॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|46
SK 532
2|3|46
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा   🔊
SK 532
सूत्रच्छेद:
प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचनमात्रे - सप्तम्येकवचनम् , प्रथमा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
प्रातिपदिकार्थः सत्ता। लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि। परिमणं द्रोणः, खारी, आढकम्। वचनम् एकत्वद्वित्वबहुत्वानि। मात्रशब्दः प्रत्येकम् अभिसम्बध्यते। प्रातिपदिकार्थमात्रे, लिङ्गमात्रे, प्रिमाणमात्रे, वचनमात्रे प्रथमा विभक्तिर् भवति। प्रातिपदिकार्थमात्रे उच्चैः। नीचैः। लिङ्गग्रहणं किम्? कुमारी, वृक्षः, कुण्डम् इत्यत्र अपि यथा स्यत्। परिमाणग्रहणं किम्? द्रोणः, खारी, आढकम् इत्यत्र अपि यथा स्यात्। वचनग्रहनं किम्? एकत्वाऽदिषु उक्तेष्वपि यथा स्यात्। एकः, द्वौ, बहवः। प्रातिपदिकग्रहनं किम्? निपातस्य अनर्थकस्य प्रातिपदिकत्वम् उक्तं, ततो ऽपि यथा स्यात्। प्रलम्बते। अध्यागच्छति।
`प्रातिपदिकार्थः सत्ता`इति। यदि जातिस्तदा देवदत्तादौ न स्यात्। अथ सतो भावः सत्ता, तदाकाशकुसुमादौ न स्यादित्याह-- प्रादिपदिकार्थः सत्तेति। यत्रार्थान्तरनिरपेक्षा शब्दस्य प्रवृत्तिः स सर्वः प्रातिपदिकार्थः। सत्ताग्रहणन्तूपलक्षणार्थम्। उच्चैर्नीचैः` इति। अत्रोच्चैः शब्दस्य स्वार्थे जात्याद्यर्थान्तनिरपेक्षः वृत्तिः। अत्र च प्रथमायाः प्रयोजनम्-- `सपूर्वायाः प्रथमाया विभाषा` 8|1|26 इति विकल्पेन तेमयादिविधिर्यथा स्यात्-- ग्राम उच्चैस्ते स्वम्, ग्राम उच्चैस्तव स्वमिति। पदसंज्ञा तु षष्ठआऽपि स्यादेव। `कुमारी, वृक्षः, कुण्डम्` इति। ननु चात्रापि प्रातिपदिकार्थ इत्येवंसिद्धा प्रथमा; लिङ्गमपि प्रातिपदिकार्थ एव भवति। तथा च वक्ष्यत `स्त्रियाम्` 4|1|3 इत्यत्र `सिद्धास्तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः` (वा।4।13) इति? नैतदस्ति; इदमपि हि तत्र वक्ष्यति-- `अथ वा पुनरिदमस्तु। स्त्रियामभिधेयायाम्` (म।भा।4.1.3) इति। किञ्च-- स्त्रीतवं प्रत्येषा गतिः स्यात्, पुंनपुंसके तु नियोगतो विभक्तिवाच्ये एव। तथा हि-- विना विभक्त्या तटशब्दाः प्रत्युज्यमानः किं पुंस्त्वमाचष्टे? उत नपुंसकत्वम्? इति सन्देहः स्यात्। तत्र यथा राज्ञः पुरुषः इत्यत्र प्रातिपदिकार्थेनानुपात्ते स्वस्वामिकसम्बन्धे तस्य चाभिधाने विभक्त्यपक्षया षष्ठी भवति, तथा पुंनपुंसकयोरपि षष्ठी स्यात्। तस्माल्लिङ्गग्रहणं कत्र्तव्यम्।`द्रोणः, खारी, आढकम्` इति। ननु चात्रापि प्रातिपदिकार्थत्वादेव सिध्यति प्रथमा, तथा हि -- द्रोणादयः शब्दाः परिमाणे लौहे दारुमये वा अर्थान्तरनिपेक्षा एव वत्र्तन्ते? सत्यम्; सिध्यति तदा यदा परिमाण एव वत्र्तन्ते, यदा तु पुनः परिमेये वर्तन्ते तदा न सिध्यति। तथा हि-- द्रोणादयः शब्दा द्रोणादिकं परिमाणमर्थान्तरं प्रवृत्तिनिमित्तमुपादाय व्रीह्रादौ परिमेयं वत्र्तन्ते। कथं पुनस्ते तत्र वत्र्तन्ते? सोऽयमित्यबेदसम्बन्धात्- द्रोणपरिमितो व्रीहिद्र्रोण इति। यद्येवम्, निमित्तरूपेण निमित्तनोऽभिधानादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रातिपदिकार्थ इत्येव सिद्धा प्रथमा? न सिध्यति, न हि मुख्ये सति गौणस्याश्रयणं युक्तम्। नन्वेवमपि लिङ्गग्रहणादेवात्र प्रथमा भविष्यति, तत्क परिमाणग्रहणेन? नैतदस्ति; तस्य हि यत्र परिमाणं नास्ति सोऽवकाश इति। अत्र परिमाणाधिक्ये षष्ठएव स्यात्। तस्मात् परिमाणग्रहणं कत्र्तव्यम्।परिमाणग्रहणञ्च यत्र निमित्तादर्थान्तरे सोऽयमित्यभेदसम्बन्धाच्छब्दः प्रवत्र्तते, तदुपलक्षणार्थ वेदितव्यम्। तेन परिमाणवदर्थान्तरभूतेष्वप्युन्मानादिषु प्रथमा भवति। घृतम्, पलम्, दीर्घ काष्ठम्, शुक्लः पटः, हस्तो मुष्टिर्वितस्तिरित्येवमादि सिद्धं भवति। कुत एतत्? मात्रशब्दात्। स ह्रत्र व्याप्तिवचनो गृह्रते, यथा-- कन्यामात्रं वरयति, ब्राआहृणमात्रं भोजयतीति। तेन परिमाणग्रहणस्यैवोपलक्षणार्थता विज्ञायते यदि तु यथा `पयोमात्रं भुङ्क्ते` इत्यत्र मात्रशब्दो नियमार्थः, तथेहापि नियमार्थ एव स्यात्; ततश्चोन्मानादिषु प्रथमा न स्यात्; तस्य परिमाणादन्यत्वात्-- उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति।