॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|15
SK 919
2|4|15
अधिकरणैतावत्त्वे च   🔊
SK 919
सूत्रच्छेद:
अधिकरणैतावत्त्वे - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
न इति वर्तते। अधिकरणं वर्तिपदार्थः। स हि समासस्य अर्थस्य अधारः। तस्य एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न एकवद् भवति। यथायथम् एकवद् भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः।
अधिकरणं वर्त्तिपदार्थः` इति। वत्र्तन वर्त्तः = समासः। भावे घञ्। वर्तोऽस्यास्तीति वर्ति = समासावयवभुतम। वर्त्तिश्च तत् पदञ्चेति वर्त्तिपदं तस्य पदस्यार्थोऽधिकरणमित्युच्यते। कथं पुनस्तस्याधिकरणत्वामित्यत आह-- `स हि` इत्यादि। आधारो ह्रधिकरणम्। वर्त्तिपदार्थश्च समासार्थस्याधारो भवति; तत्र तस्य समवायात्। वर्त्तिपदार्थैह्र्रवयवैरवयवी समासार्थ आरभ्यते, अवयवी चावयवेषु कसमवैति। `तस्य ` इति। वर्त्तिपदार्थस्य। `दश {इमे नास्ति--काशिका, पदमञ्जरी च} इमे दन्तौष्ठाः}` इति। `द्वन्द्वश्च` 2|4|2 इत्यादिना प्राप्तिः॥
अदिकारणैतावत्वे च॥ वृत्तिर्वर्तःउ समासः, सोऽस्यास्तीति समासावयवभूतं वर्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह--स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्तिपदार्थस्येयतायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे ठ्दश दन्तोष्ठाःऽ इत्यधिकरणैतावत्वेऽपि ठ्चाथे द्वन्द्वःऽ इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे ठ्चार्थे द्वन्द्वःऽ इत्यनेन समाहारे द्वन्द्वः स्यादेव---दश ब्राह्मणक्षत्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, ठधिकरणैतावत्वेऽ इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते---ठधिकरणं वर्तिपदार्थःऽ इत्युक्तम्, न च समाहारद्वन्द्वे वतिपदार्थस्यैतावत्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ---दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन ठ्दश दन्तोष्ठःऽ इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्तिपदार्थस्येयता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्तिपदार्थगतैव सङ्ख्या॥
सिद्धान्तकौमुदी
द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥
अधिकरणैतावत्त्वे च - अधिकरणैतावत्त्वे च । अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः । तदाह — द्रव्यसङ्ख्यावगमे इति । समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । "ब्राहृप्रजापती" इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामथ्र्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् ।उपमितं व्याघ्रादिभिः॑ इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमाऽभावे सति असामथ्र्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति "दश दन्तोष्ठाः" इतीतरेतरयोगद्वन्द्वो न स्यात्,द्वन्द्वश्च प्राणितूर्ये॑ति तन्निषेधात् । तताच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामथ्र्यादेवऽप्राप्तेः । अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम् ।
अधिकरणैतावत्त्वे च - नियमो न स्यादिति । न चेह प्राण्यङ्गत्वात्प्राप्तस्यएकवदेवे॑ति नियमस्य प्रतिषेधेऽपिचार्थे द्वन्द्वः॑इति समाहारेद्वन्द्वः स्यादिति वाच्यं,सविशेषणानां वृत्तिर्ने॑त्यभ्युपगमेन समाहारेद्वन्द्वस्य प्राप्तयभावात् । न चोक्तन्यायेनेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यं,सामान्याऽप्रयोगे॑इति लिङ्गत्प्राधानस्य सापेक्षत्वेऽपि तदभ्युपदमात् । उक्तं हि भाष्ये — भवति वै प्रधानस्य सावेक्षस्यापि वृत्तिः॑इति । स्यादेतत् — समाहारद्वन्द्वस्याऽत्र प्राप्त्यभावेद्वन्द्वश्च प्राणितूर्ये॑ति नियमाऽप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचित्करमिति चेदत्राहुः — ॒नियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षेद्वन्द्वश्च प्राणितूर्ये॑ति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम् । तथा चेतरेतरयोगनषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति । एवं च निषेधमुखप्रवृत्तिपक्षस्य ज्ञापनायेदमिति फलितमिति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!