॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|4
SK 545
2|3|4
अन्तराऽन्तरेण युक्ते   🔊
SK 545
सूत्रच्छेद:
अन्तरा-अन्तरेण - अव्ययम् , युक्ते - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्वितीया स्वर्यते, न तृतीया। अन्तरान्तरेण शब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर् भवति। षष्ठ्यपवादो ऽयम् योगः। तत्र अन्तराशब्दो मध्यमाधेयप्रधानम् आचष्टे। अन्तरेण शब्दस् तु तच् च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल् लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः।
`अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्गृह्रेते` इति। अयमन्तराशब्दो यद्यपि स्त्रीप्रत्ययान्तोऽस्ति, तथाऽस्त्रीप्रत्ययान्तोऽपि;अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्तो गृह्रते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम्। अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि तस्यैव ग्रहणम्। तेनानिपातो यस्तृतीयान्तोऽन्तरेणशब्दः, यश्च टाबन्तोऽन्तराशब्दस्ताभ्यां योगे द्वितीया न भवति। किं ते बाभ्रावाणां शालङ्कायमानाञ्चान्तरेण गतेन? ग्रामयोरन्तरायां पुरि वसतीत्यन्तरशब्दोऽत्र विशेषवचनः। गमिरपि ज्ञानवचनः। किं ते विशेषण ज्ञानेनेत्यर्थः। `षष्ठपवादोऽयं योगः` इति।र शेषलक्षणायां षषठआं प्राप्तायामस्यारम्भात्। षष्ठआपवादत्वमस्य योगस्यान्तरान्तरेणशब्दार्थप्रदर्शनद्वारेण विस्पष्टीकर्त्तुमाह-- `तत्र` इत्यादि। मध्यं हि सम्बन्धिशब्दत्वादमध्यभूतं द्वितीयं सम्बन्धिनमपेक्ष्य भवति। तत्र यदपेक्षं मध्यत्वं ततो मध्येन व्यतिरेके समुपजनिते षष्ठी प्राप्नोति। विनार्थोऽपि शेष एव। अत्रापि षष्ठएव प्राप्नोति। `अन्तरा त्वाञ्च माञ्च कमण्डलुः` इति। तव मम मध्ये कमण्डलुरित्यर्थः। अथ कमण्डलुशब्दाद्द्वितीता कस्मान्न भवति? सत्यप्यन्तरान्तरेणयोगे तस्य प्राधान्यात्। तथा हि-- कमण्डलोः स्वार्था प्रवृत्तिः , युष्मदस्मदोस्तु परार्था; कमण्डलुविशेषणत्वेन तयोः प्रवृत्तत्वात्। तत्र कमण्डलोः स्वार्थे वत्र्तमानात् प्राधान्येनावस्थित्वात् प्रातिपदिकार्थादप्रच्युतत्वात् परत्वात् प्रथमैव भवति। द्वितीयायास्त्वप्रधाने युष्मदस्मच्छब्देऽवकाश इति ताभ्यां तेनेव प्रथमान्तेन कमण्डलुनोपजनिते व्यतिरेके षष्ठआं प्राप्तायां द्वितीया विधीयते। `अन्तरेण पुरुषकारम्` इति। विना पुरुषकारेणेत्यर्थः। `अन्तरा तक्षशिलां पाटलिपुत्रञ्च रुआउघ्नस्य प्राकारः` इति। अत्र रुआउघ्नः प्राकारविशेषणत्वेनोपक्षीणसामथ्र्य इति न भवति त्सयान्तराशब्देन योगः॥
अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा--गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत् ठ्सहयुक्तेऽप्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम्---अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥
सिद्धान्तकौमुदी
आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥
अन्तराऽन्तरेणयुक्ते - अन्तरान्तरेणयुक्ते । "अन्तरा" इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । "अन्तरा मध्ये" इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः ।
अन्तराऽन्तरेणयुक्ते - अन्तरान्तरेण । प्रतिपदोक्तत्वान्निपातयोरेव ग्रहणं न तु टाबन्ततृतीयान्तयोः, परस्परसाहचर्याच्च । तद्यथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न त्वाचर्यपरशुरामयोः । तेन किमनयोरन्तरेणावगतेनेति सिद्धम् । किमनयोर्विशेषण ज्ञातेनेत्यर्थः । अन्तरा त्वां मामिति । तव मम च मध्ये इत्यर्थः । हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः । अन्तरेण हरिमिति । हरिं विनेत्यर्थः ।मध्ये॑इत्यर्थेऽप्यन्तरेणशब्दो वर्तते,मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोद्र्वयं सः॑ इति । चलच्चामरयोद्र्वयं यस्य मध्ये इत्यर्थः । युक्ताग्रहणान्नेह, — ॒अन्तरा त्वां मां कृष्णस्य मूर्तिः॑ । इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनाऽनन्वयात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तरान्तरेण युक्ते 462 (296 द्वितीयासूत्रम् ।। 2।3।1 आ.4।।) (अन्तरेणेतिशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति ‐ किं ते बाभ्रवशालङ्कायनानामन्तरेम गतेनेति?।। (समाधानभाष्यम्) लक्षणप्रतिपदोक्तयो: प्रतिपदोक्तस्यैव ग्रहणम् इति। अथ वा यद्यपि तावदयमन्तरेणशब्दो दृष्टापचारो निपातश्चानिपातश्च। अयं तु खल्वन्तराशब्दोऽदृष्टापचारः निपात एव। तस्यास्य कोन्यः सहायो द्वितीयो भवितुमर्हति ‐ अन्यदतो निपातात्। तद्यथा ‐ अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते, नाश्वो न गर्दभः ।। (1472 वार्तिकम् ।। 1 ।।) - अन्तरान्तरेणयुक्तानामप्रधानवचनम् - (भाष्यम्) अन्तरान्तरेणयुक्तानामप्रधानग्रहणं कर्त्तव्यम्। अप्रधाने द्वितीया भवतीति वक्तव्यम्। अन्तरा त्वां मां च कमण्डलुरिति कमण्डलोर्द्वितीया मा भूदिति।। (आक्षेपभाष्यम्) कः पुनरेताभ्यां कमण्कण्डलोर्योगः?। (समाधानभाष्यम्) यत्तत्त्वां च मां चान्तरा तत्कमण्डलोः स्थानम्। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?।। (समाधानभाष्यम्) न वक्तव्यम्। कमण्डलोर्द्वितीया कस्मान्न भवति?। उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति।। अन्तरान्तरे ।। 4 ।।