॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|36
SK 899
2|2|36
निष्ठा   🔊
SK 899
सूत्रच्छेद:
निष्ठा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
निष्ठन्तं च भुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कृतकटः। भिक्षितभिक्षिः। अवमुक्तोपानत्कः। आहूतसुब्रह्मण्यः। ननु च विशेषणम् एव अत्र निष्ठा? न एष नियमः, विशेषणविशेष्यभवस्य विवक्षा निबन्धनत्वात्। कथे कृतम् अनेन इति वा विग्रहीतव्यम्। निष्थायाः पूर्वनिपाते जातिकालसुखादिभ्यः प्रवचनम्। शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजातः। सम्बत्सरजातः। सुखजातः। दुःखजातः। कथं कृतकटः, भुक्तौदनः? प्राप्तस्य चाबाधा व्याख्येया। प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्। अस्युद्यतः। दण्डपाणिः। कथम् उद्यतगदः, उद्यतासिः? प्राप्तस्य चाबाधा व्याख्येया।
`ननु विशेषणमेवात्र निष्ठा` इति। कृतशब्दः क्रियाशब्दः। कटशब्दो द्रव्यवचनः। तत्र यथा गुणो द्रव्यस्य विशेषणं तथा क्रियाऽपि। तथा सति निष्ठान्तस्य विशेषणत्वात् पूर्वेणैव पूर्वनिपातः सिद्धः। कटेकृतमनेनेत्यादिना विग्रहभेदेन निष्ठाया विशेषणत्वाभावं दर्शयति। अत्र विग्रहे सप्तम्यन्तमेव विशेषणम्, निष्ठान्तं विशेष्यम्, सामानाधिकरण्ये हि क्रियागुणौ विशेषणविशेष्यभावौ नियमेनानुभवतः, न हि वैयधिकरण्ये। तथा हि-- पटस्य शुक्लः, काकस्य गतिरित्यत्र गुणादेर्विशिष्येत्वम्, व्यवच्छेद्यत्वात्; द्रव्यस्य तु विशेषणत्वम्, व्यवच्छेदकत्वात्। `निष्ठायाः पूर्वनिपाते` इत्यादि। जात्यादिभ्यो निष्ठान्तं परमुच्यते, तेन तद्व्याख्यानं कत्र्तव्यम्। तत्रेदं व्याख्यानम्-- सारङ्गजग्धी-मासजाता-सुखजातादयः शब्दाः आहितादेराकृतिगणत्वात् तदन्तःपातिनः, तेन जातिकालसुखादिभ्यो निष्ठान्तं परं भवतीति। `सारङ्गजग्धी` इति। सारङ्गशब्दो जातिवचनः। ततः `क्तादल्पाख्यायाम्` 4|1|51 इत्यनुवत्र्तमाने `अस्वाङ्गपूर्वपदाद्वा` 4|1|53 इति ङीष्। `कथं कृतकटः` इति। कटशब्दस्य जातिवाचित्वादिति प्रश्नः। `प्राप्तस्य चाबाधा व्याख्येया` इति। तेन कृतकट इत्यत्र#आपि भविष्यतीति भावः। सा पुनरप्राप्तस्य चाबाधा पूर्ववदेव व्याख्येया। एवमुत्तरत्रापि व्याख्येया। `प्रहरणार्थेभ्यः` इत्यादि। प्रहरणमर्थो येषां ते तथोक्ताः। तेभ्य परे निष्ठासप्तम्यौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अस्युद्यतः, दण्डपाणिरित्येवमादिनां शब्दानामाहिताग्न्यादिषु पाठात् परे निष्ठासप्तम्यौ भवत इति॥
निष्ठा॥ अवमुक्तोपानत्क इति। उरः प्रभृतित्वात्कप्। ननु चेत्यादि। यथा चित्रगुरिति। गुणद्रव्यशब्दयोरुपनिपाते गुणशब्दस्य विशेषणत्वम्, क्रियाद्रव्य शब्दयोरपि क्रियाया एव विशेषणत्वम्। ततश्च पूर्वेणैव सिद्धमिति भावः। विवक्षानिबन्धनत्वादिति। यदा कृत किञ्चिदनेनेति निर्ज्ञाते कट इति प्रयुज्यते तदा कटो विशेषणमिति मन्यते। कटे कटेन कृतमिति वा विग्रहीतव्यमिति। एवं विग्रहे कृतस्य विशेषणत्वशङ्कैव नास्तीति भावः। क्वचितु वाशब्दो न पठ।ल्ते, तत्र विवक्षानिबन्धनत्वादित्युक्ते तामेव विवक्षां दर्शयतीति व्याख्येयम्। जातिकालसुखादिभ्यः परवचनमिति। ज्ञापकात्सिद्धम्, ठ्जातिकालसुखादिभ्योऽनाच्छादनाद्ऽ इत्याह, तज्ज्ञापयति---जात्यादिभ्यः परा निष्ठा निपततीति। शार्ङ्गजग्धीति। शार्ङ्ग जग्घमनयेति बहुव्रीहिः। ठ्क्तादल्पाख्यायाम्ऽ,ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष्। अत्राहुः----निष्ठाशब्देन या विहिता निष्ठा तस्या ग्रहणम्। तेन सुस्थितम्, चारुहसितमित्यादौ ठ्नपुंसके भावे क्तःऽ इत्यस्य परनिपात इति॥
