॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|24
SK 830
2|2|24
अनेकमन्यपदार्थे   🔊
SK 830
सूत्रच्छेद:
अनेकम् - प्रथमैकवचनम् , अन्यपदार्थे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनेकं सुबन्तमन्यप्दार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमार्थम् एकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर् भवति। प्राप्तम् उदकं यं ग्रामं प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपगृतपशू रुद्रः। उद्घृतौदना स्थाली। चित्रगुर्देवदत्तः। वीरपुरुषको ग्रामः। प्रथमार्थे तु न भवति। वृष्टे देवे गतः। अनेकग्रहनं किम्? बहूनाम् अपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर् वृत्तौ न सिध्यति। बहुव्रीहिः समानाधिकरणानम् इति वक्तव्यम्। व्यधिकरणानां मा भूत्, पञ्चभिर् भुक्तमस्य। अव्ययानां च बहुव्रीहिर् वक्तव्यः। उच्चैर् मुखः। नीचैर् मुखः। सप्तम्युपमानपूर्वपदस्य उत्तरपदलोप श्च वक्तव्यः। कण्ठे स्थितः कालो ऽस्य कण्ठेकलः। उरसिलोमा। उष्ट्रस्य मुखम् इव मुखं यस्य स उष्ट्रमुखः। खरमुखः। समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्च इति वक्तव्यम्। केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडा ऽस्य केशचूडः। सुवर्णस्य विकारो ऽलङ्कारो ऽस्य सुबर्णालङ्कारः। प्रादिभ्यो धतुजस्य उत्तरपदस्य लोपश्च वा बहुव्रीहिर् वक्तव्यः। प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः। प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः। नञो ऽस्त्यर्थानां बहुव्रीहिर् वाचोत्तरपदलोपश्च वक्तव्यः। आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः। अभार्यः, अविद्यमानभार्यः। सुबधिकारे ऽस्तिक्षीरादीनां बहुव्रीहिर् वक्तव्यः। अस्तिक्षीरा ब्राह्मणी। अस्त्यादयो निपाताः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अनेकमन्यपदार्थे॥ अनेकं सुबन्तं सह समस्यत इति। परस्परमित्यर्थः। तदनेन सुबित्येतदत्रानुवर्तते, न सुपेत्येतद्; उतरपदस्याप्यनेकमित्यनेनैव प्रतिपादितत्वादिति दर्शयति। सर्वेषु विभक्त्यर्थेष्विति। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयत इति विभक्त्यर्थस्य प्राधान्यातस्यैवान्यपदार्थग्रहणेन प्रहणमिति भावः। अत एव प्राप्तोदकोऽयं ग्राम इति ग्रामशब्दानुप्रयोगः, अन्यथा यावानेवार्थो ग्रामपदस्य तावतोऽभिधाने गतार्थत्वान्न स्यात्, यथा---द्वन्द्वे च--शब्दस्य। यदा तु समासेन विभक्त्यर्थ एव सम्बन्धादिरभीप्स्यते तदा विभक्तिर्मानुप्रयोजि, द्रव्यस्यानभिहितत्वातद्वाचिनोऽनुप्रयोगः कस्मान्न स्यात् यदि विभक्त्यर्थोऽभिधीयते, कथं ग्रामादिभिः सामानाधिकरण्यं तल्लिङ्गसंख्यायोगे वा बहुव्रीहिर्भवतिप्राप्तोदको ग्रामः, उद्धृतौदना स्थालीति? उच्यते---विभक्त्यर्थस्य सम्बन्धादेराश्रितत्वेन गुणत्वादभेदोपचारात्सामानाधिकरण्यमाश्रयतश्च लिङ्गवचनानि भविष्यन्ति शुक्लादिवत्, यथा---शुक्लं वस्त्रम्, शुक्ला पटी, शुक्लः कम्बलः, शुक्लैः, शुक्ला इति। नन्वेवं यथा शुक्लशब्देन कदाचिद्गुण उच्यते, कदाचित् गुणी; तथा बहुर्वीहावपि प्राप्नोति। नैषोऽस्ति नियमः----गुणशब्देन कदाचिद्गुणमात्रमभिधीयत् इति, पट्वादिष्वदर्शनात्, न हि भवति देवदतस्य पटुअरिति; तद्वदिहापि नित्यमेव गुणिनिष्ठता भविष्यति। एवमपि बहुव्रीहिणा यथा विभक्त्यर्थस्याभिधानात् षष्ठ।