॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|17
SK 584
2|3|17
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु   🔊
SK 584
सूत्रच्छेद:
मन्यकर्मणि - सप्तम्येकवचनम् , अनादरे - सप्तम्येकवचनम् , विभाषा - प्रथमैकवचनम् , अप्राणिषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मन्यतेः कर्मणि मन्यकर्मणि। मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर् भवति अनादरे गम्यमाने। अनादरस्तिरस्कारः। न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये। न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये। मन्यतिग्रहणं किम्? न त्वा तृणं चिन्तयामि। विकरणनिर्देशः किम् अर्थः? न त्वा तृणं मन्वे। अनादरे इति किम्? अश्मानं दृषदं मन्ये मन्ये कष्ठमुलूखलम्। अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति। अप्रानिषु इति किम्? न त्वा शृगालं मन्ये। यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यम्। व्यवस्थितविभाषा च ज्ञेया। न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यम्। न त्वा ऽन्नं मन्ये यावन् न भुक्तं श्राद्धम्। प्राणिषु तूभयम्। न त्वा काकं मन्ये। न त्वा शृगालं मन्ये। इह चतुर्थी द्वितीया च भवतः न त्वा श्वानं मन्ये, न त्वा शुने मन्ये। युष्मदः कस्मान् न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म? व्यवस्थितविभाषाविज्ञानादेव न भवति।
`अनादरस्तिरस्कारः` इति। अत्रैवानादरशब्दस्य रूढत्वात्। तिरस्कारः = परिभवः, अवज्ञानमित्यर्थः। ` न त्वा तृणाय मन्ये` इति। तृणादपि निकृष्टतरं त्वामहं इत्यर्थः। ` विकरणनिर्देशः किमर्थः` इति। `मनिकर्मणि` इति कस्मान्नोक्तम्? एव हि लघु सूत्रं भवतीति? `मन ज्ञाने` (धातुपाठः-1176) इत्यस्य दैवादिकस्य ग्रहणं यथा स्यात्, `मनु बोधने` (धातुपाठः-1471) इत्यस्य तानादिकस्य ग्रहणं मा भूदित्येवमर्थो विकरणनिर्देश इति दर्शयितुमाह- `न त्वां तृणं मन्वे` इति।`अश्मानं दृषदं मन्ये` इत्यादौ यथाव्यवस्थितस्य वस्तुनः स्वरूपमाविष्क्रियत इत्यत्रानादरो न गम्यते। `येदतदप्राणिष्विति तदनावादिष्विति वक्तव्यम्` इति। अप्राणिग्रहणपनीयनावादिग्रहणं कत्र्तव्यमित्यर्थः। यथान्यासे हि न त्वा नावं मन्य इत्यत्र चतुर्थी स्यात्। न त्वा शुने मन्य इत्यत्र चतुर्थी न स्यादित्यभिप्रायः॥
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु॥ मन्यतेः कर्म मन्यकर्मेति। ठ्मन ज्ञानेऽइत्यस्य दैवादिकस्य धातोः श्यना उपलक्षणम्, न तु प्रयोगस्थस्य श्यनन्तस्यानुकरणमित्यर्थः। तेन श्यनोऽभावेऽपि भवति---ठ्तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्ऽ इति। श्याना तु तानादिकस्य ठ् मनु अवबोधनेऽ इत्यस्यैव निरासः। अनादरस्तिरस्कार इति। न त्वादराभावमात्रम्, कथम्? अनृतादिवन्नञः प्रतिपक्षवाचित्वादिति भावः। मन्यकर्मणि प्रकृष्टकुत्सितग्रहणमिति वार्तिकम्, यद्वाचिनश्चतुर्थी विधीयते ततः प्रकर्षेण यदि कुत्सा प्रतिपादयितुमिष्यते तदा चतुर्थी भवति, न तु सामान्यविवक्षायाम्। तेन प्रतिषेधयुक्तायां कुत्सायां चतुर्थीविधानं संपद्यत इति मत्वाह---न त्वा तृणायेति। ठ्मन्यकर्मण्यनादर उपमाने विभाषा प्राणिषुऽ इति आपिशलिरधीते स्म, न तत्र प्रतिषेधापेक्षा, तथा च भट्टिप्रयोगो निदर्शनीयः। अश्मानं द्दषदमित्यादि। तत्वाख्यानमेतत्। यस्य माता न पश्यतीति। दर्शनयोग्यम्। व्यवस्थितविभाषा चेति। ननु येषु प्राणिषु नेष्यते, ते नावादयो भविष्यन्तीति किं व्यवस्थितविभाषया? वृत्तिकार एवात्र साक्षात्प्रयोजनं वक्ष्यति। नत्वा नावमिति। नावा तार्यमुदकं नाव्यं तद्यदैव तीर्णं तदैव नावमपि सन्तीं त्वां नाहं नावं मन्ये, प्रयोजनस्य निष्पन्नत्वादिति भावः। एवं यावन्नभुक्तं श्राद्धिमित्यत्रापि द्रष्टव्यम्। प्राणिषु तूभयमिति। विषयविभागेन। एतदपीति। एतदेव साक्षात्प्रयोजनमन्यत्र नावादित्वादेव सिद्धेरित्यवोचाम॥