वचनग्रहणे त्वसत्युक्तेष्वेकत्वादिषु प्रथमा न स्यात्। `अनभिहिते` 2|3|1 इत्यधिकारात्। ननु च परिगणनं तत्र कृतम्, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति; प्रत्याख्यातं हि तत्र परिगणनम्। तथा हि--रूढः कर्म, भीष्मादयोऽपि कर्मणि, तत्र कर्माणि, तत्र कर्मणीत्येव द्वितीया सिद्धा। कटशब्दादुत्पद्यमाना द्वितीयया सामान्यकर्मोक्तम्, न विशेषकर्म। तत्रावश्यं विशेषो वक्तव्य इति भीष्मादिभ्योऽपि विशेषाभिधानार्थ द्वितीया भविष्यति। अथ वा-- कट एव कर्म, तत्सामानाधकरण्यात् भीष्मादिभ्योऽपि द्वितीया भविष्यति; नार्थः परिगणनेन। यत्पुनरिदं `तिङकृत्तद्धितसमासैः परिसंख्यानम्` 2|3|1 इति वृत्तावुपन्यसत्म्, तदेभिरेवाभिधानं सम्भवतीति सम्भवप्रदर्शनार्थपरं वेदितव्यम्। यद्यप्येकादिभिरपि संख्याशब्दैरेक्तवादीनामभिधानं सम्भवति, तथाऽप्यभिहितेऽपि तैरेत्कत्वादावर्थे वचनग्रहणात् यत्नात् विभक्त्येति। तैरप्यभिधानस्य सम्भवप्रदर्शनार्थ यत्नः कृतः।`निपातरस्यानर्थकस्य` इत्यादि। अथार्थविशेषणार्थ प्रातिपदिकग्रहणं कस्मान्न विज्ञायते? असति हि तस्मिन् न ज्ञायते-- कस्यार्थ इति, तथा चार्थमात्रे प्रथमा स्यात्? नैतदस्ति;प्रातिपदिकाद्धि प्रथमा विधीयते। तत्रासति प्रातिपदिकग्रहणे प्रातिपदिकार्थ एव भवतीति विज्ञायते। तस्याद्वृत्तिकारोक्तमेव प्रातिपदिकग्रहणस्य प्रयोजनं न्याय्यम्॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ प्रातिपदिकाथः सतेति। अत्र जिघृक्षितस्येदं लक्षणम्, न प्रातिपदिकार्थमात्रस्य; गौः, शुक्लः, पाचकः, डित्थ इत्यादावसम्भवात्। योऽर्थः सन्नेव केवलं न जात्यादिरूपो न लिङ्गसंख्याकारकशक्तियोगी, स इह प्रातिपदिकार्थत्वेन विवक्षितः, यथा---अव्ययार्थ इत्यर्थः। अव्ययार्थो हि केवलमस्तीति शक्यते वक्तुम्, न पुनरीद्दशस्ताद्दश इति। गौः शुक्ल इत्यादौ तु सत्वरूपेऽर्थे लिङ्गग्रहणादेव सिद्ध्यतीति भावः। अन्ये त्वाहुः----अन्वयव्यतिरेकाभ्यां यस्य योऽर्थः प्रतीतो यमर्थं प्रातिपदिकं न व्यभिचरति येन विना प्रातिपदिकस्याप्रयोगः, स सर्वः प्रातिपदिकार्थः। सताग्रहणं तूपलक्षणम्, तेन सता गोत्वं शोक्ल्यं शुक्लो गुणः पाचको डित्थो गौः शुक्ल इत्यादिकमप्युदाहरणमिति। नन्वत्र सर्वत्र लिङ्गग्रहणादेव सिद्धम्, न; मात्रग्रहणं क्रियते, तच्चावधारणार्थम्, पयोमात्रं व्रतयतीतिवत्। ततश्च स्त्री पुमान्नपुंसकमित्यादावेव तु स्याद्---यत्र लिङ्गमेवार्थः, सतेत्यादौ तु जात्याद्यविकार्थसद्भावान्न स्यात्। अथ कन्यामात्रं वरयतीतिवन्मात्रशब्दस्य व्याप्तिवचनत्वाल्लिङ्गमात्रे प्रथमा लिङ्गमस्तीत्येव प्रथमा भवतीति व्याख्यानादधिकार्थसद्भावेऽपि प्रथमा भवतीति? उच्यते---हन्तैवं वृक्षं पश्येत्यादौ कर्मादिसद्भावेऽपि चलिङ्गमस्तीत्येव प्रथमा स्यात्; कर्मण्येव द्वितीयेत्यस्मिन्प्रत्ययनियमपक्षे कर्मादीनां द्वितीयादिष्वनियतत्वात्! वचनमेकत्वादीति। पूर्वाचार्यप्रसिद्धेरिति भावः। उच्चैरिति। अत्र प्रथमायां सत्यां ग्राम उच्चैस्तव स्वमित्यादौ ठ्सपूर्वायाः प्रथमाया विभाषाऽ इति तेमयादिविकल्पो भवति, पदत्वं तु षठ।लपि सिद्धम्, यस्मिन् ह्यर्थे द्वितीयादयो न विहिताः स शेषः। नन्वसङ्ख्यत्वादव्ययार्थस्य कथं षष्ठी स्यात्? एकत्वाद्यर्थनियमे षठयाः सङ्ख्यायामनियतत्वात्, प्रत्ययनियमेऽपि तुल्यजातीयापेक्षत्वान्नियमस्यैकत्वादिभिः परस्परमेव व्यावर्तनात्। विधिवाक्यपक्षे तु स्वादिसूत्रेण भिन्नवाक्यस्य ठ्बहुषु बहुवचनम्ऽ इत्यादेः सङ्ख्यासम्भवे विध्यर्थत्वात्। ननु ङ्याप्प्रातिपदिकात्स्वादयो विधास्यन्ते, तत्रार्थे प्रथमेत्युक्ते कस्यार्थ इत्यपेक्षायां यस्मात्स्वादिविधिस्तदर्थ इति विज्ञास्यते, नार्थः प्रातिपदिकग्रहणेन,तत्रायमप्यर्थः---लिङ्गग्रहणं न कर्तव्यं भवति कुमारी सीमेत्यादावप्यत एव सिद्धम्, प्रातिपदिकग्रहणे तु क्रियमाणे सीमादिशब्दानां स्त्रीयुक्तार्थाव्यभिचारेऽपि प्रत्ययान्तत्वेनाप्रातिपदिकत्वातदर्थे प्रथमासिद्ध्यर्थं लिङ्गग्रहणं कर्तव्यं स्यात्? उच्यतेप्रातिपदिकग्रहणं तावदर्थपदेनासम्बद्धमित्यत्रैव वक्ष्यते, लिङ्गहणमनेकलिङ्गार्थम्--तटः, तटम्, तटी; कुमारः, कुण्डम्, कुण्डः, कुण्डिका; अन्यथा येनार्थेन विना प्रकृतेरप्रयोगस्तदर्थमात्रे विधीयमाना प्रथमा नानालिङ्गेभ्यस्ततद्विशेषमन्तरेण प्रयुज्यमानेभ्यो न स्यात्। अथ मात्रग्रहणमकृत्वा व्याप्तिवचनं वाङ्गीकृत्याधिकार्थसद्भावेऽपि प्रकृत्यर्थस्यान्वय इति स्यात्? यद्येवम्, वृक्षं पश्येत्यादौ कर्माद्याधिक्येऽपि स्यात्प्रत्ययनियमपक्षे, तदिह वृतौ कुमारी, कुण्डमित्युदाहरणम्, वृक्षशब्दस्त्वर्थादुदाहृतः। ननु मा भून्मात्रग्रहणम्, मा च भूल्लिङ्गग्रहणम्, मा च कारि ठ्संबोधने चऽ इति सूत्रम्, सर्वत्रार्थ इत्येव प्रथमा भविष्यति; न चैवं कर्मादिष्वपि प्रसङ्गः, कर्मणि द्वितीयेवेत्येवमर्थनियमस्याश्रयणात्? एवमपि ठ्राज्ञः पुरुषःऽ इति षष्ठ।