सिद्धान्तकौमुदी
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ॥ ।जातिकालसुखादिभ्यः परा निष्ठा वाच्या (वार्तिकम्) ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥
महाभाष्यम्
निष्ठा (456) (291 पूर्वनिपातनियमसूत्रम् ।। 2।2।2 आ.10) (पूर्वनिपातबाधकाधिकरणम्) (1451 परनिपातवार्तिकम् ।। 1 ।।) ।। निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।। (भाष्यम्) निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवतीति वक्तव्यम्। शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजाता। संवत्सरजाता। सुखजाता। दुःखजाता।। (1452 प्रत्याख्यानवार्तिकम् ।। 2 ।।) ।। न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य ।। (भाष्यम्) न वा वक्तव्यम्। कि कारणम्?। उत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य। यदयं जातिकालसुखादिभ्यः परस्या निष्ठाया उत्तरपदस्यान्तोदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः ‐ परात्र निष्ठा भवतीति।। (1453 आक्षेपवार्तिकम् ।। 3 ।।) ।। प्रतिषेधे तु पूर्वनिपातप्रसङ्गस्तस्माद्राजदन्तादिषु पाठः ।। (भाष्यम्) प्रतिषेधे तु पूर्वनिपातः प्राप्नोति अकृतमितप्रतिपन्नाः इति, तस्माद्राजदन्तादिषु पाठः कर्तव्यः।। ( 1454 पाठकर्तव्यता प्रत्याख्यानवार्तिकम् ।। 4 ।।) ।। नवा प्रतिषेधवचनं ज्ञापकं परभावस्य ।। (भाष्यम्) न वा कर्तव्यः। अत्रापि प्रतिषेधवचनं ज्ञापकम् ‐ परा निष्ठाभवतीति।। (1455 परनिपातवार्तिकम् ।। 5 ।।) ।। प्रहरणार्थेभ्यश्च ।। (भाष्यम्) प्रहरणार्थेभ्यश्च परे निष्ठा सप्तम्यौ भवत इति वक्तव्यम्। अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः।। (विप्रतिषेधाधिकरणम्) (1456 द्वन्द्वेघिसूत्रादजाद्यदन्तसूत्रबलवत्ववार्तिकम् ।। 6 ।। ।। द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ।। (भाष्यम्) द्वन्द्वे घि इत्यस्मात् अजाद्यदन्तम् इत्येतद्भवति विप्रतिषेधेन। द्वन्द्वे घि इत्यस्यावकाशः ‐ पटुगुप्तौ।अजाद्यदन्तम् इत्यस्यावकाशः ‐ उष्ट्रखरौ। इहोभयं प्राप्नोति ‐ इन्द्राग्नी। अजाद्यदन्तम् इत्येतद् भवति विप्रतिषेधेन।। (1457 द्वन्द्वेधिसूत्राजाद्यदन्तसूत्राभ्यामल्पाच्तरसूत्रबलीयस्त्ववार्तिकम् ।। 7 ।।0 ।। उभाभ्यामल्पाच्तरम् ।। (भाष्यम्) उभाभ्याम् अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन। द्वन्द्वे घि इत्यस्यावकाशः ‐ पटुगुप्तौ। अल्पाच्तरम् इत्यस्यावकाशः ‐ वाग्दृषदौ। इहोभयं प्राप्नोति ‐ वागग्नी। अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन।। अजाद्यदन्तम् इत्यस्यावकाशः ‐ उष्ट्रखरौ। अल्पाच्तरम् इत्यस्यावकाशः ‐ वाग्दृषदौ। इहोभयं प्राप्नोति ‐ वागिन्द्रौ। अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन ।। निष्ठा ।। 36 ।।