॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|23
SK 568
2|3|23
हेतौ   🔊
SK 568
सूत्रच्छेद:
हेतौ - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते। तद्वाचिनस् तृतीया विभक्तिर् भवति। धनेन कुलम्। कन्यया शोकः। विद्यया यशः।
हेतुर्द्विविधः-- शास्त्रीयः,लौकिकश्च। तत्र शास्त्रीयः ` तत्प्रयोजको हेतुश्च` 1|4|55 । लौकिकः फलसाधनयोग्यः पदार्थः। तत्र शास्त्रीये हेतौ `कर्त्तृकरणयोस्तृतीया` 2|3|18 इत्येवं सिद्धा तृतीया। तस्माल्लौकिकस्य हेतोरिदं ग्रहणमित्यत आह-- `फलसाधनयोग्यः` इत्यादि। अनिष्पादयन्नपि फलं तासाशनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति योग्यग्रहणम्। `धनेन कुलम्` इत्यादौ कुलादीन्यकुर्वन्त्यपि धनादीनि तत्करणयोग्यतया लोके हेतुवय्पबदेशमासादयन्तीति तेभ्यस्तृतीया। इह यूपाय दार्विति सदपि दारुणो हेतुत्वं न विवक्षितम्। किं तर्हि? कारणस्यान्यथात्वम्। तेन तादर्थ्ये चतुर्थी भवति॥
हेतौ॥ ठ्तत्प्रयोजको हेतुश्चऽ शास्त्रीयस्य हेतोश्चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वाल्लौकिकौ हेतुर्गृह्यत इत्याह---फलसाधनयोग्य इत्यादि। लोके ह्यङ्कुरादिकार्योत्पादने योग्यतामात्रप्रयुक्तोऽनाश्रितव्यापारो द्रव्यगुणक्रियाविषयो बीजादिर्हेतुः। उक्तं च---- द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरुच्यते॥ इति च। उदाहरणेषु क्रियाया अभावात्करणत्वमनाशङ्कनीयम्। यूपाय दार्वित्यत्र तादर्थ्य विवक्षितम्, न तु सदपि हेतुत्वमिति दारुशब्दात् प्रथमैव भवति॥
सिद्धान्तकौमुदी
हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया (वार्तिकम्) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥
हेतौ - हेतौ । हेत्वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एव विवक्षितो, नतुतत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादिसाधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियं च प्रति यज्जनकं, तत्र सर्वत्र विद्यमानमित्यर्थः । निर्वापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निव्र्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारवद्वृत्ति च यत्तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाऽभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति-पुण्येन दृष्टो हरिरिति । वागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निव्र्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तुपुण्येन ब्राहृवर्चस॑मित्याद्युदाहार्यम् । नन्वध्ययनेन वसतीत्यत्र कथं तृतीया, अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाऽभावात्, प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह — फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वासं प्रति हेतुरपि भवति, इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति-अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् ।ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात्करणत्वहेतुत्वयोरसंभवात्कथं तृतीयेत्यत आह-गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किं तु गम्यमानाऽपीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह — अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रतीदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते ।अलं भूषणपर्याप्तिशक्तिवारणवाचक॑मित्यमरः ।साध्य॑मित्यष्याहारलभ्यम् । तदाह — श्रमेण साध्यं नास्तीति । सद्यः खेदाधायकत्वात्साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्रादिफलस्य क्रियारूपत्वाऽभावात्कथं श्रमस्य तत्र करणत्वमित्यत आह — इहेति ।साध्य॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका, तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाऽभेद इति निरस्तम्, श्रमशब्देन व्रीह्राद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य,साधनक्रियां प्रती॑त्यनेन व्रीह्राद्युत्पत्तेश्च विवक्षितत्वात् ।गम्यमानापि क्रिया विभक्तौ प्रयोजिके॑त्यत्र उदाहरणान्तरमाह — शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान्पाययतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठशतसङ्ख्यायाः पायने करणत्वाऽभावात्परिच्छिद्येति गम्यते । एकैकशतसङ्ख्यया वत्सान्परिच्छिद्य=तदधिकवत्सेभ्यो व्यावर्त्त्य पाययतीत्यर्थः । तथाच शतसङ्ख्यायाः परिच्छेदं प्रति करणत्वमिति भावः ।अशिष्टेति । इदंचदाणश्च सा चेच्चतुथ्र्यर्थे॑ इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेता अशिष्टाः, तेषां व्यवहारः= आचारः, तस्मिन्विषये दाण्धातो प्रयोगे सति चतुथ्र्यर्थे संप्रदाने तृतीया वाच्येत्यर्थः । दास्येति । दास्यै कामुकः प्रयच्छतीत्यर्थः । "कामुक" इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिर्धमशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः । असिष्टपदप्रयोजनमाह-धम्र्ये त्विति । धर्मादनपेत इत्यर्थः ।न तृतीये॑ति शेषः ।धर्मपथ्यर्थन्यायादनपेते इति य॑दिति रत्नाकरः । धर्मे त्विति पाठस्तु सुगम एव । इति तृतीया ।