ल्र्थेऽपि स्यात्, शेषलक्षणा हि षष्ठी, उपयुक्तादन्यश्च शेषः, तत्र यदि प्रकृत्यर्थस्याधिक्येऽपि प्रथमा स्यात्। ततस्तस्यापि प्रथमाविधावुपयुक्तत्वात्षष्ठी न स्यात्। अथ वचनसामर्थ्यात्स्वस्वामिभावादौ षष्ठी भवन्ती लिङ्गाधिकोऽपि स्याद्। अतो मात्रग्रहणं तावत्कर्तव्यम्, तस्मिंश्च क्रियमाणे लिङ्गग्रहणम्, ठ्संबोधने चऽ इति सूत्रं च कर्तव्यम्; तदाधिक्येऽपि यथा स्यादिति। परिमाणग्रहणं किमिति। अर्थ इति वा लिङ्ग इति वा सिद्धिं मन्यते। द्रोणः, खारीति। अयं भावः----येनार्थेन विना प्रकृतेरप्रयोगस्तस्मिन्नर्थे प्रथमा। द्रोणादयश्च लौहं दारुमयं परिमाणमेवार्थ न व्यभिचरन्ति। यदा तु द्रोणादिपरिमिते व्रीह्यादौ वर्तन्ते तदा तस्य व्यभिचारित्वान्न स्यात्। न च लिङ्गग्रहणादपि सिद्धिः----तदाधिक्यमात्रे हि तेन स्यादिति, परिमाणग्रहणं चोन्मानादीनामुपलक्षणम्, तेन घृतं पलमित्यादावपि भवति। अथ लवणेन संसृष्टः, लवणः सूपः, लवणं शाकमित्यत्र कथं प्रथमा, लवणशब्दो हि लवणजातीयमेव द्रव्यं न व्यभिचरति, व्यभिचरति तु संसृष्टम्? उच्यते---साधारणशब्दोऽयम्, लवणजातीयस्य संसृष्टस्य चाक्षादिशब्दवत्। एवं च ठ्लवणाल्लुक्ऽ इति वचनाद्विज्ञायते। तत्र यथा दधिदादिकशब्दयोः प्रथमा भवत्येवमत्रापि भविष्यति। इह तर्हि कथं शुक्लः पट इति, शुक्लशब्दो गुणमेव न व्यभिचरति, व्यभिचरति तु तद्वन्तम्, पटस्य शुक्ल इति दर्शनात्? अत्रापि ठ्गुणवचनेभ्यो मतुपो लुग् वाच्यःऽ इति वचनात्साधारणशब्दतैव। इह तर्हि कथं गौर्वाहीक इति, गोशब्दो हि सास्नादिमन्तमेव न व्यभिचरति, व्यभिचरति तु वाहीकम्? अत्रापि वाहीके सास्नादिमद्रूपारोपाद्रोशब्दः प्रयुज्यते, तत्र यथा सास्नादिमद्वृतेर्भवत्येवं वाहीकवृतेरपि भविष्यति। यद्येवम्, द्रोणः खारीत्यादावप्येवमेव भविष्यति, लवणादिशब्दवत्साधारणशब्दाः स्युः गौर्वाहीक इत्यादिवद्रौणा वा, गङ्गायां घोष इतिवल्लाक्षणिका वा; नान्या गतिरस्ति, सर्वथा सिद्धा प्रथमा। किं च परिमेयवृत्तिभ्यो द्वितीयादयो यथा भवन्ति तथा प्रथमापि भवति। अथ प्रस्थेन परिमिता व्रीहय इत्येवं प्रातिपदिकार्थव्यतिरेकेऽपि यथा स्यादिति परिमाणग्रहणम्। यद्येवम्, प्रस्थेनेति तृतीया न स्यात्, शेषविवक्षायां च षष्ठी न स्यात्, प्रास्तिक इति तद्धितश्च न स्यात् तदेतत्परिमाणग्रहणं चिन्त्यप्रयोजनम्। उक्तेष्वपीति। अन्यथानभिहिताधिकारात् ठ्बहुषु बहुवचनम्ऽ इत्यादिनास्यैकवाक्यत्वातिङ्कृतद्धितसमासैरिति परिगणनस्य प्रत्याख्यातत्वादेकादिशब्दैरेकत्वादीनामभिहितत्वादुक्तार्थत्वाद् वा न स्यादिति भावः। एकः द्वो बहव इति। अथ कथमेकं कृतमित्यादौ द्वितीयादयो भवन्ति, न हि तत्र कश्चिद्यत्नोऽस्ति? उच्यते, तत्रार्थद्वयमस्ति---कर्मादयः, एकत्वादयश्च। तत्रैकत्वादीनामभिधानेऽपि कर्मादिप्रतिपादनाय द्वितीयादयो भविष्यन्ति; इह त्वनभिहितार्थान्तराभावान्न स्यात्। नन्वत्राप्येकादिभिः शब्दैरेकत्वादिविशिष्ट्ंअ द्रव्यमभिधीयते तत्रैकत्वादिगुणस्य निष्कृष्याभिधानाय प्रथमा भविष्यति, यथा गुणोपसर्जनद्रव्यवचनाच्छुक्लादिशब्दात्प्रवृत्तिनिमितभूतस्य गुणस्य निष्कृष्याभिधाने भावप्रत्ययः---पटस्य शौक्लमिति। तदेवं वचनग्रहणमपि शक्यमकर्तुम्। प्रातिपदिकग्रहणं किमिति। उक्तोऽत्र प्रष्टुअरभिप्रायः। निपातस्यानर्थकस्येति। अन्यथार्थाभावान्न स्यादिति भावः। प्रलम्बत इति। किं पुनरत्र प्रथमया प्रार्थ्यते? पदत्वम्; षष्ठ।लमप्येतत्सिद्धम्, तथा हि--कर्मादिषु द्वितीयादयो विहिताः प्रक-त्यर्थमात्रे प्रथमा, तत्र प्रकृत्यर्थाभावे स्वस्वामिभाबादिर्सबन्धसद्भावे चापयुक्तादन्यत्वात्सिद्धा षष्ठी। न च तस्या एकत्वादिषु नियमः; उक्तोतरत्वात्। तदेवमर्थलिङ्गमात्रे प्रथमेत्येतावदेवावश्यं कर्तव्यम्, मात्रग्रहणमपि न कर्तव्यम्। कर्माद्याधिक्ये कस्मान्न भवति? ज्ञापकात्, यदयम् ठ्संबोधने चऽ इत्याह। यदि ह्याधिक्येऽपि स्यातदनर्थर्क स्यात्। उतरार्थे हि ठ्संबोधने सामन्त्रितम्ऽ इत्येव वक्तव्यं किं योगविभागेन! इहावधारणार्थान्मात्रग्रहणात् ठ्संबोधने चऽ इति ज्ञापकाद्वाऽऽधिक्ये प्रथमया न भवितव्यम्, ततश्च ठ्वीरः पुरुषःऽ इत्यादौ पदसामानाधिकरण्ये विशेषणविशेष्यभावस्याधिकार्थस्य प्रतीतेः प्रथमा न प्राप्नोति, न; वाक्यार्थत्वात्। यदत्राधिक्यं स वाक्यार्थः, पूर्व स्वार्थमात्रनिष्ठाभ्यामुभाभ्यां प्रथमा