Page loading... Please wait.
2|4|24 - अशाला च
॥ तस्मै पाणिनये नमः ॥
2|4|24
SK 827
अशाला च   🔊
सूत्रच्छेदः
अ-शाला (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
तत्पुरुषोऽनञ्कर्मधारयः  2|4|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अशाला च या सभा तदन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनो ऽत्र सभाशब्दो गृह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घातः इत्यर्थः। अशाला इति किम्। अनाथकुटी इत्यर्थः।
सभाशब्दोऽयमस्त्येव कुटीवचनः-- कदीर्घा सभा,ह्यस्वा सभेति। अस्ति च सङघातवचनः, यथा-- ब्राआहृणानां सभा, स्त्रीणां सभेति; इह चाशालेति कुटीवचनप्रतिषेधादितरो गृह्रत इत्यत आह-- `सङ्घातवचनः` इत्यादि॥
अशाला च॥ सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह---संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति॥
सिद्धान्तकौमुदी
सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥
अशाला च - अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां, सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह — सङ्घातार्था या सभेति । सभाशब्द इत्यर्थः ।
अशाला च - अशाला च । शालावाची सङ्घातवाची च सभाशब्दस्तत्र राजमनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्, अनेन तु सङ्घातवाचिनो विधीयत इत्याह — -सङ्घातार्थेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.