Page loading... Please wait.
2|2|7 - ईषदकृता
॥ तस्मै पाणिनये नमः ॥
2|2|7
SK 755
ईषदकृता   🔊
सूत्रच्छेदः
ईषत् (अव्ययम्) , अकृता (तृतीयैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ईषतित्ययं शब्दो ऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। ईषद्गुणवचनेन इति वक्तव्यम्। ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः। ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेन इति किम्? इह न भवति, ईषद् गार्ग्यः।
`ईषद्गुणवचनेनति वक्तव्यम्` इति। ईषदित्येतदव्ययं समस्यते, न सर्वेणाकृदन्ेतनेत्येतद्रूपं व्याख्येयमित्यर्थः। त्तरेदं व्याख्यानम्-- विभाषेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गुणवचनेनैव समासो भविष्यति, नान्येन। `ईषद्गार्ग्यः` इति। गाग्र्यशब्दऽयं जातिवचनः, न गुणवचनः। नन्वकृतेत्युच्यते, त्तर ईषत्पीतः, ईषदुन्न त इत्यादि न सिध्यति; पीतादिशब्दस्य कृदन्तत्वात्? नैष दोषः; अव्युत्पन्ना ह्रेते पीतादिशब्दा वेदितव्याः; न तु कृदन्ताः॥
ईषदकृता॥ ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनीय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नतित्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चित? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षादियोगः----गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा----गोतरः, गोकल्पः, गोपाश इति॥
सिद्धान्तकौमुदी
ईषत्पिङ्गलः ॥ ।ईषद्गुणवचनेनेति वाच्यम् (वार्तिकम्) ॥ ईषद्रक्तम् ॥
ईषदकृता - ईषदकृता । ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गलं इति । पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ।अकृतेत्यपहाये॑ति शेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इर्षदकृता (427) (272 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.6) (इष्टानुपपत्तिनिराकरणाधिकरणम्) (1345 समासविधानवार्तिकम् ।। 1 ।।) प्र्प्र्। प्र्प्र् इर्षद् गुणवचनेन प्र्प्र्।प्र्प्र् ।। इर्षद् गुणवचनेनेति वक्तव्यम्। अकृतेति ह्युच्यमाने इह च प्रसज्यते ‐ इर्षद्गार्ग्यः, इह च न स्यात् ‐ इर्षत्कडार इति।। इर्षद् ।। 7 ।।