॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|27
SK 846
2|2|27
तत्र तेनेदमिति सरूपे   🔊
SK 846
सूत्रच्छेद:
तत्र - अव्ययम् , तेन् - तृतीयैकवचनम् , इदम् - प्रथमैकवचनम् , इति - अव्ययम् , सरूपे - प्रथमाद्विवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तत्र इति सप्तम्यन्तं गृह्यते। तेन इति तृतीयान्तम्। सरूपग्रहनं प्रत्येकम् अभिसम्बध्यते। तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति। इतिकरनश्च इह विवक्षार्थो लौकिकम् अर्थम् अनुसारयति। ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वम् इतिकरनाल्लभ्यते। यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यतिदम् इति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतीहारे 5|4|127 इति इच् समासान्तः, स च अव्ययम्। अन्येषाम् अपि दृश्यते 6|3|137 इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम्।
`इतिकरणः` इत्यादि। समासादभिमतेऽर्थे इतिकरणो यमर्थं प्रतिपादयति तं दर्शयितुमाह-- `लौकिकमर्थमनुसारयति` इति। अनुगमयति प्रबोधयतीति यावत्। स पुनर्लौकिकोऽर्थो ग्रहणादिरिति दर्शयन्नाह `ततः` इत्यादि। यस्मादितिकरणो लौकिकमर्थमनुसारयति ततो हेतोर्गर्हणादिरिति सर्वं लभ्यते। `यत्तत्रेत्यादिना` कर्मव्यतीहार इति परस्परग्रहणम्, परस्परग्रहणञ्चेतिकरणादेव लभ्यत इति वेदितव्यम्। स्वरूपविधिरत्रेतिकरणादेव न भवतीति वेदितव्यम्। दण्डैश्चेति करणे तृतीया। `स चाव्ययम्` इति। तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावः; `अव्ययीभावश्च` 1|1|40 इत्यव्ययसंज्ञाविधानात्। `सरूपम्` इति। समानस्य `ज्योतिरवचनस्य` 6|3|84 इत्यादिना सभावः॥
तत्र तेनेदमिति सरूपे॥ इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति---एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह---लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह---ततश्चेत्यादि। एतदेव विवृणोति---यतत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणमुकेशादि, प्रहरणमुदण्डादि, कर्मव्यतीहारःऊउपरस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि---ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्वहिरङ्गः॥
सिद्धान्तकौमुदी
सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते (कौमुदी-3539) दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥
तत्र तेनेदमिति सरूपे - तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् ।तत्रे॑त्यनेन सप्तम्यन्ते पदे विवक्षिते । "ग्रहणविषये" इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् ।तेने॑त्यनेन तु तृतीयान्ते पदे विवक्षिते ।प्रहरणविषये॑इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम् । "सरूपे" इति प्रथमाद्विवचनान्तं पदविशेषणम् । "ग्रहणविषये" इति "प्रहरणविषये" इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति ।इद॑मित्यर्थनिर्देशः ।युद्धं प्रवृत्त॑मिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये॑इत्यपयध्याहार्यम् । तदाह — सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्रते अस्मिन्निति ग्रहणं=केशादि । अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये । ग्रहणवाचके इति यावत् । प्रहरणविषये इति । प्रह्यियते अनेनेति प्रहरणं =दण्डादि । तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये । प्रहरणवाचके इति यावत् । अत्रापिसरूपे॑पदे इन्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थे इति ।इद॑मिति सामान्यार्थनिर्देशः ।युद्ध॑मिति विशेषनिर्देशः । अतः केशाकेशि युद्धिमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु "ग्रहणविषये"प्रहरणविषये॑इत्यध्याहारे किं प्रमाणमित्यत आह — इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः ।केशाकेशी॑त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः ।
तत्र तेनेदमिति सरूपे - तत्र तेनेदं । ग्रहण विषय इति । गृह्रते अनेनेति ग्रहणं=केशादि । तद्विषयो=वाच्यो ययोस्ते सरूपे । प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत् । कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च । ननुग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे॑त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह — -इति शब्दादिति । स हि लौकिकीं विवक्षां दर्शयति । लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तत्र तेनेदमिति सरूपे (448) (286 बहुव्रीहिसंज्ञासूत्रम् ।। 2 । 2। 2 । आ.5सू.) (प्रत्याख्याननिराकरणाधिकरणम्) (1407 प्रत्याख्यानवार्तिकम् ।। 1 ।।) ।। तृतीयासप्तम्यन्तेषु च क्रियाभिधानादशिष्यो बहुव्रीहिः ।। (भाष्यम्) तृतीयासप्तम्यन्तेषु चाशिष्यो बहुव्रीहिः। किं कारणम्?। क्रियाभिधानात्। क्रियाभिधीयते। तत्र अन्यपदार्थ इत्येव सिद्धम्। (1408 प्रत्याख्याननिराकरणवार्तिकम् ।। 2 ।।) ।। न वैकशेषप्रतिषेधार्थम् (पूर्वदीर्घार्थं च)।। (भाष्यम्) नवाऽशिष्यः। किं कारणम्?। एकशेषप्रतिषेधार्थमिदं वक्तव्यम्।। पूर्वदीर्घार्थं च। पूर्वदीर्घार्थं चेदं वक्तव्यम्। केशाकेशि।। (प्रत्याख्यानसाधकभाष्यम्) स्यदेतत्प्रयोजनं यदि नियोगतोनेनैव दीर्घत्वं स्यात्। अथेदानीम् अन्येषामपि दृश्यते इति दीर्घत्वं न प्रयोजनं भवति।। (1409 वार्तिकम् ।। 3 ।।) ।। मत्वर्थे वा पूर्वस्य विधानात् ।। (व्याख्याभाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः।। (1410 वार्तिकम् ।। 4 ।।) ।। कबभावार्थं वा ।। (व्याख्याभाष्यम्) अथ वा कब् मा भूदिति ।। तत्र तेनेदम् ।। 28 ।।