Page loading... Please wait.
2|3|25 - विभाषा गुणेऽस्त्रियाम्‌
॥ तस्मै पाणिनये नमः ॥
2|3|25
SK 602
विभाषा गुणेऽस्त्रियाम्‌   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , गुणे (सप्तम्येकवचनम्) , अस्त्रियाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हेतौ इति वर्तते। गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर् भवति। जाड्याद् बद्धः, जाड्येन बद्धः। पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः। गुणग्रहनं किम्? धनेन कुलम्। अस्त्रियाम् इति किम्? बुद्ध्या मुक्तः। प्रज्ञया मुक्तः।
`धनेन कुलम्` इति। धनं द्रव्यम्, न गुणः। द्रव्याश्रितो हि गुणो भवति, न द्रव्यमेव ! गुणशब्देन चात्र सम्बन्धिमात्रं परार्थरूपापन्नमुच्यते, तेनाग्निरत्र धूमादित्याद्यपि सिद्धं भवति। ननु चास्त्रियामित्युच्यते, तेन नास्तीह घटोऽनुपलब्धेरित्यादि न सिध्यति? नैतदस्ति;`विभाषा गुणे` इति योगविभागः कत्र्तव्यः।तेन यत्रेष्यते तत्रय योगविभागादिष्टसिद्धिरिति स्त्रियामपि भवत्येव॥
विभाषा गुणेऽस्त्रियाम्॥ ठ्सत्वे निविशतेऽपैतिऽ इति लक्षितस्य गुणस्य ग्रहणम्; तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोरिति केचित्। अन्ये तु ठ्पर्वतो वह्निमान् धूमवत्वात्ऽ इत्यादावनेनैव पञ्चमीमिच्छन्तः परतन्त्रमात्रस्य ग्रहणं वर्णयन्ति, यथा---यस्य हि गुणस्य भावादिति। ठ्विभाषा गुणेऽ इति योगविभागात् ठ्नास्तीह पटोऽनुपलब्धेःऽ इति स्त्रियामपि क्वचिद्भवति। केचित्वपादानपञ्चमीमेतामिच्छन्ति, तथा च ठ्नास्तीह घटोऽनुपलब्धितःऽ इति ठपादाने चाहीयरुहोःऽ इति तसिलपि भवति, योगविभागवादिनां त्वाद्यादित्वातसिः॥
सिद्धान्तकौमुदी
गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥
विभाषा गुणेऽस्त्रियाम् - विभाषा । हेतावित्यनुवर्तते । तदाह — गुणे हेतावस्त्रीलिङ्गे इति ।विद्यमाना॑दिति शेषः । जाडआदिति । जडस्य भावो जाडम् ।गुणवचनब्राआहृणादिभ्यः कर्मणि चे॑ति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह — योगविभागादिति । "विभाषा" इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादिस्यर्थः । ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः-॒गुणेऽस्त्रिया॑मिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च "जाडआद्बद्ध" इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह — अगुणे स्त्रियां च क्वचिदिति । योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः । अत्राऽगुणे उदाहरति — धूमादिति ।अग्निमा॑नित्यनन्तरं॒॑ज्ञायते॑ इति शेषः । धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः । स्तिरायमुदाहरति — नास्ति घट इति । "घट" इत्यनन्तरं "इति ज्ञायते" इति शेषः । अनुपलब्धेरपि । उपलब्धिः=ज्ञानम्, तस्या अभावः-अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् ।
विभाषा गुणेऽस्त्रियाम् - स्त्रियां चेति ।बाहुलकं प्रकृतेस्तनुदृष्टेः॑ इति वार्तिकनिर्देशोऽपीह ज्ञापकः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.