॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|2
SK 537
2|3|2
कर्मणि द्वितीया   🔊
SK 537
सूत्रच्छेद:
कर्मणि - सप्तम्येकवचनम् , द्वितीया - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः। कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति। कटं करोति। ग्रामं गच्छति। उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु। द्वितीया आम्रेडितान्तेषु ततो ऽन्यत्र अपि दृश्यते। उभयतो ग्रामम्। सर्वतो ग्रामम्। धिग् देवदत्तम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो ग्रामम्। अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते। अभितो ग्रामम्। परितो ग्रामम्। समया ग्रामम्। निकाषा ग्रामम्। हा देवदत्तम्। बुभुक्षितं न प्रति भाति किञ्चित्।
द्वितीया तिङविभक्तिरप्यस्तीति तस्या अप्यत्र ग्रहणमिति कस्यचिदाङ्का स्यात्, अतस्तन्निराकर्तुमाह-- `द्वितीयादयः शब्दाः` इत्यादि। कर्मशब्देनेह साधनं कर्म गृह्रते, न तु क्रियाकर्म। तथा हि - ये विभक्त्यर्था एकत्वादयस्तेषां विशेषणत्वेनैव कर्मादयोऽनुक्रंस्यन्ते। न च क्रियाकर्मणि द्वित्वबहुत्वे स्तः; साधनकर्मणि तु विद्येते, तस्मात् तस्यैव ग्रहणं युक्तम्, नेतरस्य।`उभसर्वतसोः`इत्यादि। उभसर्वशब्दयोस्तसिप्रत्ययान्तयोः प्रयोगे द्वितीयाविभक्तिः कार्याः। शेषलक्षणायां षष्ठआं प्राप्तायामयमारम्भः। उभसर्वतसोरित्यत्र यद्युप्यभशब्दः पठितस्तथापि सामथ्र्यादुभयशब्दो गृह्रते; साधम्र्यात्। न ह्रुभशब्दस्तसिप्रत्ययान्तोऽस्ति; तस्य नित्य्दविवचनटाब्विषयत्वात्। तथा चोक्तम्-- `अन्यभावो नि#एत्यद्विवुचनटाब्विषयत्वादुभयोऽन्यत्र` (1.1.28-वा।8,9) इति। `उभयतः, सर्वतः` इति। `पञ्चम्यास्तसिल्` 5|3|7 । धिक्शब्दयोगेऽपि द्वितीया कार्या। तथोपर्यादिषु त्रिषु योगे द्वितीया कार्या। `आम्रेडितान्तेषु`इति। कृतद्विर्वचनेष्वित्यर्थः। `उपर्युयरि ग्रामम्` इत्यादौ `उपर्यध्यधसः सामीप्ये` 8|1|7 इति द्विर्वचनम्। `ततोऽन्यत्रापि दृश्यते` इति। यथोक्तादन्यत्रापि दृश्यते द्वितीयेति सम्बन्धः। क्व चान्यत्र दृश्यत इत्यत आह-- `अभितः` इत्यादि। `प्रयभिभ्याञ्च` 5|3|9 इति तसिः। अपिशब्दो विकल्पार्थः। अपि दृश्यतेऽपि न दृश्यतेच। तेन हा तात हा मातरित्यादि सिध्यति॥
कर्मणि द्वितीया॥
सिद्धान्तकौमुदी
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥
कर्मणि द्वितीया - कर्मणि द्वितीया । "अनभिहिते" इत्यनुवृत्तं व्याचष्टे — अनुक्ते इति । हरिं भजतीति । तुष्टनुकूलपरिचरणात्मकव्यापारो भजेरर्थः । पूजादिव्यापारेण हरि #ं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्ठतुष्टनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः ।बावप्रधानमाख्यात॑मिति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्ठतुष्टनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसंमतो नादर्तव्य इति मञ्जूषादौ प्रपञ्चितम् । अबिहिते त्विति । "हरिः सेवय्ते" इत्यादा॑विति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराऽभावात्अबिहिते प्रथमे॑ति वार्तिकाच्चाति भावः । अत्र भाष्येकटं करोति भीष्ममुदारं दर्शनीयं शोभन॑मित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्यतिङ्कृत्तद्धितसमासैरबिधान॑मिति परिगणितम् । तत्रप्रायेणे॑त्यध्याह्मत्याह — अभिधानं चेति ।समासै॑रित्यनन्तरंविवक्षित॑मिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रधर्शनाय । हरिः सेव्यत इति ।लः कर्मणी॑ति कर्मणि॑ लकारः । "भावकर्मणोः" इत्यात्मनेपदम् । तिङन्तेनाऽभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्मलकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिवदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति ।हरि॑रिति शेषः । भूते कर्मणि क्तः , कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टआश्रयो हरिरिति बोधः । सत्त्वप्रधानानि नामानीति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यक बोधस्यैव सर्वसंमतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शत्य #इति । पटादिरिति शेषः । "शताच्च ठन्यतावशते" इति यत्प्रत्ययस्तद्धितः । अत्र कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः ।गत्यर्थाकर्मके॑त्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थस्य कर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूत इति बोधः ।प्रायेणे॑त्यस्य फलं दर्शयति-क्वचिदिति ।विषवृक्षो ।पी॑तिअसाम्प्रत॑मित्यत्रान्वेति ।संबध्र्ये॑त्यत्रछेत्तु॑मित्यत्र चान्वये द्वितीयापत्तेः । तत्रत्वर्थाद्विषवृक्षमिति गम्यते । न सांप्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थ इति । युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् ।युक्ते द्वे साम्प्रतं स्थाने॑ इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तुछेत्तु॑मिति तुमुन्नत्र दुर्लभः ।कृष्णं द्रष्टुं याती॑त्यत्रेव क्रियार्थक्रियोपपदत्वाऽभावेनतुमुन्ण्बुलौ क्रियायां क्रियार्थाया॑मित्यस्याऽप्रवृत्तेः ।शकधृषे॑त्यादिनापि तुमुन्न, शकादियोगाऽभावात् । किंतु "इच्छार्थेषु" इत्यनुवृत्तौसमानकर्तृकेषुतुमुन्, इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथाइच्छति भोक्तु॑मित्यादि । एवंच तुमुनः साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संबध्र्य छेत्तुमिष्यत इति यत्तदसांप्रतम्ायुक्तमित्यर्थः । एवं चात्रापि तिङाभिहितत्वादेव द्वितीयानिवारणात्तिङ्कृद्धितसमासैरभिधानमिति परिगणनवार्तिकेप्रायेणे॑त्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्त इत्यत्र तु पचिभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् । ननु यथाबहुपटु॑रित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात्कल्पबादयो न भवन्ति तथा "क्रियते कट" इत्यादावपि तिङादिभिरुक्तत्वाद्द्वितीयादयो न भविष्यन्ति,उक्तार्थानामप्रयोगः॑ इति न्यायात् । किंचकटं करोती॑त्यादौ सावकाशा द्वितीया "कृतः कटः" इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः प्लक्ष इत्यादिः प्रथमाया अवकाश इति वाच्यं, तत्र गम्यमस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः, तथाप्युभयोः सावकाशत्वे परत्वात्प्रथमैव स्यात् । एवं चानभिहीताधिकारो व्यर्थ इति चेत्, मैवम्-॒कर्मणि द्विताये॑त्यादीनांद्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मित्यनयोश्चएकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्रअनभिहिते॑इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् ।अनभिहिते॑इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति "कृतः कट" इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । न च प्रथमाया निरवकाशत्वं शङ्क्यं, नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः सावकाशत्वात् । नापि तत्र परत्वात्प्रथमैव भविष्यतीति वाच्यं, "कर्तव्यः कटः" इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थ॑ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः "अनभिहिते" इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः ।
कर्मणि द्वितीया - हरिं भजतीति । भजनक्रियया हरौ प्रीतेरुत्पादात्प्रीतिविशिष्टतया कियाव्याप्यत्वेन हरिः कर्म, तद्विशिष्टं भजनं वाक्यार्थः । हरिनिष्ठप्रीत्यनुकूल एकद्वदत्तादिनिष्ठो वर्तमानो व्यापार इति निष्ष्टोऽर्थः ।