॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|56
SK 617
2|3|56
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌   🔊
SK 617
सूत्रच्छेद:
जासि-निप्रहण-नाट-क्राथ-पिषाम् - षष्ठीबहुवचनम् , हिंसायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर् भवति। जसु हिंसायाम्, जसु ताडने इति च चुरादौ पठ्यते, तस्य इदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य। चौरस्य उज्जासयति। वृषलस्य उज्जासयति। निप्रहण इति सग्घातविगृहीतविपर्यस्तस्य ग्रहणम्। चौरस्य निप्रहति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्य उन्नाटयति। वृषलस्य उन्नाटयति। चौरस्य उत्क्राथायति। वृषलस्य क्राथयति। निपातनाद् वृद्धिः। अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंसार्थाः इति। तत्र घटादयो मितः इति मित्संज्ञायां मितां ह्रस्वः 6|4|92 इति ह्रस्वत्वं स्यात्। चौरस्य पितष्टि। वृषलस्य पिनष्टि। हिंसायाम् इति किम्? धानाः पिनष्टि। शेषे इत्येव, चौरम् उज्जासयति। एशाम् इति किम्? चौरं हिनस्ति। निप्रहण इति किम्? चौरं विहन्ति।
`न दैवादिकस्य` इति। हिंसायामिति वचनात्। अस्य च तत्राप्रवृत्तेः। अत एव हि ण्यन्तस्यैव ग्रहणं भविष्यति, तत्किमर्थो ण्यन्तस्य निर्देश इति? कः पुनराह च्यन्तस्य निर्देश इति? अत्र हीकारोऽयं धातुनिर्देशार्थः कृतः, `इक्श्तिपौ धातुनिर्देशे` (वा।319) इति। यद्येवम्, जासीत्याकारः कथं श्रूयते? उच्यते-- आकारमुच्चार्य विकृतनिर्देशः कृतः, विकृतनिर्देशस्तू यत्रास्यैतद्रूपं भवति तत्रैव यथा स्यादिह मा भूत्,-- दस्युमजीजसदिति। लुङ, `णिश्रि` 3|1|48 इत्यादिना च्लेश्चङ, `णौ चङयुपधाया ह्यस्वः` 7|4|1 , `चङि` 6|1|11 इति द्विर्वचनम्, `सन्वल्लघुनि` 7|4|93 इत्यादिना सन्वद्भावः, `सन्यतः` 7|4|79 इतीत्वम्, `दीर्घो लघोः` 7|4|93 इति दीर्घः। नाटक्राथयोरपि वकृतानिर्देशस्यैतदेव प्रयोजनम्। इह मा भूत-- दस्युमनीनटदिति, दस्युमचिक्रथदिति। क्रथेर्वृद्धिश्च प्रयोजनम्, एतच्च `निपातनाद्वृद्धिः` इति ब्राउवता वृत्तिकारेण दर्शितम्। `{निप्रहन्ति`इति वृत्तौ पाठः} निप्रहन्` इति। धातूपसर्गानिर्देशमात्रमिह तन्त्रम्। न तूपसर्गसयोः संघातः, नाष्यानुपूर्वी; तयोरविवक्षितत्वात्। तेन निप्रशब्दयोव्र्यस्तसमस्तयोर्विपरीतानुपूर्वीकयोश्च ग्रहणं विज्ञायत इत्याह-- `संघातविगृहीतविपर्यस्तस्य ग्रहणम्` इति। `चौरस्य प्रणिहन्ति` इति। नेर्गदनद` 8|4|17 इत्यादिना णत्वम्। `चौरस्योन्नाटयति` इति। `नट अवस्पन्दने` (धातुपाठः- 7|2|116 इति वृद्धि सिद्धा; तत्किमर्थमुच्यते-- निपातनाद्वृद्धिरिति? अत आह-- `अयं हि` इत्यादि। `ह्यस्वस्य स्यात्` इति। `मितां ह्यस्वः` 6|4|92 इत्यनेन। `चौरस्य पिनष्टि` इति। ` पिष्लृ सञ्चूर्णने` (धातुपाठः-1452) रुधादित्वात् श्नम्। `धानाः पिनष्टि` इति। अत्र हिंसा नास्ति; तस्या प्राणिधर्मत्वात्। इदञ्चाभावकर्त्तृकाणामपि यथा स्यादित्येवमर्थमारब्धम् चौरस्योजासयति देवदत्तः॥
