॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|41
SK 638
2|3|41
यतश्च निर्धारणम्‌   🔊
SK 638
सूत्रच्छेद:
यतः - अव्ययम् , च - अव्ययम् , निर्द्धारणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
षष्ठीसप्तम्यौ वर्तते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक् करनं निर्धारनम्। यतो निर्धारनं ततः षष्ठी सप्तम्यौ विभक्ती भवतः। मनुष्याणाम् क्षत्रियः शूरतमः, मनुष्येषु क्षत्रियः शूरतमः। गवं कृष्णा सम्पन्नक्षीरतमा, गोषु कृष्णा सम्पन्नक्षीरतमा अध्वगानां धवन्तः शीघ्रतमा, अध्वगेषु धावन्तः शीघ्रतमाः।
किमर्थं पुनरिदम्? यावता निर्धार्यमाणोऽवयवः समुदायान्तर्भूतः; तत्र यदा समुदायास्याधिकरणत्वं विवक्ष्यते तदा सप्तमी सिद्धैवेति, यथा-- वृक्षे शाखेति; यदा त्ववयवावयविसम्बन्धस्तदा षष्ठी, यथा-- वृक्षस्य शाखेति? सत्यमेतत्; प्रपञ्चार्थ वचनम्॥
यतश्च निर्धारणम्॥ जातिगुणक्रियाभिरिति। प्रदर्शनमेतत्। अमीषां छात्राणां देवदतः पटुअरिति संज्ञयापि निर्धारणदर्शनात्॥
सिद्धान्तकौमुदी
जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥
यतश्च निर्धारणम् - यतश्च निर्धारणम् । जातिगुणेति । "यतः" इति "ततः" इति च पञ्चम्यर्थे तसिः । यस्मात्समुदायादेकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं=स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात्षष्ठीसप्तम्यावित्यर्थः । अत्र स्वशब्देन एकदेश उच्यते । तत्र जात्या पृथक्करणमुदाहरति — नृणा नृषु वेति । नृशब्दो मनुष्यसमुदाये वर्तते । उद्भूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योरवयवावयविभावः संबन्धोऽर्थः, उदाह्मतनिर्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रैष्ठरूपधर्मक इत्यर्थः । गुणेन पृथक्करणमुदाहरति — गवां गोषुवेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः । क्रियया पृथक्करणमुदाहरति — गच्छतां गच्छत्सु वेति । गच्छत्समुदायैकदेशभूतो धावन्स्वेतरव्यावृत्तशैघ्र्यधर्मक इत्यर्थः । संज्ञया पृथक्करणमुदाहरति — छात्राणामिति । छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!