Page loading... Please wait.
2|3|62 - चतुर्थ्यर्थे बहुलं छन्दसि
॥ तस्मै पाणिनये नमः ॥
2|3|62
SK 3396
चतुर्थ्यर्थे बहुलं छन्दसि   🔊
सूत्रच्छेदः
चतुर्थी-अर्थे (सप्तम्येकवचनम्) , बहुलम् (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि विषये चतुर्थ्यर्थे षष्थी विभक्तिर् भवति बहुलम्। पुरुषमृगश्चन्द्रमसः। पुरुषमृगश्चन्द्रमसे। गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्। ते वनस्पतिभ्यः। बहुलग्रहणं किम्? कृष्णो रात्र्यै। हिमवते हस्ती। षष्ठ्यर्थे चतुर्थी वक्तव्या। या खर्वेण पिवति तस्यै खर्वो जायते। या दतो धावते तस्यै श्यावदन्। या नखानि निकृन्तते तस्यै कुनखी। या ऽङ्क्ते तस्यै काणः। या ऽभ्यङ्क्ते तस्यै दुश्चर्मा। या केशान् प्रलिखते तस्यै खलतिः। अहल्यायै जारः।
`बहुलग्रहणं किम्` इति। विभाषाग्रहणानुवृत्तेरेव सिध्यतीति मन्यमानस्य प्रश्नः। `कृष्णो रात्र्यै, हिमवतो हस्ती` इति। अत्र बहुलग्रहणात् सप्तम्यर्थेऽपि चतुर्थी भवति। `वक्तव्या` इति। व्याख्यातव्येत्यर्थः। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिह क्रियते। तेन क्वचित् षष्ठर्थेऽपि चतुर्थी भवति। क्वचिदन्यदेवेत्येषोऽपि बहुलगर्हणस्यार्थोऽभिमत एव॥
चतुर्थ्यर्थे बहुलं च्छन्दसि॥ या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। ततर्हि वक्तव्यम्---षष्ठ।ल्र्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्तते---अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते॥
सिद्धान्तकौमुदी
षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ॥ ।षष्ठ्यर्थे चतुर्थीति वाच्यम् (वार्तिकम्) ॥ या खर्वेण पिबति तस्यै खर्वः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
चतुर्थ्यर्थे बहुलं छन्दसि 520 (329 षष्ठीसूत्रम् ।। 2।3।3 आ. 7 सू.) (1535 वार्तिकम् ।। 1) - षष्ठ्यर्थे चतुर्थी - (भाष्यम्) षष्ठ्यर्थे चतुर्थी वक्तव्या। या खर्वेण पिबति तस्यै खर्वो जायते यां मलवद्वाससं संभवन्ति यस्ततो जायते सोभिशस्तो, यामरण्ये तस्यै स्तेनो, यां पराचीं तस्यै ह्रीतमुख्यपगल्भो, या स्नाति तस्या अप्सु मारुको, याभ्यङ्क्ते तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याङ्क्ते तस्यै काणो, या दतो धावते तस्यै श्यावदन्, या नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबो, या रज्जुं सृजति तस्या उद्बन्धुको, या पर्णेन पिबति तस्या उन्मादुको जायते, अहल्यायै जार मनाय्यै तन्तुः।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?।। (समाधानभाष्यम्) न वक्तव्यम्।। (1536 वार्तिकम् 2) - योगविभागात्सिद्धम् - (भाष्यम्) चतुर्थी। ततः अर्थे बहुलं छन्दसि।। चतुर्थ्य ।। 62 ।