लदयो न भवन्ति, तथा लिङ्गसंख्ययोरप्यभिधानातयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ? नैष दोषः; स्वाथिंकाष्टाबादयः, स्त्रियां यद्वर्तते तस्मात्स्वार्थिकाष्टबादयो भवन्तीति तेन बहुव्रीहिणाऽभिहितेऽपि स्त्रीत्वे भविष्यन्ति। एवं च कृत्वा ठनो बहुव्रीहेःऽ इत्याद्यौपपन्नं भवति। समासेन च बाह्यक्रियापेक्षा या कर्मादिशक्तिस्तद्रहितसमासप्रातिपदिकार्थमात्रस्यैवैकत्वादेरुक्तत्वादिति कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भविष्यन्तिचित्रगुं पश्य, चित्रगुणा कृतमिति। एवमपि प्रथमा न प्राप्नोति, समासेन संख्याया अभिधानात्? वचनग्रहणादेकः, द्वौ, बहव इतिवद्भविष्यति। अथ वा----लिङ्गमात्रं संख्यामात्रं बहुव्रीहिणाभिहितं न विशेषस्तत्रावश्यं विशैषार्थिना तद्वाची शब्दः प्रयोक्तव्यः, एवं च कृत्वा सह प्रकृत्वा सह प्रकृत्यर्थेन विभक्त्यर्थे बहुव्रीहिणाभिधीयमानेऽपि न कश्चिद्दोषः। कथं सामान्यमनभिहितं विशेषस्यानुप्रयोगः? सामान्यस्य तर्हि न प्राप्नोति----देवदतः कश्चिदिति, सामान्यमपि विशेषः, यथा विशेषेण विशेषान्तरं व्यावर्त्यते तद्वत्सामान्येन विशेषो व्यावर्त्यते, अन्यथा सन्देहः स्यात्---सामान्यमत्र विवक्षितम्? विशेषो वा ? इति। प्राप्तोदको ग्राम इत्यादिनि द्वितीयाद्यर्थेषु यथाक्रममुदाहरणानि। ऊढो रथो येन, उपहृतः पशुर्यस्मै, उद्धृत ओदनो यस्याः, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः। प्रथमार्थे तु न भवतीति। अनभिधानात्, एवमनन्तरादिषु न भवति----चित्रा गावो यस्यानन्तरा इति। अनेकमिति किमिति। सुप्सुपेत्यधिकारादेव तत्पुरुषवद्वहुव्रीहिरप्येकस्य न भविष्यतीति प्रश्नः। बहूनामपि यथा स्यादिति। अन्यथा सुप्सुपेति संख्याया विवक्षितत्वाद्यथा तत्पुरुषो बहूनां न भवति---महत्कष्ट्ंअ श्रित इति, तथा बहुव्रीहिरपि न स्यादिति भावः। ज्ञापकात्सिद्धिम्, यदयं तद्धितार्थेत्युतरपदे द्विगुं रास्ति तज्ज्ञापयति---बहूनामपि समास इति। यद्येवम्, तत्पुरुषेऽपि प्रसङ्गः, अथ चित्रगुरित्यत्रोतरपदस्याप्युपसर्जनसंज्ञा प्रयोजनं कस्मान्न भवति, सत्यनेकग्रहणे सुपेत्यस्य निवर्तितत्वादुतरपदमपि तेनैव प्रत्याय्यते, तदपि समासशास्त्रे प्रथमानिर्दिष्ट्ंअ भवति, नान्यथा? एवं मन्यते----चित्रगुस्तिष्ठति, चित्रगुं पश्येति प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्तिपदयोर्नित्यप्रथमान्तत्वादेकविभक्तीत्येव सिद्धमुपसर्जनत्वमिति। सुसूक्ष्मजटकेशेनेति। सुष्ठुअ सूक्ष्मा जटाः केशा अस्येति चतुर्णां बहुव्रीहौ ठ्ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्ऽ इति बहुलवचनाध्रस्वत्वम्,यद्वा सुष्ठुअ सूक्ष्मा जटा येषु ते सुसूक्ष्मजटास्ताद्दशाः केशा अस्येति पुनर्बहुव्रीहिः। एवं सुष्ठुअ गजाजिनं वास आच्छादनं यस्य तेन सुगजाजिनवाससा, तृतीयान्तोदाहरणम्; श्लोके तथा पठितत्वात्। ठ्सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृतौ न सिद्ध्यतिऽ॥ इति भाष्ये श्लोकः पठितः तत्र तु श्लोकपूरणार्थं तृतीयानिर्देशः। अन्यग्रहणं बहुव्रीहितत्पुरुषयोर्विषयविभागार्थम्, असति तस्मिन् कण्ठेकाल इत्यादौ व्यधिकरणपदे सावकाशं बहुव्रीहि स्वपदार्थ इव नीलोत्पलं सर इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्वहुव्रीहिर्बाधत इति न कश्चिद्दोषः। पदग्रहणं किम्? पदार्थे यथा स्याद्वाक्यार्थे मा भूत्। कश्चित्कञ्चिन्नद्यां सिष्णासुमाह----नद्यां ग्राहाः सन्तीति, एतानि पदानिठ्तस्मातत्र मा स्नासीःऽ इति वाक्यार्थं गमयन्तीति तेषां बहुव्रीहिसंज्ञा प्राप्नोति। अर्थग्रहणं किम्, यावता पदेपदान्तरस्य वृत्यसम्भवादेव पदार्थे भविष्यति? कृत्स्ने पदार्थे यथा स्यात्, अन्यथा प्राधान्याद्विभक्त्यर्थ एव स्यान्न प्रकृत्यर्थे द्वव्ये। तत्र यदुक्तम्----अभेदोपचाराद्धर्मिणोऽभिधाने सिद्धेऽपि शुक्लादिवद्धर्ममात्रस्यापि कदाचिदभिधानं प्राप्नोति, तदनेनापाक्रियते। पट्वादिशब्दवन्नित्यं धर्मिनिष्ठो बहुव्रीहिरिति प्रतिपादनेन बहुव्रीहिः समानाधिकरणानामित्यादिरभिधानसिद्धस्यार्थस्य प्रपञ्चः। उच्चैर्मुख इति। उच्चैसोऽथिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनम्। सप्तम्युपमानेति। सप्तम्यन्तमुपमानवाचि च पूर्वपद यस्य तस्य शब्दान्तरेण समासस्तत्रस्थस्योतरपदस्य लोप इत्यर्थः। कण्ठेस्थ इति। ठ्सुपि स्थःऽ इति कः। ठमूर्द्धमस्तकात्ऽ इत्यलुक्। कण्ठेस्थित इति पाठेतु सप्तमीति योगविभागात्समासः। समानाधिकरणत्वात्समासे सिद्धे वचनमुतरपदलोपार्थम्, तेन वैयधिकरण्येऽप्यत्र गमकत्वमस्तीति प्रदर्श्यते। उष्ट्रखमिवोति। अवयवधर्मेण समुदायव्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्वपदमुष्ट्रमुखशब्दः, अत्रोपमानोपमेययोर्वौयधिकरण्यवद्वचनमुतरपदलोपार्थं च। उष्ट्रमुख इति। उष्ट्रो मुखमस्येति। विग्रहः, न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यत इति सामर्थ्यात् साद्दश्यावगतिः, मुखेन च सुखस्य साद्दश्यं प्रसिद्धमित्युष्ट्रमुखमिव मुखमस्येत्ययमर्थो भवति। तस्मादुतरपदलोपो न वक्तव्यः। समुदायविकारषष्ठ।ल इति। समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तात्परं यदुतरपदं तदन्तस्य समासस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः। केशचूड इति। इदमपि केशसमाहारे केशशब्दस्य वृतेः सिद्धम्। एवं स्वर्णविकारे स्वर्णशब्दस्य वृतेः स्वर्णालङ्कार इति सिद्धम्। वचनं तु केशमसाहारचूडः, स्वर्णविकारालङ्कार इत्युतरपदस्य श्रवणं मा भूदिति। प्रादिभ्यो धातुजस्येति। इदं न वक्तव्यमेव, प्रादयो हि ससाधनां क्रियां प्राहुः---यथा निष्कौशाम्बीः, निर्वाराणसिः, प्राचार्य इति। एवं नञोऽस्त्यर्थानामित्येतदपि। सुबधिकार इति। अस्तीति तिङ्न्तमिति मत्वा वचनं निपातत्वात्सिद्धम्। उपसर्गविभक्तिप्रतिरूपका निपाताः, स्वरादिषु चास्तिशब्दः पठ।ल्ते। इह किं सब्रह्मचारीति? बहुव्रीहिरयम्। के सब्रह्मचारिणस्तव, किं सब्रह्मचारी त्वमिति पूर्वपदप्रकृतिस्वरो ह्यत्रेष्यते, तत्र कठसब्रह्मचार्यहमिति सम्भावितम्प्रतिवचनम्। यतु कठोऽहमिति न तत्साक्षात्प्रतिवचनम्,किं तर्हि? आर्थिकम्। अहं तावत्कठ इत्युक्ते गम्यत एतन्नतु तेऽपि कठा इति। कठस्य हि कठा एव सब्रह्मचारिणो भवन्ति, नान्ये। समाने ब्रह्मणि व्रतचार्येव सब्रह्माचारी भवति। के सब्रह्मचारिणस्तवेति वाक्येन तु प्रश्ने कठा इति प्रतिवचनम्। समासेन तु प्रश्ने कठा इति प्रतिवचनं कदाचिदपि न भवति; वर्तिपदार्थानामुपसर्जनत्वात्, किं सब्रह्मचारीतिसमासेन सब्रह्मचारिणामभिधानात्। इह द्वौ द्रोणावर्द्धद्रोणाश्चार्द्धतृतीया द्रोणा इति? अर्द्धस्तृतीयो येषामिति बहुव्रीहावुद्भूतावयवभेदः समुदायः समासार्थ इति बहुवचनं द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणेऽपि लक्षणया वर्तत इति सामानाधिकरण्यं च भवति॥