सिद्धान्तकौमुदी
प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् ॥अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम् (वार्तिकम्) ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु - मन्यकर्मणि ।अप्राणिष्वि॑ति च्छेदः । "मन ज्ञाने" दिवादिः, श्यन्विकरणः, "मनु अवबोधने" तनादिरिविकरणः । तत्र मन्येति श्यना निर्देशाद्दैवादिकस्य ग्रहणमित्याह-मन्यतेरिति । कर्मणीति । अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । "अनादारे" इत्यस्य व्याख्यानमेतत् ।अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इत्यमरः । न त्वां तृणमिति । हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः । नञुपादानादयमर्थो लभ्यते । तृणाद्पयधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः ।तृणं त्वां मन्ये तृणाय वे॑त्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः । न च मन्यकर्मत्वाऽविशेषात्त्वमिति युष्मच्छब्दादपि चतुर्थी शङ्क्या, अनादरद्योतके कर्मणीत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्रत्रानादरद्योतकं, न तु युष्मदर्थः । श्यनेति । तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति । मनुधातोरुविकरणस्य लडुत्तमपुरुषैकवचनम् । ननुन त्वां नावमन्नं मन्ये॑ इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः,न त्वां शुने मन्ये॑ इत्यादौ तु प्राणित्वाच्चतुर्थीविकल्पो न स्यादित्यव्याप्तिः , कर्मणः प्राणित्वादित्यत आह — अप्राणिष्वित्यपनीयेति । न त्वां नावं मन्ये इति । जीर्णां नावं प्रति वाक्यमेतत् । न त्वामन्नं मन्ये इत्यप्युदाहार्यम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किंतु द्वितीयैवेति भावः । न त्वां शुने मन्ये इति । हे देवदत्त । त्वां आत्वेनापि न मन्ये इत्यर्थः । न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम् । एषु प्राणित्वेऽपि न चतुर्थीविकल्प इति भावः ।
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु - श्यना निर्देशादिति । न च मन्य इति यका निर्देशः किं न स्यादिति वाच्यम्, अनभिहित इत्यधिकारात् । न हि यका योगे अनभिहितं कर्म संभवति । श्यन्नपि दैवादिकारधातूपलक्षणमात्रं, न तु स्वयं विवक्षितः । तेनतृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत् इति भट्टिप्रयोगः सङ्गच्छते ।नौकाकान्नशुकश्रृगालवज्र्येष्विति वाच्यम् । नौकाकान्नेति । व्यवस्थितविभाषा विज्ञातव्येति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु 475 (305 कारकचतुर्थीसूत्रम् ।। 2।3।1 आ 13) (इष्टोपपादनाधिकरणम्) (आक्षेपभाष्यम्) अप्राणिष्वित्युच्यते तत्रेदं न सिध्यति ‐ न त्वा श्वानं मन्ये, न त्वा शुने मन्ये इति।। (समाधानभाष्यम्) एवं तर्हि योगविभागः करिष्यते ‐ मन्यकर्मण्यनादरे विभाषा ततः अप्राणिषु अप्राणिषु च विभाषेति। (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नोति ‐ न त्वा काकं मन्ये, न त्वा शुकं मन्य इति।। (समाधानभाष्यम्) यदेतद् अप्राणिषु इति, एतद्, अनावादिषु इति वक्ष्यामि। इमे च नावादयो भविष्यन्ति। न त्वा नावं मन्ये यावत्तीर्णं न नाव्यम्। न त्वान्नं मन्ये यावद् भुक्तं न श्राद्धमिति। अत्र येषु प्राणिषु नेष्यते ते नावादयो भविष्यन्ति।। (1491 वार्तिकम् ।। 1 ।।) - मन्यकर्मणि प्रकृष्य कुत्सितग्रहणम् - (व्याक्याभाष्यम्) मन्यकर्मणि प्रकृष्य कुत्सितग्रहणं कर्तव्यम्। इह मा भूत् ‐ त्वां तृणं मन्य इति।। मन्यकर्म ।। 17 ।। इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।