तु विशेष्येलिङ्ग इत्येवं यथायथं ज्ञेया ।अद्र्धर्चाः पुंसि च ॑स नपुंसक॑मित्यनयोर्मध्येजात्याख्याया॑मिति चतुःसूत्र्याः सङ्गतिरिह चिन्त्या । बहूनां वचनं प्रतिपादनमिति व्याख्या नात्फलितोऽत्रातिदेश इत्याशयेनाह — ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अर्धर्चाः पुंसि च (562) (350 पुंनपुंसकलिङ्गसूत्रम् ।। 2।4।1 आ.15।।) (बहुवचनस्याद्यर्थकत्वाधिकरणम्) (1588 वार्तिकम् ।। 1 ।।) - अर्धर्चादयः - (भाष्यम्) अर्धर्चादय इति वक्तव्यम्। अर्धर्चः अर्धर्चम्। कार्षापणं कार्षापणः। गोमयं गोमयः। सरकं सरकः।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम् ।। (1589 समाधानसाधकवार्तिकम् ।। 2 ।। - बहुवचननिर्देशात्सिद्धम् - (भाष्यम्) बहुवचननिर्देशादाद्यर्थो गम्यते।। अर्धर्चाः ।। 31 ।।