विधीयते, पश्चात्वाकांक्षावशेनान्योन्यान्वये विशेषावगतिरुपजायमाना बहिरङ्गत्वात्प्रथमप्रवृतं संस्कारं न बाधत इत्यर्थः। अपर आह---अभिहिते प्रथमेति लक्षणं कर्तव्यम्, तिङदिभिरभिहिते कर्त्रादौ वृक्षस्तिष्ठति, कृतः कटः, शत्यः, प्राप्तोदको ग्राम इत्यादौ प्रथमा भवतीत्यर्थः, तत्र वीरः पुरुषः इत्यादावाधिक्येऽप्यभिहितत्वात्सिद्धा प्रथमेति। अत्र को दोषः? यत्र क्रिया नास्ति तत्र न स्यात्---वृक्षः, प्लक्षः। तत्रापि क्रियाऽस्ति, कथम्? वृक्षः प्लक्षः, अस्तीति गम्यते। इह तर्हि प्रासाद आस्त इति सदिक्रयायाः, आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यम्, तच्च सदिप्रत्ययेन घञाभिहितं प्रसीदत्यस्मिन्प्रासाद इति आसिप्रत्ययेन तिङनभिहितम्, तत्र सदिप्रत्ययेन यदभिधार्न तदाश्रया प्रथमा प्राप्नोति। यत्र च विशेषणसंबन्धे तात्पर्यम्---नीलमुत्पलं न रक्तमिति, तत्रापि न स्यात्; क्रियाया अभावात्। अन्यस्त्वाह---तिङ्समानाधिकरणे प्रथमेति लक्षणं तिङ्न्तेन यत्समानाभिधेयं देवदतः पचतीति, तत्र प्रथमा; प्रासाद आस्त इत्यत्र तु वैयधिकरण्यातदभावः, वीरः पुरुष इत्यादौ चाधिक्येऽपि तिङसामानाधिकरण्यं प्रति योग्यत्वाद्भवतीति। अत्र को दोषः? देवदतः पचतीति देवदतः पच् लट् इति स्थिते यावतिङमुत्पत्तिर्नास्ति तावतिङसामानाधिकरण्याभावात्प्रथमैवेति नियमस्याप्रवृतौ देवदतशब्दादविशेषेण विहिताः स्वादयः स्थिता इति शतृशानचोर्निमितस्याप्रथमासामानाधिकरण्यस्य विद्यमानत्वातावेव स्याताम्, तिङं त्वाभावः स्यात्। न च तिङ्विधेरानर्थक्यम्; तिडादिषु सावकाशत्वात्। प्रथमैवेति। नियमस्यापि स एव विषयः स्यादिति दोष। पक्षे चायं दोषः, कतरस्मिन् पक्षे? ठ्लटः शतृशानचौऽ इत्यत्र द्वौ पक्षौ--अप्रथमेति पर्युदासः, प्रसज्यप्रतिषेधो वेति। तथा ठ्कर्मणि द्वितीयाऽ इत्यादावपि प्रकरणे द्वैतं भवति--विभक्ति नियमः स्यात्, अर्थनियमो वेति; तद्यदार्थनियमः पर्युदासश्चाश्रीयते तदाऽयं दोषः। कथम्? अर्मणि द्वितीयेवेत्यस्मिन् नियमे द्वितीयादीनामनियतत्वात् प्रातिपदिकार्थमात्रेऽपि भावातदाश्रयौ शतृशानचौ प्राप्नुतः, प्रसज्यप्रतिषेधे तु प्रथमाया अपि तत्र भावातदाश्रयः प्रतिषेधः प्रतिषेधः प्रवर्तत इति न दोषः; शतृशानचोरभावातिङ्क्षु सत्सु तत्सामानाधिकरण्यात्प्रथमैवेति नियमेन द्वितीयादीनां व्यावर्तितत्वात्। यदा तु द्वितीयादीनां कर्मादिषु नियमः---कर्मण्येव द्वितीयेति, तदा तदभावे तासामभावादनियतायाश्च प्रथमायाः सन्निधानात्पर्युदासे प्रसज्यप्रतिषेधे च नास्ति शतृशानचोः प्रसङ्गः; तदभावे च तिड्भु सत्सु तत्सामानाधिकरण्यातत्रैव प्रथमा भवतीति नियमेन कर्मादिषु प्रथमाव्यावृत्तिरिति न दोषः। ननु च विभक्तिनियमे कर्माद्यभावेन यद्यपि द्वितीयादीनां तत्राभावस्तथापि शेषषष्ठी प्राप्नोति, तथा हि---यदि तिङसामानाधिकरण्य एव प्रथमेत्यस्मान्नियमात्प्रागेव द्वितीयादिवत् षष्ठ।ल्पि नियता स्यात्? स्यातत्राप्रसङ्गस्तस्याः। सा तु शेषलक्षणा। यत्र च विभक्त्यन्तरस्य नियमो न कृतः स शेषः, ततश्च तिङसामानाधिकरण्यात्प्राक् शेषत्वात् षष्ठी प्राप्नोतीति तत्समानाधिकरण्याच्छतृशानचावेव स्याताम्। पर्युदासे प्रसज्यप्रतिषेधे तु न दोषः, प्रथमाया अपि भावात्? सत्यम्; द्वयोरपि पक्षयोः पर्युदासे भवत्येव दोषः। भाष्ये तु विभक्तिनियमे पर्युदासेऽपि न दोष इत्यनास्थावादः पाक्षिक एष दोष इत्यत्रैव तात्पर्यम्। क्षन्तव्यं च किञ्चिदुद्ग्रन्थाभिधानमित्युपरम्यते॥
सिद्धान्तकौमुदी
॥ अथ कारकप्रकरणम्‌ ॥

नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा - तदेवंङ्याप्प्रातिपदिका॑दित्यधिकृत्य विहिताः स्वादिप्रत्ययाः सप्रपञ्चं निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थां दर्शयितुमुपक्रमते-प्रातिपदिकार्थ । ननुप्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः॑,प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः॑, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं सङ्ख्या कारकं चेति पञ्चकं प्रातिपदिकार्थः॑ इत्येते पक्षासरूपाणामेकशेष एकविभक्तौ॑स्त्रिया॑मित्यादिसूत्रेषु भाष्ये स्थिता मञ्जूषायां प्रपञ्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात्पृथग्ग्रहणं व्यर्थमित्यत आह — नियतेति । नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः । एवंच तटः तटी तटमित्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात्प्रातिपदिकार्थशब्देनाऽग्रहणात्पृथग्लिङ्गग्रहणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवान्वयभ्रमं वारयति — मात्रशब्दस्येति । प्रातिपदिकार्थश्च लिङ्गं च परिमाणं च वचनं चेति द्वन्द्वः । प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्र॑मित्यस्वपदविग्रहः । मात्रशब्दोऽवधारणे ।