सिद्धान्तकौमुदी
अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वार्तिकम्) ॥ प्रपतितपर्णः प्रपर्णः ॥ ।नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वार्तिकम्) ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥
अनेकमन्यपदार्थे - अनेकमन्य । प्रथमान्तमिति । शेषग्रहणानुवृत्तिलभ्यमिदम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाऽभावात् ।अनेकं सुबन्त॑मिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्तेत्यर्थः । एवंच पञ्चभिर्भुक्तमन्नं यस्य सः "पञ्चभुक्त" इति बहुव्रीहिनिवृत्त्यर्थंबहुव्रीहिः समानाधिकरणानामिति वक्तव्य॑मिति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम्अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः॑ इति वार्तिकं तदुभयमपि न कर्तव्यमित्याह — अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति । समानाधिकरणानामिति च फलितमिति ।शेषग्रहणा॑दिति शेषः ।शेषग्रहणात् प्रथमान्त इति लभ्यते॑ इति हि भाष्यम् ।पञ्चभिर्भुक्तमस्ये॑त्यत्र च समस्यमानपदयोरेकस्याऽप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितम् । प्रतमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति — प्राप्तमिति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विसेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — उपह्मतपशू रुद्र इति । उपह्मतः पशुर्यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति — -उद्धृतौदना स्थालीति । उद्धृत ओदनो यस्या इति बहुव्रीहिः । अथ षष्ठर्थंबहुव्रीहिमुदाहरति — पीताम्बरो हरिरिति । पीतमम्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति — वीरपुरुषको ग्राम इति । वीराः पुरुषा यस्मिन्निति विग्रहः । "शेषाद्विभाषा" इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात्प्रथमैव । प्रथमार्थे तु नेति ।अन्यपदार्थ॑शब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति ।अनेकं प्रथमान्त॑मित्युक्तेरिति भावः । प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रधमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः । अत्रबहुव्रीहि॑रित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं — प्रपतितम् । प्रादयो गताद्यर्थे॑ इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नञोऽस्त्यर्थानां । नञः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः, त[था]त्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । अविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति । अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । अव्ययानां चेति । "बहुव्रीहिर्वाच्य" इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाऽभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — कण्ठेस्थ इत्यादि । "सुपि स्थः" इति कः । कण्ठे तिष्ठतीति कण्ठेस्थः । उपपदसमासः ।