हरिः सेव्यत॑इत्यत्राप्येवमेव,क्रियाप्रधानमाख्यातम्इति सिद्धान्तात् । धातूपस्थिता क्रिया तिङ्र्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः । अतएवपाचको व्रजती॑तिवत्पचति व्रजतीति नैकं वाक्यम् । पाककर्तृकर्तृकं गमनं हिपाचको व्रजतो॑त्यस्यापर्थः । एककर्तृका पचिक्रिया, एक कर्तृका गमिक्रियेति पचतिव्रजत्योः पृथगेवाऽर्थः । एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्धोषो भाष्याद्यनुसारिभिर्नादर्तव्यः । तन्मते हि पाककर्ता व्रजनानुकूलकृतिमानितिपाचको व्रजती॑त्यस्यार्थः । पचतिव्रजत्योस्तु पाकानुकूला कृतिव्र्रजतीत्यर्थ इत्येवं रूपेण वाक्यार्थपर्यवसानात्, तस्य च भाष्यादिग्रन्थविरोधात् । किञ्च हरिं भजति देवदत्तः, हरि सेव्यते देवदत्तेनेत्यत्र चैकरूप एव शाब्दबोध इत्युक्तम् । नैयायिकानां मते तु भिद्यत एव,हरिनिष्ठप्रीत्यनुकूलकृत्याश्रयो देवदत्तः॑देवदत्तनिष्ठकृतिजन्यप्रीत्याश्रयो हरि॑रित्युभयत्र भेदेन वाक्यार्थपर्यवसानात् । तस्मात्प्रथमान्तविशेष्यकबोधोभाष्याद्यनुसारिभिर्नादत्र्तव्य एव । यास्कोऽप्याह — — ॒भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि॑इति ।पश्य मृगो धावती॑त्यादौ तु भृगकर्तृकं गमनं दृशिक्रियैव । उक्तं च — -॒सुबन्तं हि यथाऽनेकं, तिङ्न्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्इति । न च लौकिकप्रयोगेषु तिङन्तस्य कतिङन्तविशेषणत्वं दुर्लभमिति मन्तव्यम् ।पुरीमवस्कन्द लुनीहि नन्दनम्इति माघश्लोकस्य पुर्यवस्कन्दननन्दनलवनादिरूपा अस्वास्थ्यक्रियेत्यर्थ इतिसमुच्चयेऽन्यतरस्याम्इति सूत्रे मूले स्फुटीभविष्यमाणत्वात् । एवं चपचति — भवती॑त्यस्य पचिक्रिया भवतीत्यर्थो भाष्यमते बोध्य इति दिक । अभिहिते त्विति । नन्वेवंपक्वमोदनं भुङ्क्ते॑इत्यत्रापि द्वितीया न स्यादिति चेत् । मैवम् । इह हि पाचेभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानभूतभुजिक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयत्पत्तेः । अतएवआसने आस्ते॑इत्यत्र सप्तमी सङ्गच्छते । ल्युटाऽधिकरणत्वस्योक्तत्वेऽपि तिङन्तोपस्थाप्यक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वात् । शत्य इति ।शताच्च ठन्यताशते॑इति यत् । प्राप्तानन्द इति । इहगत्यर्थाकर्मके॑ति कर्तरि क्तः । आनन्दकर्तृकप्राप्तिकर्मीभूतैत्यर्थः । यदुक्तंप्रायेण॑ति तस्य फलमाह — क्वचिन्निपातेनेति । विषवृक्ष इति ।संवध्र्ये॑त्यत्रछेत्तुमित्यत्र चार्थद्विषवृक्षमिति गम्यत इत् ध्येयम् । युज्यत इत्यर्थ इति । एतेन निपातानां द्योतकत्वमेवेति नियमो नास्तीति ध्वनितम् । तथा युक्तम् । तथेत्युक्ते कथं युक्तमिति जिज्ञासायामाह — ।
लघुसिद्धान्तकौमुदी
अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजति। अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते। लक्ष्म्या सेवितः॥
महाभाष्यम्
कर्मणि द्वितीया 430 294 द्वितीयनियमसूत्रम् ।। 2।3।1 आ.2।। (शेषपूरणाधिकरणम्) 1469 द्वितीयाविधायकवार्तिकम् ।। 1 ।। समयानिकषाहायोगेषूपसंख्यानम् (भाष्यम्) समयानिकषाहायोगेषूपसंख्यानं कर्तव्यम्। समया ‐ समया ग्रामम्। समया।। निकषा ‐ निकषा ग्रामम्। निकषा।। हायोगे ‐ हा देवदत्तम्, हा यज्ञदत्तम्।। (भाष्यम्) अपर आह ‐ (1470 द्वितीयाविधायकवार्तिकान्तरम् ।। 2 ।।) - द्वितीयाविधानेऽभितः परितः- समयानिकषाऽध्यधिधिग्योगेषूपसंख्यानम् - (भाष्यम्) द्वितीयाविधानेऽभितः परितःसमयानिकषाऽध्यधिधिग्योगषूपसंख्यानं कर्तव्यम्। अभितो ग्रामम्। अभितः।। परितो ग्रामम्। परितः।। समया ग्रामम्। समया।। निकषा ग्रामम्। निकषा।। अध्यधि ग्रामम्। अध्यधि।। धिग्जाल्मम्। धिग् वृषलम्। धिग्।। (भाष्यम्) अपर आह ‐ (1471 द्वितीयाविधायकवार्तिकान्तरम् ।। 3 ।।) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते। उभसर्वःथ्द्य;त्येताभ्यां तसन्ताभ्यां योगे द्वितीया वक्तव्या। उभयतो ग्रामम्। सर्वतो ग्रामम्।। धिग्योगे ‐ धिग् जाल्मम् धिग् वृषलम्।। उपर्यादिषु त्रिष्वाम्रेडितान्तेषु द्वितीया वक्तव्या। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोधो ग्रामम्।। ततोन्यत्रापि दृश्यते। न देवदत्तं प्रति भाति किंचित्। बुभुक्षितं न प्रति भाति किंचित् ।। कर्मणि द्वि।। 2 ।