Page loading... Please wait.
2|3|60 - द्वितीया ब्राह्मणे
॥ तस्मै पाणिनये नमः ॥
2|3|60
SK 3395
द्वितीया ब्राह्मणे   🔊
सूत्रच्छेदः
द्वितीया (प्रथमैकवचनम्) , ब्राह्मणे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ब्राह्मणविषये प्रयोगे दिवस् तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर् भवति। गामस्य तदहः सभायां, दीव्येयुः। अनुपसर्गस्य षष्ठ्यां प्राप्तायाम् इदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाशाया ऽपि सिध्यति।
`ब्राआहृणे; इति। ब्राआहृणशब्दः शथपथस्याख्या। `ग्रामस्य` इति। शेषषष्ठी। सभायामित्येतदपेक्षया। `तदहः` इति। एतदुहारणम्। `स्वमोर्नपुंसकात्` 7|1|23 इत्यमो लुक्। `अहन्` 8|2|68 इत्यनुवत्र्तमाने `रोऽसुपि` 8|2|69 इति नकारस्य रेफः, विसर्जनीयः। `दीव्येयुः` इति। लिङ, झेर्जुस्, `अतो येयः` 7|2|80 इतीयादेशः, `लिङ सलोपोऽनन्त्तयस्य` 7|2|79 इति सलोपः। सोपसर्गस्य विभाषया षष्ठआं प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह-- `सोपसर्गस्य` इति। `विभाषोपसर्गे` 2|3|59 इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते॥
द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्, ठ्स्वमोर्नपुंसकात्ऽ इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति। ठ्दिवस्तदर्थस्यऽ इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह--सोपसर्गस्येत्यादि॥
सिद्धान्तकौमुदी
ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्वितीया ब्राह्मणे 518 (327 द्वितीयासूत्रम् ।। 2।3।3 आ.5) (आक्षेपभाष्यम्) किमुदाहरणम्?।। (समाधानभाष्यम्) गां निघ्नन्ति। गां प्रदीव्यन्ति। गां सभासद्भ्य उपरहन्ति।। (समाधानबाधकभाष्यम्) नैतदस्ति। पूर्वेणाप्येतत्सिद्धम्।। (समाधानभाष्यम्) इदं तर्हि ‐ गामस्य तदहः सभायां दीव्येयुः।। द्वितीया ।। 60 ।।