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ न दैवादिकस्येति। ठ्जासिऽ इति निर्देशाद् ठ्हिसायाम्ऽ इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः, ठ्हन्तेरत्पूर्वस्यऽ इति णत्वम्। प्रणिहन्तीति। ठ्नेर्गदऽ इत्यादिना णत्वम्। ठ्नट अवस्यन्दनेऽ चुरादिः, ठ्नट नृतौऽ इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु ठ्घटादयः षितःऽ इत्यातिदेशिकोऽङ्यथा स्यात्, ठ्चिण्णमुलोर्दीर्घोऽन्यतरस्याम्ऽ इति दीर्घश्च यथा स्यादित्येवमर्थः॥
सिद्धान्तकौमुदी
हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् - जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह — हिंसार्थानामित्यादिना । इदमपि समासाऽभावार्थमेव । चौरस्योज्जासनमिति । "जसु ताडने" "जसु हिसायाम्" इति चुरादौ । वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः । "जसु मोक्षणे" इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च । निप्राविति । निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः । तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः । समस्तावुदाहरति — चौरस्य निप्रहणनमिति । वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः ।हन्तेरत्पूर्वस्ये॑ति णत्वम् । विपर्यस्तावुदाहरति — प्रणिहननमिति ।नेर्गदे॑ति णत्वम् । हन्तेर्नकारस्य तु न णत्वम्, "अट्कुप्वाङ्" इति नियमात्, नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति — निहननं प्रहणमनं वेति । निमित्ताऽभावान्निहननमित्यत्र "बन्तेरत्पूर्वस्य" इति णत्वं न । चुरादिरिति । "नट नृत्तौ" इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः । चौरस्योन्नाटनमिति । उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । "क्रथ हिंसायाम्" इति घटादौ । "घटादयो मितः" इति तस्य मित्त्वेऽपि "मितां ह्यस्वः" इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिसेत्यर्थः । व्यपह्मपणोः । शेषपूरणेन सूत्रं व्याचष्टे — शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननुपण व्यवहारे स्तुतौ चे॑ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह — द्यते इति । द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः ।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् - जासि ।जसु ताडने,॑जसु हिंसायाम् इति च चुरादिस्तस्येदं ग्रहणं न तु दैवादिकस्यजसु मोक्षणे॑ इत्यस्य, जासीति निर्देशात्,हिंसायाम् इति वचनाच्च । निप्रहणनमिति ।हन्तेरत्पूर्वस्य॑इति णत्वम् । प्रणीति ।नेर्गद — ॑इति णत्वम् । चुरादिरिति ।नट नृत्तौ॑ इति तु गृह्रते, दीर्घनिर्देशादिति भावः । क्राथनमिति ।क्रथ हिंसायाम्इति घटादौ पठते, तस्य मित्त्वेऽपि इह निपातनाद्वृद्धिः । मित्त्वफलं तु निपातनात्परत्वात्चिण्णमुलोः॑ इति दीर्घे चरितार्थमिति घटादौ वक्ष्यति । यत्तु हरदत्तेनोक्तम् — -॒॒घटादिपाठोघटादयः षितः॑इत्यातिदेशिकषित्त्वे अङ्यथा स्यादित्येतदर्थइति । तन्मन्दम् ।घटादयः षितः॑ इति हि मध्ये सूत्रितम् । तेन पूर्वेषां त्वरत्यन्तानामेव षित्त्वं, न तु ज्वरा दीनां परेषामिति । अतएवत्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च॑ इति घटादौ वक्ष्यति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!