मात्रं कार्त्स्न्येऽवधारणे॑ इत्यमरः ।मयूरब्यंसकादयश्चेति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात्प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने, च प्रत्येकमन्यवय इत्यर्थः । वचनं सङ्ख्येति वक्ष्यति । ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे सङ्ख्यामात्रे च प्रथमेत्यनुपपन्नं, लिङ्गादीनां केवलानां प्रातिपदिकार्थं विना क्वाप्यनुपस्थितेरित्याशङ्क्य-॒अत एव बाधकाल्लिङ्गमात्रेऽधिके इति विवक्षित॑मित्यभिप्रेत्य व्याचष्टे — लिङ्गमात्राद्याधिक्ये इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदिकार्थमात्र #इत्यस्योदाहरति — उच्चैरित्यादि । नन्वव्ययेषुसामान्ये नपुंसक॑मिति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च भानात्कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह — अलिङ्गा इत्यादि । "अव्ययादाप्सुपः" इति सूत्रेआब्ग्रहणं व्यर्थमलिङ्गत्वा॑दिति भाष्योक्तरीत्याऽव्यये कस्यापि लिङ्गस्यानुपस्थ#इतिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्वस्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति तेषां नियतलिङ्गत्वात् अतस्तेषु लिङ्गनामपि प्रातिपदिकार्थान्तर्भावात्तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि "कृष्णः पटः" "कृष्णा पटी"कृष्णं वस्त्र॑मित्यादौ कृष्णशब्दस्त्रिलिङ्गः, तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नच प्रातिपदिक्तोक्तार्थे किं प्रथमयेति वाच्यम्, एकत्वादिसंख्याबोधार्थत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः "अव्ययादाप्सुप" इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः "अव्ययादाप्सुप" इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । तेन उच्चैरित्यादौ रुत्वविसर्गौउच्चैस्ते सम्यगुच्चारण॑मित्यादौ तेमयादिसिद्धिश्च भवति । अनियतेति । अनियतलिङ्गास्तु तटादिशब्दा लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थनन्तर्भावादित्यर्थः । तटः तटी तटमिति । "तटं त्रिषु" इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो व्रीहिरिति । द्रोणः परिमाणविशेषः ।जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिरुआओ राजसर्षप उच्यते । गौरस्तु ते त्रयः, षट् ते यवो, मध्यस्तु ते त्रयः । कृष्णलः, पञ्च ते माषः, ते सुवर्णस्तु षोडश । बलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलद्वयं तु प्रसृतं, द्विगुणं कुडबं मतम् । चतुर्भिः कुडवैः प्रस्थः, प्रस्थाश्चत्वार आढकः । आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते । कुम्भो द्रोणद्वयं शूर्पः, खारी द्रोणास्तु षोडश । ॑ #इति स्मरणात् ।ब्राईहिरिति । जातावेकवचनंजात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् इति वचनात् । व्रीहिराशिरिति यावत् । नह्रेकस्या व्रीहिव्यक्तेद्र्रोणपरिमाणं संभवति । ननु द्रोणाख्यापरिमाणविशेषस्य व्रीहिव्यक्तेश्च कथमभेदान्वयः, धर्मधर्मिणोर्भेदादित्यत आह — द्रोणरूपमिति । तथाचाऽभेदान्वयवस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः ।ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियतपुंलिङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तुअस्त्रियामाढकद्रोणौ॑ इति द्विलिह्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धं । तत्क परिमाणग्रहणेनेति चेत्तत्राह — प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेम परिमाणविशेषवाचिद्रोणशब्दात्स्वार्थे प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थंमात्रे इत्यनेन गतार्थता स्यात् । किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात्परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्भकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मकाऽभेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाक्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाक्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यं न प्रतीयते । तदर्थमिह परिमाणग्रहणमित्यर्थः ।