॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|23
SK 826
2|4|23
सभा राजामनुष्यपूर्वा   🔊
SK 826
सूत्रच्छेद:
सभा - प्रथमैकवचनम् , राज-अमनुष्यपूर्वा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
तत्पुरुषोऽनञ्कर्मधारय:  [2|4|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सभान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुस्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्मान् न भवति, राजसभा? पर्यायवचनस्य एव इष्यते। तदुक्तम् जित्पर्यायस्य एव राजाध्यर्थम् इति। अमनुष्यपूर्वा रक्षःसभम्। पिशाचसभम्। इह कस्मान् न भवति, काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण् रक्षःपिशाचादिष्वेव वर्तते। राजा अमनुष्यपूर्वा इति किम्? देवदत्तसभा।
`इह कस्मान्न भवति-- राजसभा` इति। `स्वं रूपं शब्दस्याशब्दसंज्ञा` 1|1|67 इति वचनदिहैव युक्तं भवितुमित्यभिप्रायः। `तदयुक्तम्` इत्यादि। एतेन `पर्यायवचनस्यैवेष्यते` (का।वृ।2.4.23) इत्येतदाप्तवचनेन द्रढयति। यतः पर्यायवचनस्यैवेष्यते तस्मादेव हेतोरिदमुक्तम्। `{जित्पर्यायवचनस्यैव-काशिका। जदित्पर्यायवनस्यैव` इत्यादि। कथं पुनः पर्यायवचनस्यैव भवतीत्येषोऽर्थः, यावता नेह सूत्रे तथाविधं वचनमस्ति? एवं मन्यते-- ननु च पूर्वग्रहणमस्ति, अतः पूर्वग्रहणादेषोऽर्थो लभ्यते, कथम्? यदि स्वरूपग्रहणं स्यात् `राजाऽमनुष्यात्` इत्येवं ब्राऊयात्, पञ्चम्येव हि दिक्शब्दमध्याहरयिष्यति, न च सभान्तस्य तत्पुरुषस्य पूर्वशब्दादन्यो दिक्शब्दोऽध्याहर्त्तुं शक्यत इति किं पूर्वग्रहणेन? तत् क्रियतेऽर्थग्रहणं यथा स्यात्। अर्थग्रहणे च सत्यराजाऽमनुष्यपूर्वा इति द्विष्प्रतिषेधो वण्र्यते-- अराजपूर्वा, अमनुष्यपूर्वेति। तदनेन नञिवयुक्तन्यायेन (व्या।प।65) तत्सदृशा राजपर्याया गृह्रन्ते, न तु तद्विशेषाश्चन्द्रगुप्तादयः, न हि ते राजार्थस्य वाचका इति। अथ वा-- अर्थग्रहणेऽस्मिन् `विभाषा समीपे` 2|4|16 इत्यतो विभाषागर्हणमनुवत्र्तते मण्डूकप्लुतिन्यायेन, सा च व्यवस्थितविभाषा विज्ञायते। तेनेह प्रयायवचनस्यैवेआरादेग्र्रहणं भविष्यति, नान्यस्य।`अमनुष्यशब्दो {हि-- वृत्तौ नास्ति} हि रूढिरूपेण रक्षः पिशाचादिषु वत्र्तते` इति। यद्येवम्, `अनुष्यकर्त्तृके च` 3|2|53 इत्यत्र यदुदाहरिष्यति-- जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखा, श्लेष्मध्नं मधु, पित्तघ्नं घृतमिति,तद्व्याहन्यते? नैष दोषः; अत्र हि चकार क्रियते, तस्यैव विधेः समुच्चयार्थः। तेन पुनर्विधानात्, `कृत्यल्युटो बहुलम्` (3।3।क113) इति वचनाद्वा रक्षः पिशाचादिभ्योऽन्यत्रापि भविष्यति। अथ वा-- अमनुष्यशब्दोऽयं द्विविधः-- अस्त्येवायमव्युत्पन्नो यो रक्षः पिशाचादिषु वत्र्तते, अस्ति च व्युत्पन्नो नञ्समासः; तत्रेहाव्युत्पन्नस्य रूढिशब्दस्य ग्रहणम्। `अमनुष्यकर्त्तृके च` 3|2|53 इत्यत्र व्युत्पन्नस्यारूढिशब्दस्य ग्रहणमित्यविरोधः। `देवदत्तसभा` इति। देवदत्तशब्दो न राजपर्यायः; नाप्यमनुष्यवचनः॥
सभा राजामनुष्यपूर्वा॥ इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति। ठ्स्वं रूपम्ऽ इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति----तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ---अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि ठमनुष्यकर्तृके चऽ इत्यत्र पितघ्नं घृतमित्युदाहरिष्यते? व्याख्यानातत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः॥
सिद्धान्तकौमुदी
राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ ।पर्यायस्यैवेष्यते (वार्तिकम्) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥
सभा राजाऽमनुष्यपूर्वा - सभा । राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविदिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह — राजपर्यायपूर्व इति । इनसभम् ईआरसभमिति । इनस्य ईआरस्य वा सभेति विग्रहः । इनेस्वरशब्दौ राजपर्यायाविति भावः ।पर्यायमात्रग्रहणे प्रमाणं दर्शयति — पर्यायस्यैवेष्यत इति ।भाष्यकृते॑ति शेषः ।स्वं रूप॑मिति सूत्रेजित्पर्यायवचनस्यैव राजाद्यर्थ॑मिति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति । "चन्द्रगुप्त" इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह — अमनुष्यशब्दो रूढएति । असुरशब्दो दैत्यानिवेति भावः ।
सभा राजाऽमनुष्यपूर्वा - सभा । इनसभमित्यादि । इनशब्दोऽत्र राजपर्यायः, ईआरशब्दश्च । ननुस्वं रूप॑मिति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं, नपर्यायस्येत्यत आह — ।पर्ययस्यैवेष्यते । पर्यायस्यावेष्यत इति एवकारेण स्वरूपस्य विशेशणां च निरासः । कथं तर्हिनृपतिसभामगमन्न वेपमानः॑इति कीचकवधे । अत्र केचित् — ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः ।अनञ्कर्मधारयः॑इत्युक्तेर्न क्लीबत्वमित्याहुः । रक्षितस्त्वाह — -गजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!