Page loading... Please wait.
2|3|26 - षष्ठी हेतुप्रयोगे
॥ तस्मै पाणिनये नमः ॥
2|3|26
SK 607
षष्ठी हेतुप्रयोगे   🔊
सूत्रच्छेदः
षष्ठी (प्रथमैकवचनम्) , हेतु-प्रयोगे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हेतोः प्रयोगः हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर् भवति। अन्नस्य हेतोर् वसति।
प्रयोगस्य शब्दधर्मत्वात् हेतुरित्यनेन हेतुशब्द एव विज्ञायत इत्यत आह--`{हेतुशब्दस्य प्रयोगे--काशिका} हेतुशब्दप्रयोगे` इति। एवञ्च हेतुशब्दस्य स्वरूपग्रहणे सति तत्पर्याणां निमित्तकारणादीनां प्रयोगे षष्ठी न भवतीति किमर्थं पुनरिदमुच्यते, यावता शेषविवक्षयैवात्राध्ययनादिभ्यः षष्ठी भविष्यति, तत्समानाधिकरण्याच्च हेतुशब्दादपि? एवं तर्हि सैव शेषविवक्षाऽस्मिन् विषये वचनेनाख्यायते मन्दधियामनुग्रहाय॥
षष्ठी हेतुप्रयोगे॥ हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्यते; यर्यायप्रयोगेऽपि ठ्निमितकारणहेतुषुऽ इति वक्ष्यमाणेन षष्ठ।ल इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ ठ्हेतौऽ इति ततीयापवादो योगः॥
सिद्धान्तकौमुदी
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥
षष्ठी हेतुप्रयोगे - षष्ठीहेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह — हेतौ द्योत्ये इति । हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात्षष्ठीति फलितम् । "हेतौ" इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य ह्तोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति ।
षष्ठी हेतुप्रयोगे - षष्ठी हेतु । अत्रहेतौ॑ इत्यनुवर्तते, तदाह — -हेतौ द्योत्य इति । अन्नस्येति ।हेतौ॑ इति तृतीयायां प्राप्तायामनेन षष्ठी । हेतुप्रयोगे किम् । अन्ने वसति । हेतौ द्येत्ये किम् । अन्नशब्दात्षष्ठी यथा स्यादित्येके ।अन्नस्य हेतोस्तुभ्यं नम॑ इत्यत्र युष्मच्छब्दान्मा भूदित्यन्ये ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.