॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|8
SK 702
2|2|8
षष्ठी   🔊
SK 702
सूत्रच्छेद:
षष्ठी - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः राजपुरुषः। ब्राह्मणकम्बलः। कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रब्रश्चनः। पलाशशातनः। किम् अर्थम् इदम् उच्यते? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः।
`कृद्योगा च` इत्यादि। `कृद्योगलक्षणा षष्ठी समस्यते` इति व्याख्येयम्। तत्रेदं व्याख्यानम्-- यदयं `क्तेन च पूजायाम्` 2|2|12 `अधिकरणवाचिना च` 2|2|13 `कर्मणि च` 2|2|14 `तृजकाभ्यां कर्तरि च {च नासति सूत्रे}` इति निषेधमारभते, तज्ज्ञापयति -- `कृद्योगा या षष्ठी सा समस्यते` इति ; अन्यथा प्रतिषेधारम्भोऽनर्थकः स्यात्; प्राप्त्यभावात्। `इध्मप्रव्रश्चः` इति। करण ल्युट्। `कृत्युल्युटो बहुलम्` 3|3|113 इति कत्र्तरि वात। `कर्त्तृकर्मणोः कृति` 2|3|65 इति कर्मणि षष्ठी। पलाशशातनः` इति। शदेण्र्यन्तस्य `शदेरगतौ तः` 7|3|42 इति दकारस्य तकारः। पूर्ववल्ल्युट्, षष्ठी च। किमर्थमित्युच्यते, यावता षष्ठीत्यनेनैव कृद्योगलक्षणाया अपि षष्ठ्याः समासः सिद्धः एवेत्यत आह- `प्रतिपदविधाना च` इत्यादि। सुबोधम्।
षष्ठी॥ कृद्योगा चेत्यादि। ठ्कर्तृकर्मणोः कृतिऽ इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। ठोव्रश्चू च्छेदनेऽ, ठ्करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्तेउपात्यन्ते येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिद्धिं मन्वानस्य प्रश्न। प्रतिपदविधाना चेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां तत्रैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः॥
सिद्धान्तकौमुदी
राज्ञः पुरुषो राजपुरुषः ॥
षष्ठी - षष्ठी । षष्ठन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिंत प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः ।
षष्ठी - राजपुरुष इति । राजन् अस् — पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः ।
लघुसिद्धान्तकौमुदी
सुबन्तेन प्राग्वत्। राजपुरुषः॥
महाभाष्यम्
षष्ठी (428) (273 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 2 । 1 आ.7) (इष्टानुपपत्तिनिराकरणाधिकरणम्) (1346 समासप्रतिप्रसववार्तिकम् ।। 1 ।। ।। कृद्योगा च ।। कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रव्रश्चनः। पलाशशातनः।। (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?।। (समाधानभाष्यम्) प्रतिपदविधाना च षष्ठी न समस्यते। इति वक्ष्यति। तस्यायं पुरस्तादपकर्षः।। (आक्षेपभाष्यम्) का पुनः षष्ठी प्रतिपदविधाना, का च कृद्योगा?।। (समाधानभाष्यम्) सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा। कर्तृकर्मणोः कृति इति तु या षष्ठी सा कृद्योगा।। (1347 समासप्रतिप्रसववार्तिकम् ।। 2 ।।) ।। तत्स्थैश्च गुणैः ।। (भाष्यम्) तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्। ब्राह्मणवर्णः। चन्दनगन्धः। पटहशब्दः। नदीघोषः।। (1348 समासनिषेधवार्तिकम् ।। 3 ।।) ।। न तु तद्विशेषणैः ।। (भाष्यम्) न तु तद्विशेषणैरिति वक्तव्यम्। इह मा भूत् ‐ घृतस्य तीव्रो गन्धः। चन्दनस्य मृदुरिति।। (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?।। (समाधानभाष्यम्) गुणेन नेति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः।। (आक्षेपभाष्यम्) किं पुनः कारणं गुणेन नेत्युच्यते, न पुनर्गुणवचनेन नेत्युच्येत?।। (समाधानभाष्यम्) नैवं शक्यम्। इह हि न स्यात् ‐ काकस्य कार्ष्ण्यं बलाकायाः शौक्ल्यमिति। एतदेव खल्वपि तस्मिन्योगे उदाहरणम्। यद्धीदं ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णा इति। असार्मथ्यादत्र न भविष्यति।। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।। द्रव्यमत्रापेक्ष्यते दन्ताः।। तस्माद् गुणेन न इति वक्तव्यम्। तत्स्थैश्च गुणैरित्युच्यमाने । न तु तद्विशेषणैः। इति वक्तव्यम्।। षष्ठी ।। 8 ।।