अमूद्र्धमस्तका॑दिति सप्तम्या अलुक् । "कण्ठेस्थ" इति समस्तपद्रम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । त्तर कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं, तस्मिन् यदुत्तरपदं स्थेत्येतत्, तस्य लोपो वाचनिकः । "कण्ठेकाल" इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याःअमूर्धमस्तका॑दित्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — उष्ट्रमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखिमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः । तत्रउष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं, तस्मिन्नुत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातविकारेति । षष्ठन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः, षष्ठन्तादुत्तरपदस्य लोपश्च । केशचूड इति । सङ्घातशब्दस्यो लोपे रूपम् । सुवर्णालङ्कार इति । अत्र विकरशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहावुपसङ्ख्येया इत्यर्थः ।अस्तिक्षीरागौ॑रित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाऽभावादप्राप्ते बहुव्रीहाविदं वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह — अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीतिस्वरादिनिपातमव्यय॑मित्यव्ययं विद्यमानार्थकम् । ततः सोः "अव्ययादाप्सुपः" इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये — ॒अस्तिक्षीरादिवचनं, न वाऽव्ययत्वा॑दिति ।
अनेकमन्यपदार्थे - अप्रथमाविभक्त्यर्थ इति । समानेति । एतच्च शेषग्रहणाल्लब्धम् । अनेकं किं । बहूनामपि यथा स्यात् । एतच्च मूल एव स्फुटिभविष्यति । अनिज्विधौ केवलग्रहणं ज्ञापकीकृत्याऽनेकग्रहणमिह सुत्यजमित्याहुः । अन्यग्रहणं किम् । बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत, स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते । असति त्वन्यग्रहणेकण्ठेकाल॑ इत्यादौ व्यधिकरणपदे, बहूनां समुदाये च सावकाशं बहुव्राहि स्वपदार्थ इवान्यपदार्थेऽपिलनीलोत्पलं सर ॑ इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् । वाक्यार्थे मा भूत् । ग्राह वती नदी । इह मा स नासीरिति वाक्यार्थो गम्यते । अर्थग्रहणं किम् ।, यावता पदेन पदान्तरस्य वृत्त्यसम्भवादेव पदार्थे भविष्यति । अत्राहुः — प्रकृत्यर्थविशिष्टप्रत्ययार्थाभिधानं यथा स्यात् । अन्यथा प्राधान्यात्प्रत्ययार्थमात्रं गृह्रेत । इष्टापत्तौ तु चित्रगुरित्येतत्षष्ठर्थसम्बन्धमात्रपरं स्यात् । तथा च देवदत्तादिभिः सामानाधिकरण्यं न स्यादिति । अत्रेदमवधेयम् — -॒सुपा॑इत्यतन्नानुवर्तते । तेनाऽत्रानेकं प्रथमान्तं मिथः समस्यते इथि पर्यवसन्नोऽर्थः । एवं च द्विपदबहुव्रीहिरबाध एव । य#ए तुसुप्सुपा॑इत्यनुवत्र्यअनेकं सुबन्तं सुपा सहे॑ति व्याचक्षते, तेषां तु द्विपदबहुव्रीहिर्दुर्लभ एवेति.