॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|73
SK 631
2|3|73
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः   🔊
SK 631
सूत्रच्छेद:
चतुर्थी - प्रथमैकवचनम् , च - अव्ययम् , आशिषि - सप्तम्येकवचनम् , आयुष्य-मद्र-भद्र-कुशल-सुख-अर्थ-हितै: - तृतीयाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आशिषि गयमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर् योगे चतुर्थी विभक्तिर् भवति। चकारो विकल्पानुकर्षणार्थः। शेषे चतुर्थीविधानात् तया मुक्ते षष्ठी विभक्तिर् भवति। अत्र आयुष्याऽदीनां पर्यायग्रहणं कर्तव्यम्। आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात्। चिरं जीवितं देवदत्ताय देवदत्तस्य वा भुयात्। मद्रं देवदत्ताय देवदत्तस्य वा भूयात्। भद्रं देवदत्ताय, भद्रं देवदत्तस्य। कुशलं देवदत्ताय, कुशलं देवदत्तस्य। निरामयं देवदताय, निरामयं देवदत्तस्य। सुखं देवदत्ताय, सुखं देवदत्तस्य। शं देवदत्ताय, शं देवदत्तस्य। अर्थो देवदत्ताय, अर्थो देवदत्तस्य। प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य। हितं देवदताय, हितं देवदत्तस्य। पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य। आशिषि इति किम्? आयुष्यं देवदत्तस्य तपः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः। द्वितीयाध्यायस्य चतुर्थः पादः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमितम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृतावपि क्वचिदर्थशब्दोऽप्युदाह्रियते। हितं देवदतस्येति। ठ्हितयोगे चतुर्थी वक्तव्याऽ इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्या द्वितीयाध्यायस्य तृतीयः पादः॥
सिद्धान्तकौमुदी
एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः - चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चायावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः । प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः ।हितयोगे चे॑ति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननुस्वं रूपमि॑ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह — व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह — मद्रभद्रयोरिति । इति षष्ठी ।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः - हितमिति ।हितयोगे च॑ इत्यनाशिषि चरितार्थमित्याशिष्ययं विकल्प इथि भावः । व्याख्यानादिति । सूत्रेऽर्थशब्दोऽपि पृथङ् निमित्तं, तथा च द्वन्द्व एवाऽयं न त्वर्थशब्देन बहुव्रीहिरिति भावः । इति षष्ठी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!