॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|38
SK 751
2|2|38
कडाराः कर्मधारये   🔊
SK 751
सूत्रच्छेद:
कडाराः - प्रथमाबहुवचनम् , कर्मधारये - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गुणशब्दानां विशेषणत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः कर्मधारये समासे वा पूर्वं प्रयोक्तव्याः। कडारजैमिनिः, जैमिनिकडारः। कडार। गुडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर। कर्मधारये इति किम्? कडारपुरुषो ग्रामः।

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः ॥
कडारादयो ये गुणशब्दास्तेषां विशेषणत्वं भवतीत्याह-- `गुणशब्दानाम्` इत्यादि। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यद्वितीयः पादः
कडाराः कर्मधारये॥ बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह---कडारादय इति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां द्वितीयाध्यायस्य द्वितीयः पादः॥
सिद्धान्तकौमुदी
कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कडाराः कर्मधारये (458) (292 पूर्वनिपातसूत्रम् ।। 2।2।2।आ. 11 सू.) (बहुवचनस्याद्यर्थकत्वबोधनाधिकरणम्) (1458 वार्तिकम् 8) ।। कडारादयः ।। (भाष्यम्) कडारादय इति वक्तव्यम्। इहापि यथा स्यात् ‐ गडुलशाण्डिल्यः साण्डिल्यगडुलः। खण्डवात्स्यः। वात्स्यखण्डः ।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?।। (समाधानभाष्यम्) न वक्तव्यम्। बहुवचननिर्देशात् कडारादय इति विज्ञास्यते।। कडाराः ।। 38 ।। इति श्रीमद्भगवत्पतञ्जलिविरचिते द्वितीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।। पादश्च समाप्तः ।।