Page loading... Please wait.
2|3|48 - सामन्त्रितम्‌
॥ तस्मै पाणिनये नमः ॥
2|3|48
SK 411
सामन्त्रितम्‌   🔊
सूत्रच्छेदः
सा (प्रथमैकवचनम्) , आमन्त्रितम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सम्बोधने या प्रथमा तदन्तं शब्दरूपम् आमन्त्रितसंज्ञं भवति। तथा च एव उदाहृतम्। आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वम् अविद्यमानवत् 8|1|72 इत्येवम् आदयः।
`तदन्तं शब्दरूपम्` इति। ननु च `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इति ज्ञापितमेतत् `सुप्तिङन्तं पदम्` 1|4|14 इत्यत्रान्तग्रहणेन। इह च संज्ञाविधौ प्रत्ययग्रहणम्, तत् कथं तदन्तस्य संज्ञा विधीयते? नैतदस्ति; यद्यपि संज्ञाविधौ प्रत्ययग्रहणमिह, तथाऽपि तदन्तस्यैवेयं संज्ञा विधीयते। यदीह प्रत्ययमात्रस्य संज्ञाग्रहणं स्यात् तदा प्रदेशेषु तस्यैव ग्रहणं स्यात्, तथा च संज्ञाकरणमनर्थकं स्यात्। प्रदेशेषु सम्बोधन इत्येवं ब्राऊयात्। एवमपि प्रत्ययमात्रस्य ग्रहणं लभ्यत एव। तस्यैव सम्बोधने विहितत्वात्। तस्मात् संज्ञाकरणादेव तदन्तस्य संज्ञा लभ्यते। सेति वचनं पूर्वसूत्रेणापि सम्बोधने या विहिता तस्या अपीयं संज्ञा यथा स्यात्-- हे पचन्, हे पचमानेत्यत्र। असति त्वस्मिन् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति पूर्वसूत्रेणैव या विहिता तस्या एव स्यात्; सेत्येतदुच्यमानं सर्वनामपदं सामान्येन प्रवत्र्तत इति कृत्वा। अतः सम्बोधनमात्रे या प्रथमा तां प्रतिपादयति, तेन सर्वत्र संज्ञा सिद्धा भवति। आमन्त्रितसंज्ञायां सत्यां हे देवदत्त इत्यादौ `आमन्त्रितस्य` 6|1|192 इत्याद्युदात्तत्वं भवति। `आमन्त्रितम्` इति महत्याः संज्ञायाः करणं वैचित्र्यार्थम्॥
सामन्त्रितम्॥ तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--आमन्त्रणमामन्त्रितमिति। अभेदोपचारातत्साधने शब्दे वर्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु ठामन्त्रितस्य चऽ इत्याद्यौदातत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात्---हे पचन्! हे पचमान!;असति तु तस्मिन् ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इत्यनन्तरसूत्रविहिताया एव स्यात्॥
सिद्धान्तकौमुदी
संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥
साऽ‌ऽमन्त्रितम् - सामन्त्रितं । प्रातिपदिकार्तसूत्रोपात्ता प्रथमा "सा" इत्यनेन परामृश्यते ।संबोधने चे॑त्यतः "संबोधने" इत्यनुवर्तते । तदाह-संबोधने इत्यादिना ।तदन्त॑मिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा ।
साऽ‌ऽमन्त्रितम् - सामन्त्रितम् ।सम्बोधने चे॑त्यतःसम्बोधने॑इत्यनुवर्तते ।से॑त्यनेन प्रथमा निर्दिश्यते । महासंज्ञाकरणसामथ्र्यात्संज्ञाविधावपरि तदन्तग्रहणम् । आमन्त्रणमामन्त्रितम् । उपचारात्तत्साधने वृत्तिः । विभक्त्यन्तेन चामन्त्र्यते न केवलया विभक्त्येत्याशयेनाह — -तदन्तमिकि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.