॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|44
SK 641
2|3|44
प्रसितोत्सुकाभ्यां तृतीया च   🔊
SK 641
सूत्रच्छेद:
प्रसित-उत्सुकाभ्याम् - तृतीयाद्विवचनम् , तृतीया - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर् भवति, चकारात् सप्तमी च। प्रसितः प्रसक्तः, यस् तत्र नित्यम् एव अवबद्धः स प्रसितशब्देन उच्यते। केशैः प्रसितः केशेषु प्रसितः। केशैरुत्सुकः, केशेषु उत्सुकः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
प्रसिदोत्सुकाभ्यां तृतीया च॥
सिद्धान्तकौमुदी
आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥
प्रसितोत्सुकाभ्यां तृतीया च - प्रसितोत्सुकाभ्याम् ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम् ।
प्रसितोत्सुकाभ्यां तृतीया च - प्रसितोत्सुकाभ्यां ।तत्परे प्रसिताऽ‌ऽसक्तौ॑ इत्यमरः । उत्सुकसाहचर्यात् प्रसितोऽपि तत्पर एवेह गृह्रते, रूढआ च । तेन प्राकर्षेण सितः=शुक्ल इत्यर्थे न भवति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रसितोत्सुकाभ्यां तृतीया च 502 (321 उपपदतृतीयासप्तमीसूत्रम् ।। 2।3।2 आ.16) (प्रसितशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) प्रसित इत्युच्यते। कः प्रसितो नाम?।। (समाधानभाष्यम्) यस्तत्र नित्यं प्रतिबद्धः।। कुत एतत्?। सिनोतिरयं बध्नात्यर्थे वर्तते ‐ बद्ध इवासौ तत्र भवति।। प्रसितो ।। 44 ।।