वचनं सङ्ख्येति । पूर्वाचार्यैस्तथा संज्ञाकरणादिति भावः । तथाच सङ्ख्यमात्रे प्रथमेति लभ्यते । नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत्सह्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यं, केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्वित्वबहुत्वानां केवलानां नियतोपस्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणांशे एको द्वौ बहव इत्युदाह्मतम् ।ननु एको द्वौ बहव इत्यत्र एकत्वद्वित्वबहुत्वानां नियमनोपस्थित्या "प्रातिपदिकार्थे " इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — इहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन प्रथमाविभक्तेरप्राप्तौ तदर्थं वचनग्रहणमित्यर्थः । तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थं प्रयोज्या,न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः॑ इत्यनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्तं भाष्ये — ॒उक्तेष्वप्येकत्वादिषु प्रथमा॑ इति । मात्रग्रहणात्कारकाद्याधिक्ये प्रथमा न भवति । अत्रअर्थे प्रथमे॑त्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम् ।
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा - ॒स्वौजसमौट् — -इत्यादिना तावत् स्वादयो ङ्याप्प्रातिपदिकाद्दर्शिताः । तेषामर्थविशेषे व्यवस्थां दर्शयितुमारभते — प्रातिपदिकार्थत्यादिना । प्रथमादयः सप्तम्यन्ताः प्राचां सञ्ज्ञास्तचाभिरिहापि व्यवहार इतिस्वौजसमौट् — -इति सूत्रे मूलकृतोक्तम् । कौस्तुभे तु — -इह प्रथमादयः शब्दाः सुपां त्रिकेषु वर्तन्ते,समं स्यादश्रुतत्वात्इति न्यायादित्युक्तम् । तथा च न्यायसिद्धत्वादस्मिञ्शास्त्रे प्रथमादिसञ्ज्ञानामकरणेऽपि न क्षतिरिति ज्ञेयम् । यदा हिपञ्चकं प्रातिपदिकार्थः॑इति गृह्रते ततो लिङ्गवचनग्रहणमनर्थकम्,प्रातिपदिकार्थे॑इत्येव सिद्धेः, मात्रग्रहणाच्च कर्मादिव्यवच्छेदो न स्यात्, प्रातिपदिकार्थादनतिरिक्तत्वात् । त्रिकपक्षेऽपि लिङ्गग्रहणमनर्थकमेवेत्याशङ्क्य विवितं दर्शयतिनियतोपस्थितिक इति । यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थ इत्यर्थः । शक्य इति यावत् । नन्वेवं सिंहो माणवक इत्यदौ पर्थमा न स्यात् ।अत्राहुः — शक्यार्थमादाय प्रथमाविभक्तेत्पत्तौ सत्यां पश्चात् पदान्तरसमभिव्याहारे लक्ष्यार्थबोधेऽपि क्षत्यभावादिति मात्रशब्दस्येति । तस्य चाऽत्राऽवधारणमात्रमित्येवकारेणाऽस्वपदविग्रहः । समासस्तु मयूरव्यंसकादित्वाद्बोध्यः । प्रत्येकमिति । द्वन्द्वान्ते श्रूयमाणत्वादिति भावः । ननु वूरः पुरुष इत्यादावभेदसंसगस्याऽधिकस्य भानात्प्रथमा न स्यात् । न चपूर्वाऽपरे त्यादिना वीरशब्दस्य समासविधानं प्रथमोत्पत्तौ लिङ्गमिति वाच्यं, द्वितायद्यन्तानामपि वीरं पुरुषमानयेत्यादौ तद्बिधानस्य चरितार्थत्वादिति चेन्न; संसर्गस्य,वाक्यार्थत्वेन बहिरङ्गत्वात्प्रथमप्रवृत्तसंस्कारबाधाऽनुपपत्तेः । पदसंस्कारपक्षस्यैवेहाभ्युपगमात् । मात्रपदेन कर्माद्याधिक्ये प्रथमा न भवेत्तथापि लिङ्गपरिमाणग्रहणाल्लिङ्गाधिक्ये परिमाणाधिक्ये च भवेदेवेत्याह — — लिङ्गमात्राद्याधिक्ये इति । यद्यपिलिङ्गमात्रे॒॑परिमाणमात्रे॑इत्येवाऽक्षरार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसम्भवादितितदाधिक्ये॑इत्युक्तम् । उच्चैरिति । पदत्वादिह रुत्वविसर्गौ भवतः । किञ्च अस्य पर्थमान्तत्वाद्नाम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वमितिसपूर्वायाः॑इति सूत्रेण तेमयादेशयोर्विकल्पसिद्धिरपि फलम्॥ कृष्ण इति । यद्यपि नीलद्रव्येऽयमियतलिङ्ग, तथापि वासुदेवे भगवति नियतपुंलिङ्ग इति भावः । ज्ञानमिति । भावे ल्युट् । तटः तटी तटमिति । द्विकपक्षे नियतलिङ्गं न प्रकृत्यर्थः, त्रिकपक्षे तु यद्यपि प्रकृत्यर्थः, तथापि तत्तल्लिङ्गस्य पाक्षिकोपस्थितिकत्वान्नप्रातिपदिकार्थे॑त्यनेन गतार्थता । द्रोण इति । न चेहप्रातिपदिकार्थमात्र॑इत्येव प्रथमाऽस्त्विति वाच्यं, तथा सति परिच्छेद्यपरिच्छेदकभावस्य संसर्गविधया भानाऽयोगात् । नामार्थयोरभेदसंसर्गस्य व्युत्पन्नत्वात् । व्रीहिरिति । जातावेकवचनम् । व्यक्तिविवक्षायां तुद्रोणो व्रीहयः॑इति भवत्येव॥अभेदेनेति । न च प्रकृतिप्रत्ययार्थयोभेदान्वयो दुर्लभः,पचति॑पाचकः॒॑औपगव॑इत्यादौ सर्वत्र भेदान्वयस्यैव दृष्टत्वादिति वाच्यं, देवतार्थकतद्धितादावभेदान्वयस्य दृष्टत्वात् ।