Page loading... Please wait.
2|3|64 - कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
॥ तस्मै पाणिनये नमः ॥
2|3|64
SK 622
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे   🔊
सूत्रच्छेदः
कृत्वोऽर्थ-प्रयोगे (सप्तम्येकवचनम्) , काले (सप्तम्येकवचनम्) , अधिकरणे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि बहुलम् इति निवृत्तम्। कृत्वो ऽर्थानां प्रयोगे काले ऽधिकरणे षष्ठी विभक्तिर् भवति। पञ्चकृत्वो ऽह्नो भुङ्क्ते। द्विरह्नो ऽधीते। कृत्वो ऽर्थग्रहणं किम्? आह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस् त्रश्चतुर् वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणम् किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरणे इति किम्? द्विरह्नो भुङ्क्ते। शेषे इत्येव, द्विरहन्यधीते।
`पञ्चकृत्वः` इति। `संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्` 5|4|17 ` द्विरह्नः` इति। `द्व्त्रिचतुर्थ्यः सुच्` 5|4|18 ।`गम्यते हि द्विस्त्रिश्चतुर्वा` इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति? एवं तह्र्रेतज्ज्ञापयति-- प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन `वृद्धो यूना` 1|2|65 इति ` सहयुक्तेऽप्रधाने` 2|3|19 इति सहार्थे गम्यमाने तृतीया भवतीति॥
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति। ठ्संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्ऽ द्विरिति। ठ्द्वित्रिचतुर्भ्यः सुच्ऽ अर्थग्रहणमेतदर्थम्॥
सिद्धान्तकौमुदी
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोर्थ । कृत्वसुचोऽर्थ इवार्थो येषांप्रत्ययानां ते कृत्वोर्थाः । शेषे इति । इहदिवस्तदर्थस्य॑इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते, व्याख्यानात् । पञ्चकृत्व इति ।सङ्ख्यायाः क्रिया — -॑ इत्यादिना कृत्वसुच् । द्विरिति ।द्वित्रिचतुभ्र्यः सुच् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.