Page loading... Please wait.
2|3|10 - पञ्चमी अपाङ्परिभिः
॥ तस्मै पाणिनये नमः ॥
2|3|10
SK 598
पञ्चमी अपाङ्परिभिः   🔊
सूत्रच्छेदः
पञ्चमी (प्रथमैकवचनम्) , अप-आङ्-परिभिः (तृतीयाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अप आङ् परि इत्येतैः कर्मप्रवचनीयैर् योगे पज्चमी विभक्तिर् भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परि त्रिगर्तेभ्यो वृष्तो देवः। अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम्, तेन इह न भवति, वृक्षं परि विद्योतते विद्युत्।
अपपरिशब्दयोः `अपपरी वर्जने` 1|4|87 इत्यनेन कर्मप्रवचनीयसंज्ञा विहिता, आङश्च `आङमर्यादावचने` 1|4|88 इत्यनेन। `वृक्षं परि विद्योतते` इति। परिः `लक्षणेत्यम्भूतख्यान` 1|4|89 इत्यादिना॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥
पञ्चमी अपाङ्परिभिः - पञ्चम्यपाङ्परिभिः । एतैरिति । अप आङ् परि-इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ।कर्मप्रवचनीययुक्ते॑ इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः परि हरेः संसार इति । अपहरेः संसारः, परिहरेः संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननुवृक्षं प्रति विद्योतते॑, "भक्तो हरिं प्रति" इत्यादौलक्षणेत्थंभूते॑ति कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीया॑ इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वापञ्चम्यपाङ्परिभि॑रिति पञ्चमी स्यादित्यत आह — परिरत्रेति "पञ्चम्यपाङ्परिभिः" इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः । आ मुक्तेरिति । मुक्तेः प्रागिति यावत् । आ सकलादिति । ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः ।
पञ्चमी अपाङ्परिभिः - परिहरेरिति । हरिं वर्जयित्वेत्यर्थः ।परेर्वर्जने वा वचनम् इति वार्तिकात्पक्षे द्विर्वचनाऽभावः । परिरत्रेति । अत्र=पञ्चमीविधौ । वर्जनार्थेनाऽपेन साहचर्यादिति भावः । आ मुक्तेरिति । मुकिंत मर्यादीकृत्येत्यर्थः । आ सकलादिति । सकलमभिव्याप्येत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.