Page loading... Please wait.
2|3|67 - क्तस्य च वर्तमाने
॥ तस्मै पाणिनये नमः ॥
2|3|67
SK 625
क्तस्य च वर्तमाने   🔊
सूत्रच्छेदः
क्तस्य (षष्ठ्येकवचनम्) , च (अव्ययम्) , वर्त्तमाने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
न लौउकाव्यय. निष्ठाखलर्थतृनाम् 2|3|69 इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते। क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर् भवति। रज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। क्तस्य इति किम्? ओदनं पचमानः। वर्तमाने इति किम्? ग्रामं गतः। नपुंसके भाव उपसङ्ख्यानम्। छात्रस्य हसितम्। मयूरस्य नृत्तम्। कोकिलस्य व्याहृतम्। शेषविज्ञानात् सिद्धम्। तथा च कर्तृविवक्षायां तृतीया ऽपि भवति, छाऽत्रेण हसितम् इति।
`राज्ञां मतः` इति। `मतिबुद्धि` 3|2|188 इत्यादिना क्तः। राज्ञामिति कत्र्तरि षष्ठी। कर्म तु निष्ठयाभिहितम्। अथेह कस्मान्न भवति-- शीलितो देवदत्तेन, रक्षितो देवदत्तेनेत्यादि, शीलितादिष्वपि `मतिबुद्धिपूजार्थेभ्यश्च` 3|2|188 इति चकारस्यानुक्तसमुच्चयार्थत्वनाद्वर्तमान एव क्तो विधीयते? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेरिह न भविष्यतीत्यदोषः। अथ वा-- प्रकरणादेवात्र वत्र्तमानकालता गम्यते। पदार्थस्तु भूतत्वमेव प्रतिपादयति, न वत्र्तमानताम्। यस्य तु पदार्थो वत्र्तमानस्तत्प्रयोगे भवत्येव षष्ठी, यथा-- `कान्तो हरिश्चन्द्र इव प्रजानाम्` इति।`शेषविज्ञानात् सिद्धम्` इति। उपसंख्यानं प्त्याचष्टे-- `तथा च` इत्यादिना। यस्तूपसंख्यानमारभते, तस्य कर्त्तृत्वाविवक्षायामपि षष्ठएव भवति, न तृतीयेति दर्शयति॥
क्तस्य च वर्तमाने॥ राज्ञां मत इति। ठ्मतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तः। शेषविज्ञानादिति। उपसंख्यानं प्रत्याचष्टे, सदप्यत्र छात्रस्य कर्तृत्वमविवक्षायां तिरोधीयते, संबन्धित्वमात्रमेव तु विवक्षिष्यते, ततश्च न माषाणामश्नीयदितिवत्सिद्धा षष्ठीत्यर्थः। तथा चेति। उपसंख्याने त्वेतन्न सिद्ध्यतीति भावः॥
सिद्धान्तकौमुदी
वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक (कौमुदी-627) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥
क्तस्य च वर्तमाने - क्तस्य च वर्तमाने । ननुकर्तृकर्मणोः कृती॑त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्चमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः ।पूजितो यः सुरासुरैः॑ "त्वया ज्ञातो घटः" इत्यत्र तु भूते क्तप्रत्ययो बोध्यः ।
क्तस्य च वर्तमाने - अधिकरण । अयमपि निषेधापवादः । आसितमिति । आस्यते अस्मिन्नित्यासितं,क्तोऽधिकरणे च — -॑ इत्यधिकरणे क्तः । इदमेषामिति । कर्तरि षष्ठीयम् । सकर्मकेभ्यस्त्वधिकरणे क्ते कृते कर्तृकर्मणोद्र्वयोरपि षष्ठी, अनभिहितत्वाऽविशेषात् । इदमेषां भुक्तमोदनस्य ।उभयप्राप्तौ कर्मणि॑ इत्ययं नियमस्तु नेह प्रवर्तते,कर्तृकर्मणोः कृति॑इत्यनन्तरस्या एव षष्ठआस्तन्निमाभ्युपगमात् । एतच्च कौस्तुभे स्पष्टम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्तस्य च वर्तमाने 525 (332 करकषष्ठीसूत्रम् ।। 2।3।3 आ.10) (विशेषविवक्षाधिकरणम्) (1542 शेषपूरकवार्तिकम् ।। 1) - क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानम् - (भाष्यम्) क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानं कर्तव्यम्। छात्रस्य हसितम्, नटस्य भुक्तम्, मयूरस्य नृत्तम्, कोकिलस्य व्याहृतमिति।। (तृतीयाक्षेपभाष्यम्) (तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्।।) (1543 अन्यथासिद्धिवार्तिकम् ।। 2) - शेषेविज्ञानात्सिद्धम् - (भाष्यम्) शेषलक्षणात्र षष्ठी भविष्यति। शेष इत्युच्यते। कः शेषः?। कर्मादीनामविवक्षा शेषः।। कथं पुनः सतो नामाविवक्षा स्यात्, यदा छात्रो हसति, नटो भुङ्क्ते, मयूरो नृत्यति, कोकिलो व्याहरति?।। सतोप्यविवक्षा भवति। तद्यथा ‐ अलोमिका एडका अनुदरा कन्येति। असतश्च विवक्षा ‐ समुद्रः कुण्डिका विन्ध्यो वर्धितकमिति।। (आक्षेपभाष्यम्) यद्येवम्, उत्तरत्र चातुःशब्द्यं प्राप्नोति ‐ इदमहेः सृप्तम्, इहाहिना सृप्तम्, इहाहिः सृप्तः, इहाहेः सृप्तम् ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति। (इष्टापत्तिभाष्यम्) इष्यत एव चातुःशब्द्यम्।। क्तस्य च ।। 67 ।।