हेतौ - हेतौ । हेतुरिह लौकिकः फलसाधनीभूतो गृह्रते, न तुतत्प्रत्ययोजको हेतुश्चे॑ति कृत्रिमः । तस्य चकारेण कर्तृसंज्ञाविधानात्कर्तृत्वादेव तृतीयासिद्धेरत आह — हेत्वर्थे इत्यादि । ननु लौकिकहेतोरपि करणत्वादेव तृतीयसिद्धौ किमनेनेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादीति ।आदि॑शब्देन गुणक्रिये ग्राह्रे । द्रव्यगुणक्रियानिरूपितं निव्र्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमित्यर्थः । करणत्वं त्विति । क्रियामात्रनिरूपितं व्यापारवद्वृत्ति च यत्तत्करणत्भित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेणान्यस्यान्यथासिद्धिर्न शङ्क्येति भावः । उक्तं च — द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते॑इति । द्रव्यविषये हेतुत्वमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । अत्र हि व्यापारोऽस्तु वा, मा वा, साक्षात्क्रियान्वयित्वाऽभावात्करणत्वं नास्तीति भावः । क्रियाविषये उदाहरणमाह — - पुण्येन दृष्ट इति । पुण्यशब्देनेह परमाऽपूर्वमुच्यतेत, तस्य च हरिदर्शनरूपक्रियान्वयित्वसंभवे ।ञपि व्यापारवत्त्वाऽभावन्न करणत्वमिति भावः । यदा तु यागादिकमेव पुण्यशब्देन विवक्ष्यते, तदा तस्य व्यापारवत्त्वमस्त्येवेतिकर्तृकरणयो॑रित्यनेनैव तृतीया सिद्धा । गुणविषये तुपुण्येन गौरवर्ण॑इत्याद्युदाहार्यम् ।जटाभिस्तापस॑इत्यादौ तु लक्ष्यलक्षणभावविवक्षायां हेतुत्वाऽविवक्षणादनेनाऽप्राप्ता तृतीयेतिइत्थम्भूतलक्षणे॑इत्यारब्धमित्याहुः । अत्र केचिदुत्प्रेक्षन्ते द्रव्यादिसाधारणत्वाद्धेतुत्वस्यहेतौ॑इत्यनेनैवबाणेन हत॑ इत्यादिप्रयोगसिद्धेःकर्तृकरणयो॑रिति सूत्रे करणग्रहणं त्यक्तुं शक्यम्, करणसंज्ञा तु आवश्यकीकरणाधिकरणयोश्चे॑त्याद्यर्थमिति । अन्ये तु क्रियासाधकतमं यत्तद्द्यापारवत्त्वेन विवक्षितं चेत् करमं, नो चेद्धेतुः । द्रव्यसाधकतमस्य दण्डादेस्तु व्यापारवत्त्वेऽपि हेतुत्वमेव । एवं चरामेण बाणेन हत॑इत्यादौ हनने बाणादिर्निमित्तमित्येतावदेव यदा विवक्ष्यते, तदाहेतौ॑ इत्यनेनैव तृतीया ।बाणव्यापारसाध्यप्राणवियोगाश्रयः॑इत्येवं व्यापाराविष्टत्वेन विवक्षायां तु हेतुत्वाऽविवक्षणात्कर्तृकरणयोः — -॑इति करणे तृतीया आरब्धेत्याहुः । फलमपीति । एतच्चप्रत्ययः॑इत् सूत्रे कैयटे स्पष्टम् । अध्ययनेनेति । तादथ्र्यविवक्षायां चतुथ्र्यपि भवतीति चतुथ्र्या सहेयं तृतीया विकल्प्यते । अध्ययनाय वसति । अत्र केचित्परिष्कुर्वन्ति — -॒अध्ययनेन वसती॑त्यत्रदण्डहेतु को घट॑इतिवदध्ययनहेतु को निवास इत्यर्थस्वीकारेऽप्ययं विशेषः, — -अध्ययनस्या फसेन सहाऽभेदः संसर्गः, उपकारकत्वेन सह तु निरूपकता । ततश्च फलाभिन्नाऽध्ययननिरूपितोपकारकत्वाश्रयनिवसनानुकूलो व्यापारः॑इत्यर्थः ।दण्डेन घटः॑इत्यत्र तु दण्डनिष्ठोपकारकत्वनिरूपितोपकार्यत्वाश्रयो घट इत्यर्थः । उपकार्यं हि साध्यम् । फलमपि तदेवेति । गम्यमानापीति ।अपि॑शब्देन श्रूयमाणक्रिया समुच्चयते । नकेवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किंतु गम्यमानाऽपीति भावः । साधनेति ।साध्य.॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थंत प्रतीति भावः । अशिष्टेति । एतच्चदाणश्च सा चेच्चतुथ्र्यर्थ॑इत्यनेन ज्ञाप्यते इति मनोरमायां स्थितम् । केचिदिह परिष्कुर्वन्ति — ॒अशिष्टव्यवहार॑इत्यंशो वाचनिक एव, अन्यांशस्तु ज्ञापकसिद्धः॑इति । दास्या संयच्छते इति ।दाणश्च सा चे॑दिति तङ् ।पाघ्रध्मे॑ति यच्छादेशः । कामुक इति ।लषपतपदे॑त्यादिना कमेरुकञ् । इति तृतीया ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
हेतौ 481 (311 उपपदतृतीयासूत्रम् ।। 2।3।2 आ.6) (1499 वार्तिकम् ।। 1 ।।) - निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् - (भाष्यम्) निमित्तकारणहेतुषु सर्वाः प्रायेण दृश्यन्त इति वक्तव्यम्। किं निमित्तं वसति। केन निमित्तेन वसति। कस्मै निमित्ताय वसति। कस्मान्निमित्ताद्वसति। कस्य निमित्तस्य वसति। कस्मिन्निमित्ते वसति। किं कारणं वसति। केन कारणेन वसति। कस्मै कारणाय वसति। कस्मात्कारणाद्वसति। कस्य कारणस्य वसति। कस्मिन्कारणे वसति। को हेतुर्वसति। किं हेतुं वसति। केन हेतुना वसति कस्मै हेतवे वसति। कस्माद्धेतोर्वसति। कस्य हेतोर्वसति। कस्मिन्हेतौ वसति।। हेतौ ।। 23 ।।