॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|24
SK 601
2|3|24
अकर्तर्यृणे पञ्चमी   🔊
SK 601
सूत्रच्छेद:
अकर्त्तरि - सप्तम्येकवचनम् , ऋणे - सप्तम्येकवचनम् , पञ्चमी - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हेतौ इति वर्तते। कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर् भवति तृतीया अपवादो योगः। शताद् बद्धः। सहस्राद् बद्धः। अकर्तरि इति किम्? शतेन बन्धितः। शतमृणं च भवति, प्रयोजकत्वाच् च कर्तृसंज्ञकम्।
`शतेन बन्धितः`इति। बन्धेण्र्यन्तस्य निष्ठायामेतद्रूपम्। `शतमृणञ्च भवति`इति। उत्तमर्णाय देयत्वात्। प्रयोजकत्वात् कर्त्तृसंज्ञेति, `तत्प्रयोजको हेतुश्च` 1|4|55 इति चकारात् कर्त्तृसंज्ञाविधानात्। ननु लौकिको हेतुः पूर्वसूत्रे गृहीतः, स चेहानुवत्र्तत इति तत एव पञ्चमी विधीयते, न चात्र लौकिको हेतुः, किं तर्हि? पारिभाषिक इति प्राप्त्यभावादकत्र्तरीति प्रतिषेधोऽनर्थकः? नैतदस्ति;तत्र हि शास्त्रीये हेतौ तृतीया सिद्धेवेति लौकिकस्य हेतौग्र्रहणम्, इह तु पञ्चमी विधीयते। न चातर्ासौ शास्त्रीये हेतौ केनचित् सिध्यति। द्वावपीह हेतू गृह्रेते। अथ वा शास्त्रीयस्यापि हेतोर्लौकिकं हेतुत्वमविरुद्धमेव। यो हि बन्धने प्रयुङ्क्ते स तत्साधनयोग्यो भवत्येव॥
अकर्तर्यृणे पञ्चमी॥ बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्ऽ शतमृणं च भवतीति। उतमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। ठ्तत्प्रयोजको हेतुश्चऽ इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम्---कर्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्॥
सिद्धान्तकौमुदी
कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥
अकर्तर्यृणे पञ्चमी - अकत्र्तर्यृणे । "हेतौ" इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कर्तृवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्बद्ध इति । नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति ।अधर्मण उत्तमर्णेने॑ति शेषः । बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधर्मण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च,तत्प्रयोजको हेतुश्चे॑त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः ।
अकर्तर्यृणे पञ्चमी - पञ्चमी स्यादिति । तृतीयापवादोऽयम् । शतेनेति । शतमिह उत्तमर्णाय धार्यमाणत्वादृणं,॒तत्प्रयोजको हेतुश्च॑ इति चकारात्कर्तृसंज्ञं च । बन्धित इति । ण्यन्ते प्रयोजककर्तुः शतस्य हेतुसंज्ञाप्यस्तीति पञ्चम्यत्र स्यादेवातोऽत्राऽकर्तरित्युक्तमिति भावः । योगविभागादिति । एतच्चहेतुमनुष्येभ्यः — ॑ इति सूत्रे पदमञ्जर्यां स्पष्टम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!