॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|19
SK 822
2|4|19
तत्पुरुषोऽनञ्‌ कर्मधारयः   🔊
SK 822
सूत्रच्छेद:
तत्पुरुषः - प्रथमैकवचनम् , अनञ् - प्रथमैकवचनम् , कर्मधारयः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
तत्पुरुषोऽनञ्कर्मधारय:  [2|4|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अधिकारो ऽयम् उत्तरसूत्रेषु उपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वा ऽन्यस् तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् 2|4|25। ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुषः इति किम्? दृढसेनो राजा अनञिति किम्? असेना। अकर्मधार्यः इति किम्? परमसेना।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
तत्पुरुषोऽनञ्कर्मधारयः॥ असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावातद्यौक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृतौ वस्तुमात्रं दर्शितम्---नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः, ठ्सञ्ज्ञायां कन्थाऽ इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः। ठ्छाया बाहुल्येऽ इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति---ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। ठशाला चऽ इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः ठ्विभाषासेनाऽ इत्यत्रैवास्य साक्षादुपयोग इति भावः॥
सिद्धान्तकौमुदी
अधिकारोऽयम् ॥
तत्पुरुषोऽनञ् कर्मधारयः - तत्पुरुषोऽनञ । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह — अधिकारोऽयमिति ।परवल्लिङ्गमित्यतः प्रा॑गिति शेषः ।
तत्पुरुषोऽनञ् कर्मधारयः - तत्पुरुषोऽनञ् । नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभाग्भवतीति सूत्रार्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तत्पुरुषोऽनञ्ञ्कर्मधारयः (550) (अथ लिङ्गानुशासनप्रकरणम्) (346 नपुंसकत्वसूत्रम् ।। 2।4।1 आ.11) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (एकदेशिसमाधानभाष्यम्) संज्ञायां कन्थोशीनरेषु इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा माभूदिति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि संज्ञायां कन्थात उशीनरेष्वतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।। (समाधानभाष्यम्) उत्तरार्थं तर्हि ‐ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि तदाद्याचिख्यासायामुपज्ञोपक्रमान्तोऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।। (समाधानभाष्यम्) उत्तरर्थमेव तर्हि ‐ छाया बाहुल्ये इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि च्छायान्तो बाहुल्येऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।। (समाधानभाष्यम्) उत्तरर्थमेव तर्हि सभा राजाऽमनुष्यपूर्वा अशालाच इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।। (समाधानबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। नहि सभान्तोऽशालायामतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।। (समाधानभाष्यम्) इदं तर्हि विभाषा सेनासुरा ‐ इति वक्ष्यति तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।। (आक्षेपभाष्यम्) तत्पुरुष इति किमर्थम्? (समाधानभाष्यम्) दृढसेनो राजा।। (आक्षेपभाष्यम्) अनञिति किमर्थम्? (समाधानभाष्यम्) असेना।। (आक्षेपभाष्यम्) अकर्मधारय इति किमर्थम्? (समाधानभाष्यम्) परमसेना। उत्तमसेना।। तत्पुरुदृ।। 19 ।।