ऐन्द्र हवि॑रित्यत्र हि इन्द्रदेवताकं हविरिति बोधः सर्वैरेवाभ्युपगम्यत इथि नास्ति शङ्कावसर इति भावः । वचनं सङ्ख्येति । वाच्यवाचकयोरभेदाध्यवसायेन तथैव पूर्वाचार्याणां व्यवहारादिति भावः । अप्राप्तौ वचनमिति । सूत्रे वचनग्रहणमित्यर्थः । वस्तुतस्तु सूत्रे मात्रग्रहणं व्यर्थम् । विशेषविहितैःकर्मणि द्वितीये॑त्यादिभिर्बाधितत्वेन कर्मादौ प्रथमाया अप्रवृत्तेः ।कर्मणि द्वितीये॑त्यादिषुकर्मणि द्वितीयैव॒॑कर्तृकरणयोरेव तृतीय नान्यत्रे॑ति प्रत्ययनियमपक्षे प्रथमाया अपि कर्मादौ प्रवृत्तिसम्भवान्मात्रग्रहणमावश्यकमेवेति वाच्यं, प्रत्ययनियमपक्षे हिप्रातिपदिकार्थं एव प्रथमा, नान्यत्रे॑त्यर्थपयवसानात्कर्मादौ प्रथमाया अप्रवृत्तौ वचनग्रहणमपि व्यर्थं,न केवला प्रकृतिः पयोक्तव्ये॑ति निषेधादेव पर्थमोत्पत्तिसिद्धेः । न चैवंद्विशब्दाद्बहुशब्दाच्चैकवचनम्, एकशब्दाद्द्विवचनम् इत्येवमव्यवस्था स्यादिति वाच्यम्, अनन्वितार्थकविभक्तिप्रयोगाऽपक्षेया अनुवादकविभक्तिप्रयोगस्य न्याय्यत्वात् ।गौर्वाहीक॑इतिवद्द्रोणब्दस्य तत्परिमिते उपचाराद्द्रोणो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयात् ।परिमाणं प्रत्ययार्थः॑इति पक्षे तु द्रोणरूपं यत्परिमामं तत्परिच्छिन्नो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयस्तथा च फलभेदे कथं प्रत्ाख्यानमिति चेदत्राहुः — शाब्दबोधप्रयुक्तं वैलक्षण्यमिहाऽनादृत्य परिमाणग्रहणं प्त्याख्यातम् । अतएव औपगवादौतस्येदम्इत्यनेनैवाऽण्प्रत्ययसिद्धेःतस्यापत्य॑मिति सूत्रं किमर्थमित्याक्षेपः, मत्वर्थीयेनिनैव सिद्धेःपरिवृत्तो रथः॑इत्यधिकारेपाण्डुकम्बलादिनिः॑इतीनिप्रत्ययविधानं किमर्थमित्याक्षेपश्च वक्ष्यमाणः सङ्गच्छते । यदि तु सर्वत्रैव शाब्दबोधप्रयुक्तं वैलक्षण्यं स्वीक्रियते तर्हिबाधनार्तं कृतं भवे॑दिति समाधानस्याऽणो बाधनार्थमिनिप्रत्ययविधानमिति समाधानस्य च वैयथ्र्यापत्तेरिति । ननु क्वचित् पञ्चकं प्रातिपदिकार्थः, क्वचित्त्रिकं, क्वचिद्द्विकं प्रातिपदिकार्थ इत्यादि व्यवह्यियते । त एते पक्षाः केषाममिमताः, कथं वाऽमीषामुपपत्तिरिति चेत् । अत्र व्याचख्युः — -स्वार्थद्रव्यलिङ्गसङ्ख्याकारकात्मकः पञ्चकं प्रातिपदिकार्थः, धि मध्वित्यादौ विनापि विभकिंत प्रातिपदिकादेव तावतामर्थानां प्रतीतेः । वृक्षौ वृक्षाः वक्षं वृक्षेणेत्यादौ यद्यपि विभक्त्यन्वयेऽपि प्रतीयन्ते नेयता पर्कृत्यर्थत्वहानिः, द्योतकत्वेनैवोपयोगादिति भाष्यकारो मन्यते । आदितश्चतुष्कमिति कैयटः ।तत्रोपपदं सप्तमीस्थं॑मित्यत्र चतुष्कपक्षे, पञ्चकपक्षे वा कारकं प्रातिपदिकार्थ इत्यभिधानात् । आदितस्त्रिकमिति वृत्तिकारः । अन्वयव्यतिरेकाभ्यां सङ्ख्याकारकादेर्विभक्त्यर्थत्वनिश्चयात् । यद्यपिदधि॒॑मधु॑इत्यादौ विनापि विभकिंत सङ्ख्याकारकं च प्रतीयते, नेयता वृक्षौ वृक्षा इत्यादावपि विभक्त्यर्थत्वं हीयते । न हिगर्गा॑इत्यादौ विनापि यञा अपत्यं गम्यत इथि तदपि प्रकृत्यर्थः । न चा ।विभरित्यादौ अन्तरेणाऽपि प्रत्ययं कर्ता प्रतीयत इति भेत्तेत्यादावपि कर्ता प्रकृत्यर्थ एवेति युज्यते वक्तुम् । अतस्त्रिकमेव प्रातिपदिकार्थः, सङ्ख्याकर्मादयस्तु विभक्त्यर्था इति । लिङ्गं टाबादिवाच्यमिति पक्षे आदितो द्विकमेवेत्यन्ये । तत्र स्वार्थो — -विशेषणम् । द्रव्यं — विशेष्यम् । लिङ्गं — स्त्रीत्वादि । सङ्ख्य — एकात्वादिः । कारकं — कर्मादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 504 द्वितीयाध्यायस्य तृतीयपादे तृतीयमाह्निकम् ।। (323 प्रथमासूत्रम् ।। 2।3।3 आ.1) (प्रातिपदिकपदप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) प्रातिपदिकग्रहणं किमर्थम्?।। (समाधानभाष्यम्) उच्चैः नीचैरित्यत्रापि यथा स्यात्।। (आक्षेपभाष्यम्) किं पुनरत्र प्रथमया प्रार्थ्यते?।। (समाधानभाष्यम्) पदत्वम्।। (समाधानबाधकभाष्यम्) नैतदस्ति। षष्ठ्यात्र पदत्वं भविष्यति।। (समाधानान्तरभाष्यम्) इदं तर्हि प्रयोजनम् ‐ ग्राम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वम् सपूर्वायाः प्रथमाया विभाषा इत्येष विधिर्यथा स्यात्।। (लिङ्गग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ लिङ्गग्रहणं किमर्थम्?।। (समाधानभाष्यम्) स्त्री पुमान् नपुंसकमित्यत्रापि यथा स्यात्।