॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|22
SK 567
2|3|22
संज्ञोऽन्यतरस्यां कर्मणि   🔊
SK 567
सूत्रच्छेद:
संज्ञः - षष्ठ्येकवचनम् , अन्यतरस्याम् - अव्ययम् , कर्मणि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायाम् अन्यतरस्यां तृतीयाविभक्तिर् भवति। पित्रा सञ्जानीते, पितरं सञ्जानीते। मात्रा सञ्जानीते, मातरं सञ्जानीते।
`मात्रा सञ्जानीते` इति। `ज्ञाननोर्जा` 7|3|79 इति जादेशःक, `ई हल्यघोः` 6|4|113 इतीत्वम्, `संप्रतिभ्यामनाध्याने` 1|3|46 इत्यात्मनेपदम्। आध्याने तु `अधीगर्थदयेशां कर्मणि` 2|3|52 इति परत्वात् षष्ठी भवति-- मातुः सञ्जानातीति। कृत्प्रयोगे चानाध्यानेऽपि `कर्त्तृकर्मणोः कृति` 2|3|65 इति परत्वात् षष्ठएव भवति-- संज्ञातेति॥
संज्ञोऽन्यतरस्यां कर्मणि॥ संजानीत इति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यात्मनेपदम्, ठ्ज्ञाजनोर्जाऽ इति जादेशः। आध्याने तु ठधीगर्थदयेशाम्ऽ इति षष्ठी भवति---मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी भवति---मातुः संज्ञातेति॥
सिद्धान्तकौमुदी
संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥
संज्ञोऽन्यतरस्यां कर्मणि - संज्ञोऽन्यतरस्यां । संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठएकवचनं "संज्ञ" इति, तदाह — संपूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । संजानीते इति । सम्यक् जानीते इत्यर्थः ।संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदम् ।
संज्ञोऽन्यतरस्यां कर्मणि - संज्ञो ।ज्ञा अवबोधने॑इत्ययमेव गृह्रते न तुजनी प्रादुर्भावे॑इति, तस्याऽकर्मकत्वात् । ङसः प्राग्भागस्यज्ञ॑इत्यस्यअल्लोपोऽनः॑इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह — जानातेरिति । संजानीत इति ।संप्रतिभ्यामनाध्याने॑इति तङ् । कृद्योदे परत्वात्कर्तृकर्मणोः॑ इति षष्ठएव,पितुः संज्ञाता॑ । आध्याने तुपित्रा पितरं वा सञ्जानाति॑ । हरदत्तस्त्वाह — आध्याने तु परत्वादधीगर्थेति षष्ठी — मातुः संजानातीति, तन्न । तत्र शेषाधिकारादिति मनोरमायां स्थितम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
संज्ञोन्यतरस्यां कर्मणि 480 (310 तृतीयासूत्रम् ।। 2।3।2 आ.5) (विप्रतिषेधाधिकरणम्) (1497 वार्तिकम् ।। 1 ।।) - संज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन- (भाष्यम्) संज्ञोन्यतरस्यां कर्मणि इत्येतस्मात्कृद्योगे षष्ठी भवति विप्रतिषेधेन। संज्ञोन्यतरस्याम् इत्यस्यावकाशः ‐ मातरं संजानीते मात्रा संजानीते। कृत्प्रयोगे षष्ठ्या अवकाशः ‐ इध्मप्रव्रश्चनः पलाशशातनः। इहोभयं प्राप्नोति ‐ मातुः संज्ञाता पितुः संज्ञाता इति। षष्ठी भवति विप्रतिषेधेन।। (1498 वार्तिकम् ।। 2 ।।) - उपपदविभक्तेश्चोपपदविभक्तिः - (भाष्यम्) उपपदविभक्तेश्चोपपदविभक्तिर्भवति विप्रतिषेधेन। अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते इत्यस्यावकाशः ‐ अन्यो देवदत्तात्। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्यस्यावकाशः ‐ गोषु स्वामी गवां स्वामी। इहोभयं प्राप्नोति ‐ अन्यो गोषु स्वामी अन्यो गवां स्वामी। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्येतद्भवति विप्रतिषेधेन।। (बाधकभाष्यम्) नैष युक्तो विप्रतिषेधः। नह्यत्र गावोऽन्ययुक्ताः।। कस्तर्हि?। स्वामी।। (वार्तिकोदाहरणान्तरभाष्यम्) एवं तर्हि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् इत्यस्यावकाशः ‐ तुल्यो देवदत्तस्य। तुल्योदेवदत्तेन। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्यस्यावकाशः ‐ स एव। इहोभयं प्राप्नोति ‐ तुल्यो गोभिः स्वामी तुल्यो गवां स्वामी। तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् इत्येतद्भवति विप्रतिषेधेन।। संज्ञोन्य ।। 22 ।।