॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|3
SK 714
2|2|3
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्‌   🔊
SK 714
सूत्रच्छेद:
द्वितीयतृतीयचतुर्थतुर्याणि - प्रथमाबहुवचनम् , अन्यतरस्याम् - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
एकदेशिना एकाधिकरने इति वर्तते। षस्ठीसमासापवादो ऽयं योगः। अन्यतरस्यां ग्रहणात् सो ऽपि षष्ठीसमासो भवति। पूरणगुण 2|2|11 इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान् न प्रवर्तते। द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा। तुरीयशब्दस्य अपीष्यते। तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा। एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम्।
`अन्यतरस्यां ग्रहणात् सोऽपि षष्ठीसमासो भवति` इति। ननु च पूरणप्रत्ययान्ता एते द्वितीयादयः शब्दाः। तत्र पूरणेत्यादिना समासनिषेधेन भवितव्यम्, तत्कथं सोऽपि भवतीत्याह-- `पूरण` इत्यादि। यद्यत्र षष्ठीसमास्य प्रतिषेधः स्यात् तदाऽन्यतरस्यां ग्रहणमनर्थकं स्यात्। वाक्यस्य तु महाविभाषयैव सिद्धत्वादिति भावः। `द्वितीयं भिक्षायाः` इति। भिक्षाया द्वितीयो भाग इत्यर्थः। `द्वितीयं भिक्षाया भिक्षकस्य` इति। भिक्षुकेण सहात्र समासो न भवति। न ह्रसावेकदेशी, किं तर्हि? स्वामी। तुर्यशब्दः `चतुरश्छयतावाद्यक्षरलोपश्च` (वा।571) इति यत्प्रत्ययान्तः पूरणार्थस्य प्रतिपादकः॥
द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि ठ्पूरणाद्भगे तीयादन्ऽइति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि ठ्पूरणगुणसुहितार्थऽ इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह--पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा---सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥
सिद्धान्तकौमुदी
एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - (कौमुदी-705) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् - द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । "भिक्षाया" इत्यवयवषष्ठी "द्वितीय" मित्यत्रान्वेति ।द्वितीय॑मित्येतत्तुभिक्षुकस्ये॑त्यत्र कर्मत्वेनान्वेति । न लोके॑ति निषेधान्न षष्ठी । अत्रद्वितीय॑मित्यस्यभिक्षुकस्ये॑त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह — अन्यतरस्यामिति । अन्यतरस्याङ्रग्रहणसामथ्र्यात्पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारेअपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादिति भावः । ननुपूरणगुणे॑ति निषेधात्कथमिह षष्ठीसमास इत्यत आह — पूरणगुणेति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः । [इत्येकदेशिसमासनिरूपणम्] ।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् - द्वितीयतृतीया । षष्ठीसमासा पवादोऽयं योग इति वृत्तिकृतोक्तमयुक्तमति ध्वनयन्नाह — निषेधं बाधित्वेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (423) (268 एकदेशितत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.2।। (अन्यतरस्यांग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अन्यतरस्यांग्रहणं किमर्थम्?।। (आक्षेपबाधकभाष्यम्) अन्यतरस्यां समासो यथा स्यात् ‐ समासेन मुक्ते वाक्यमपि यथा स्याद् ‐ द्वितीयं भिक्षाया इति।। (आक्षेपसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा तया वाक्यमपि भविष्यति।। (आक्षेपबाधकप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। एकदेशिसमासेन मुक्ते षष्ठीसमासो यथा स्याद् ‐ भिक्षाद्वितीयमिति।। (आक्षेपबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। अयमपि विभाषा, षष्ठीसमासोपि। तावुभौ वचनाद्भविष्यतः।। (समाधानभाष्यम्) अत उत्तरं पठति ‐ (1341 समाधानवार्तिकम् ।। 1 ।।) ।। द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्यविधानाभावस्य ।। (व्याख्याभाष्यम्) द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं क्रियते। ज्ञापनार्थम्। किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः ‐ अवयवविधौ सामान्यविधिर्न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्?। भिनत्ति छिनत्तीति श्नमि कृते शम्न भवतीति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। शबादेशाः श्यन्नादयः करिष्यन्ते।। (आक्षेपभाष्यम्) तत्तर्हि शपो ग्रहणं कर्तव्यम्।। (आक्षेपबाधकभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। कर्तरि शब् इति।। (आक्षेपसाधकभाष्यम्) तद्वै प्रथमानिर्दिष्टम्। षष्ठीनिर्दिष्टेन चेहार्थः ।। (आक्षेपबाधकभाष्यम्) रुधादिभ्य इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य इति।। (आक्षेपसाधकभाष्यम्) प्रत्ययविधिरयम् प्र् न च प्रत्ययविधौ पञ्चम्य: प्रकल्पिका भवन्ति प्र्प्र् (आक्षेपबाधकभाष्यम्) नायं प्रत्ययविधिः। विहितः प्रत्ययः प्रकृत एवानुवर्तते।। (समाधानसाधकभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवति इति।। (आक्षेपभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्?।। (प्रयोजनभाष्यम्) दिक्पूर्वपदान् ङीप् प्राङ्मुखी। प्राङ्मुखा। प्रत्यङ्मुखी। प्रत्यङ्मुखा। ङीपा मुक्ते ङीष् न भवति।। (प्रयोजनबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। वक्ष्यत्येतद् ‐ ।दिकपूर्वपदान्ङीषोनुदात्तत्वम्। ङीब्विधाने ह्यन्यत्रापि ङीष्विषयाद् ङीप्प्रसङ्ग। इति।। (प्रयोजनान्तरभाष्यम्) इदं तर्हि प्रयोजनम् ‐ अर्द्धपिप्पली, अर्द्धकोशातकी एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति।। उन्मत्तगङ्गं लोहितगङ्गम् अव्ययीभावेन मुक्ते बहुव्रीहिर्न भवति।। दाक्षिः प्लाक्षिः, इञ्ञा मुक्तेऽण् न भवति।। (आक्षेपभाष्यम्) यद्येतज्ज्ञाप्यते, उपगोरपत्यमौपगवः तद्धितेन मुक्ते उपग्वपत्यमिति न सिध्यति।। (समाधानभाष्यम्) अस्त्यत्र विशेषः ‐ द्वे ह्यत्र विभाषे दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् समर्थानां प्रथमाद्वा इति च। तत्रैकया वृत्तिर्विभाषा। अपरया वृत्तिविषये विभाषापवादः।। (आक्षेपभाष्यम्) क्रियमाणेपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति। किं कारणम्?। पूरणेनेति प्रतिषेधात्।। (समाधानभाष्यम्) नैतत्पूरणान्तम्। अना एतत्पर्यवसन्नम्।। (समाधानबाधकभाष्यम्) एतदपि पूरणान्तमेव। कथम्?। पूरणं नामार्थः तमाह तीयशब्दः, अतः पूरणम्। योसौ पूरणान्तात्स्वार्थे भागे अन् सोपि पूरणमेव।। (समाधानान्तरभाष्यम्) एवं तर्ह्यन्तरस्यांग्रहणसार्मथ्यात्षष्ठीसमासो भविष्यति।। द्वितीयतृतीय ‐ ।। 3 ।। (इत्येकदेशिसमासप्रकरणम्)