॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|27
SK 813
2|4|27
पूर्ववदश्ववडवौ   🔊
SK 813
सूत्रच्छेद:
पूर्ववत् - अव्ययम् , अश्व-वडवौ - प्रथमाद्विवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अश्ववडवयोर् विभाषएकवद्भावः उक्तः। तत्र एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायाम् इदम् आरभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्ववडवौ। अर्थातिदेशश्च अयम्, न निपातनम्। तत्र द्विवचनमतन्त्रम्। वचनान्तरे ऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति।
`अआवडवयोर्विभाषैकवद्भावो विहितः`इति। `विभाषा वृक्षमृग` 2|4|12 इत्यादिना। `अर्थातिदेशश्चायम्, न निपातनम्` इति। निपातने हि पूर्ववदिति वचनमर्थकं स्यात्, अआवडवावित्येवं ब्राऊयात्। तेन `द्विवचनमतन्त्रम्` इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति। निपातने हि वचनान्तरे पूर्ववल्लिङ्गता न स्यात्॥
पूर्ववदश्ववडवौ॥ अश्वडवयोरिति। ठ्विभाषा वृक्षऽ इत्यत्र ठ्पशुद्वन्द्वऽ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्, तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे इमं विधं बाधित्वा ठ्स नपुंसकम्ऽ इत्येतदेव भवति। तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमप्येकवद्भाववदेव प्रतिपदविहितं भवति। यस्तु पूर्ववदित्यतिदेशः स एकबद्भावाभावपक्षे चरितार्थः, तदाह---तत्रैकवद्भावादन्यत्रेति। न निपातनमिति। निपातने हि पूर्ववदिति वचनमनर्थकम्, अविवक्षितमित्यर्थः। निपातने तु तद्विवक्षितं स्याद्, यथोच्चारितरूपविषयत्वान्निपातस्य॥
सिद्धान्तकौमुदी
द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥
पूर्ववदश्ववडवौ - पूर्वपदआवडवौ ।अआश्च बहवा चे॑ति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम् ।अआवडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभते॑ #इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह — द्विवचनमतन्त्रमिति । उपलक्षममिदम् द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः ।पूर्वव॑द्ग्रहणमत्र लिङ्गम् अन्यथा निपातनादेव सिद्धे किं तेनेति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!