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। एष एव चात्रास्ति प्रातिपदिकार्थः ।। (समाधानान्तरभाष्यम्) इदं तर्हि ‐ कुमारी वृक्षः कुण्डमिति।। (प्ररिमाणपदप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ परिमाणग्रहणं किमर्थम् ? प्र्प्र् (समाधानभाष्यम्) द्रोणः खारी आढकमित्यत्रापि यथा स्यात्।। (वचनपदप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ वचनग्रहणं किमर्थम्?।। (समाधानभाष्यम्) इह समुदाये वाक्यपरिसमाप्तिर्दृश्यते ‐ गर्गाः शतं दण्ड्यन्तामिति। अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टन्ते यत्रैतानि सर्वाणि समुदितानि भवन्ति तत्रैव स्यात् ‐ द्रोणः खारी आढकमिति। इह न स्यात् ‐ कुमारी वृक्षः कण्डमिति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। प्रत्येकमपि वाक्यपरिसमाप्तिर्दृश्यते। तद्यथा-गुणवृद्दिसंज्ञे प्रत्येकं भवतः।। (समाधानान्तरभाष्यम्) इदं तर्हि प्रयोजनम् ‐ उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात् ‐ एको द्वौ बहवः।। (मात्रग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ मात्रग्रहणं किमर्थम्?।। (समाधानभाष्यम्) एतन्मात्र एव प्रथमा यथा स्यात्। कर्मादिविशिष्टे मा भूत् ‐ कटं करोति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। कर्मादिषु द्वितीयाद्या विभक्तयः। ताः कर्मादिविशिष्टे बाधिका भविष्यन्ति।। (समाधानबाधकान्तरभाष्यम्) अथ वाचार्यप्रवृत्तिर्ज्ञापयति ‐ न कर्मादिविशिष्टे प्रथमा भवतीति। यदयं संबोधने प्रथमां शास्ति।। (समाधानसाधकज्ञापकनिरसनभाष्यम्) नैतदस्ति ज्ञापकम्। अस्त्यन्यदेतस्य वचने प्रयोजनम्।। किम्?। सामन्त्रितम् इति वक्ष्यामीति।। (समाधानबाधकज्ञापकान्तरभाष्यम्) यत्तर्हि योगविभागं करोति।। इतरथा हि संबोधेन आमन्त्रितम् इत्येव ब्रूयात्।। (समाधानान्तरभाष्यम्) इदं तर्हि ‐ उक्तेष्वप्येकत्वादिषु प्रथणा यथा स्यात् ‐ एको द्वौ बहव इति।। (अन्यतरप्रत्याख्यानभाष्यम्) वचनग्रहणस्याप्येतत्प्रयोजनमुक्तम्। अन्यतरच्छक्यमवक्तुम्।। (सामानाधिकरण्ये प्रथणासाधनाधिकरणम्) (1521 आक्षेपवार्तिकम्।। 1) - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानमधिकत्वात् ।। () ।। (भाष्यम्) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानं कर्तव्यम्। वीरः पुरुष इति।। किं पुनः कारणं न सिध्यति?। अधिकत्वात्। व्यतिरिक्तः प्रातिपदिकार्थ इति कृत्वा प्रथमा न प्राप्नोति।। कथं व्यतिरिक्तः?। पुरुषे वीरत्वम्।। (1522 समाधानवार्तिकम् ।। 2) - न वा वाक्यार्थत्वात् - (भाष्यम्) न वा वक्तव्यम्।। किं कारणम्?। वाक्यार्थत्वात्। यदत्राधिक्यं वाक्यार्थः सः ।। (समाधानाय न्यासान्तरम्) अथ वा अभिहिते प्रथमा इत्येतल्लक्षणं करिष्यते ।। (1523 न्यासान्तरदूषकवार्तिकम् ।। 3) - अभिहितलक्षणायामनभिहिते प्रथमाविधिः - (भाष्यम्) अभिहितलक्षणायामनभिहिते प्रथमा विधेया। वृक्षः प्लक्ष इति।। (दूषणपरिहारभाष्यम्) उक्तं वा। किमुक्तम्? अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्ति इति गम्यत इति।। (1524 दूषणान्तरवार्तिकम् ।। 4 ) प्र्प्र् () प्र्प्र् अभिहितानभिहिते प्रथमाभाव: प्र्प्र् () प्र्प्र् (भाष्यम्) अभिहितानभिहिते प्रथमा प्राप्नोति। क्व?। प्रासादे आस्ते शयन आस्त इति। सदिप्रत्ययेनाभिहितमधिकरणमिति कृत्वा प्रथमा प्राप्नोति।। (दूषणपरिहाराया न्यासान्तरम्) एवं तर्हि तिङ्समानाधिकरणे प्रथमा इत्येतल्लक्षणं करिष्यते।। (1525 न्यासान्तरदूषणवार्तिकम् ।। 5) - तिङ्समानाधिकरण इति चेत्तिङोप्रयोगे प्रथमाविधिः - (भाष्यम्) तिङ्समानाधिकरण इति चेत्तिङोप्रयोगे प्रथमा विधेया। वृक्षः प्लक्षः।। (दूषणपरिहारभाष्यम्) उक्तं पूर्वेण। किमुक्तम्?। अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्ति इति गम्यत इति।। (1526 तिङ्साधनाधिकरण आक्षेपवार्तिकम् ।। 6) - शतृशानचोश्च निमित्त भावात्तिङोभावस्तयोरपवादत्वात् - (भाष्यम्) शतृशानचोश्च निमित्तभावात्तिङोभावः।। क्व?। पचत्योदनं देवदत्त इति।। किं कारणम्?। तयोरपवादत्वात्। शतृशानचौ तिङपावादौ। तावत्र बाधकौ। न चापवादविषये उत्सर्गोभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः प्र् ठप्रकल्प्य चापवादविषयमुत्सर्गोभिनिविशते। न तावदत्र कदाचित्तिङादेशो भवति। अपवादौ तावच्छतृशानचौ प्रतीक्षते।। (समाधानभाष्यम्) पाक्षिक एष दोषः। कतरस्मिन्पक्षे शतृशानचोर्द्वैतं भवति ‐ अप्रथमा वा विधिनाश्रीयते प्रथमा वा प्रतिषेधेनेति?।। विभक्तिनियमे चापि द्वैतं भवति ‐ विभक्तिनियमो वा स्यादर्थनियमो वेति।। तद्यदा तावदर्थनियमः अप्रथमा च विधिनाश्रीयते, तदा एष दोषो भवति।। यदा हि विभक्तिनियमः, तदा यद्येवमप्रथमा विधिनाश्रीयते, अथापि प्रथमा प्रतिषेधेन, तदा न दोषो भवति।। प्रातिपदिकार्थ।। 46 ।।