द्वितियादिविभक्त्यर्थक्रमेणोदाहरति — — प्राप्तमित्यादि । ग्रामकर्मकप्राप्तिकर्तृ उदकं विग्रहार्थः । उदककर्तृकप्राप्तिकर्मेति समासार्थः । विग्रहवाक्ये स इति प्रयोगे तु तस्याप्ययमेवार्थः । अनडुत्कर्तृकोद्वहनकमीभूतोरथः । रथकर्मकोद्वहनकर्ता तु समासार्थः । रुद्रसंप्रादनकोपहरणकर्मीभूतः पशुः । पशुकर्मककोपहरणसंप्रदानं तु समासार्थः । स्थाल्यधिकोद्धरणकर्म ओदनः । ओदनकर्मकोद्धकरणावधिः स्थाली समासार्थ इत्यादि । इह कर्मादीनां समाससेनाभिहितत्वात्प्रथमा । ननु वाक्ये धात्वर्थं प्रति क्तप्रत्ययार्थस्य कर्त्तुः कर्मणो वा विशेष्यत्वाद्वृत्तावपि तथैवोचितेति प्राप्तोदकोढरथादौ उदककर्तृकप्राप्तीत्यादिवर्णनं [तु] न युज्यते इति चेत् । उच्यते — -एकार्थीभावादिभिर्वृत्तौ विशिष्टार्थविषयकं शक्त्यान्तरमेव स्वीक्रियते, न त्ववयवशक्तिरिति नानुपपत्तिः । व्यपेक्षावादिभिस्त्वगत्या भिन्नैव व्युत्पत्तिः स्वीकार्या । किञ्च कर्तृविशिष्टप्राप्तेः पदार्थत्वे तस्यैव नामार्थत्वादुदकस्य तदभेदो वाच्यः, स च बाधितः, न हि कर्तृविशिष्टा प्राप्तिरुदकमिति सम्भवति । अतएव बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महन्दौरवमि॑त्यादिना समर्थसूत्रे एकार्थीभावपक्ष एवप्रबल इत्यवोचाम । प्रथमार्थे तु नेति । शेषपदेन वा, अन्यपदार्थ इत्यनेन वा अति प्रसङ्गवारणात्अप्रथमाविभक्त्यर्थे॑इति वचनं न कर्तव्यमिति भावः । व्यधिकरणानामित्यादि । इह शेषपदेनैव वारिकोऽतिप्रसङ्ग इतिसमानाधिकरणानां बहुव्रीहि॑रित्यपि न कर्तव्यमिति भावः ।यत्रान्यसमासो नोक्तः स शेषः॑ इति वृत्तिकारादीनां मते तुप्रथमान्तानामेव बहुव्रीहिः॑ इत्यलाभात्कर्तव्यमेवेदं वचनमिति बोध्यम् ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः । प्रादिभ्य इति । प्रादिभ्य इति । प्रादिभ्यः परं यद्धातुजं तदन्तस्य पदान्तरेण बहुव्रीहिव्र्याख्येय इति सूत्रसिद्धान्तनुवादः । वा चेति । इदं तु वाचनिकम् । पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थः । एतच्च प्रादीनामेव वृत्तौ विशिष्टार्थवृत्तितामाश्रित्य सुत्यजम् ।नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । नञोऽस्त्यर्थानामिति । नञः परेषामस्त्यर्थवाचिनां पदान्तरेण बहुव्रीहिव्र्याख्येयः, अस्त्यर्थवाचिनां तु लोप इत्यर्थः । अस्त्यर्थानां किम् । अनुपनीतपुत्रः । नञः किम् । निर्विद्यमानपुत्रः । नन्विहसुपा॑इत्यनुवृत्तावपि सुबित्येतदनुवर्तते, तथा चाऽस्तिक्षीरेति प्रयोगो दुर्लभ इत्याशङ्क्यं साधयति — -विभक्तिप्रतिरूपकमिति ।
लघुसिद्धान्तकौमुदी
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥
महाभाष्यम्
अनेकमन्यपदार्थे (444) (282 बहुव्रीहिसंज्ञासूत्रम् ।। 2। 2 । 2 । आ. 1 सू.) (पदकृत्याधिकरणम्) (आक्षेपभाष्यम्) पदग्रहणं किमर्थम्?।। (समाधानभाष्यम्) इह अनेकमन्यार्थे इतीयत्युच्यमाने वाक्यार्थेपि बहुव्रीहिः स्यात् ‐ यथा मे माता तथा पिता सुस्नातं भो इति। पदग्रहणे पुनः क्रियमाणे न दोषो भवति।। (आक्षेपभाष्यम्) अथान्यग्रहणं किमर्थम्?।। (समाधानभाष्यम्) अनेकं पदार्थे इतीयत्युच्यमाने स्वपदार्थेपि बहुव्रीहिः स्यात् ‐ राजपुरुषः तक्षपुरुष इति।। (एकदेशिसमाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। तत्पुरुषः स्वपदार्थे बाधको भविष्यति।। (एकदेशिन आक्षेपभाष्यम्) भवेदेकसंज्ञाधिकारे सिद्धम्। परंकार्यत्वे तु न सिध्यति। आरम्भसार्मथ्यात्तत्पुरुषः, परंकार्यत्वाच्च बहुव्रीहिः प्राप्नोति।। (समाधानभाष्यम्) परंकार्यत्वे च न दोषः। शेष इति वर्तते। अशेषत्वान्न भविष्यति।। (शेषग्रहणप्रत्याख्यानभाष्यम्) शेषवचन उक्तम्। किमुक्तम्?।।तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्ञ्समासेषु बहुव्रीहिप्रतिषेध। इति।। (आक्षेपभाष्यम्) अथैकसंज्ञाधिकारे नार्थोन्यग्रहणेन?।। (समाधानभाष्यम्) एकसंज्ञाधिकारे च कर्तव्यम्। अक्रियमाणे ह्यन्यग्रहणे यथैव तत्पुरुषः स्वपदार्थे बहुव्रीहिं बाधते एवमन्यपदार्थेपि बाधेत।। (आक्षेपभाष्यम्) अथानेकग्रहणं किमर्थम्?।। (आक्षेपबाधकभाष्यम्) अन्यपदार्थ इतीयत्युच्यमाने एकस्यापि पदस्य बहुव्रीहिः स्यात् ‐ सर्पिषोपि स्यात्, गोमूत्रस्यापि स्यात्।। (आक्षेपसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। सुप्सुपेति वर्तते।। (आक्षेपबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। बहूनामपि यथा स्यात् ‐ सुसूक्ष्मजटकेशेन सुनताजिनवाससा।। (आक्षेपबाधकशेषभाष्यम्) उत्तरार्थं चानेकग्रहणं कर्तव्यम् ‐ चार्थे द्वन्द्वः अनेकमिति। इहापि यथा स्यात् ‐ प्लक्षन्यग्रोधधवखदिरपलाशा इति।। (आक्षेपसाधकनिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति बहूनामपि समासो भवति। यदयम् ‐ उत्तरपदे द्विगुं शास्ति।। (प्रत्याक्षेपभाष्यम्) तत्पुरुषोपि तर्हि बहूनां प्राप्नोति।। (प्रत्याक्षेपबाधकभाष्यम्) नैष दोषः। ग्रहणेन तत्पुरुष उच्यते तेन बहूनां न भविष्यति।। (समाधानभाष्यम्) अत उत्तरं पठति ‐ (1379 समाधानवार्तिकम् ।। 1 ।।) ।। अनेकवचनमुपसर्जनार्थम् ।। (व्याख्याभाष्यम्) अनेकग्रहणं क्रियते उपसर्जनार्थम्।प्रथमानिर्दिष्टं समास उपसर्जनम् इत्युपसर्जनसंज्ञा यथा स्यात् ‐ चित्रगुः शबलगुः इति।। (1380 समाधानबाधकवार्तिकम् ।। 2 ।।) ।। न वैकविभक्तित्वात् ।। (व्याख्याभाष्यम्) न वा एतदपि प्रयोजनमस्ति। किं कारणम्?। एकविभक्तित्वात् एकविभक्ति चापूर्वनिपाते इत्युपसर्जनसंज्ञा भविष्यति चित्रगुः शबलगुरिति। चित्रा यस्य गावश्चित्रगुस्तिष्ठति। चित्रा यस्य गावश्चित्रगुं पश्येति। चित्रा यस्य गावश्चित्रगुणा कृतम्। चित्रा यस्य यस्य गावश्चित्रगवे देहि। चित्रायस्य गावश्चित्रगोरानय। चित्रा यस्य गावश्चित्र गोः स्वम्। चित्रा यस्य गावश्चित्रगौ निधेहि। चित्रा यस्य गावो हे चित्रगो इति।। (आक्षेपभाष्यम्) यदि तर्हि कुतश्चिदेव किंचित्पदमध्याहृत्य एकविभक्तियोगः क्रियते, एतदप्येकविभक्तियुक्तम्, इहापि प्राप्नोति ‐ राजकुमारी तक्षकुमारी। राज्ञो या कुमारी राजकुमारी तिष्ठति। राज्ञो या कुमारी राजकुमारीं पश्य। राज्ञो या कुमारी राजकुमार्या कृतम्। राज्ञो या कुमारी राजकुमार्यै देहि। राज्ञो या कुमारी राजकुमार्या आनय। राज्ञो या कुमारी राजकुमार्याः स्वम्। राज्ञो या कुमारी राजकुमार्यां निधेहि। राज्ञो या कुमारी राजकुमारि इति।। (समाधानभाष्यम्) एकविभक्तियुक्तमेव यन्नित्यम्। न चैतन्नित्यमेकविभक्तियुक्तमेव राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यपि भवति।। किं वक्तव्यमेतत्?। नहि।। कथमनुच्यमानं गंस्यते?। एकग्रहणसार्मथ्यात्। यदि हि यदेकविभक्तियुक्तं चानेकविभक्तियुक्तं च तत्र स्याद्, एकग्रहणमनर्थकं स्यात्। विभक्तियुक्तमपूर्वनिपाते इत्येव ब्रूयात्।। (अनुप्रयोगानुपपत्तिपरिहाराधिकरणम्) (1381 आक्षेपवार्तिकम् ।। 3 ।। ) प्र्प्र्। पदार्थाभिधानेऽनुप्रयोगानुपपत्तिराभिहितत्वात्।। (भाष्यम्) पदार्थाभिधाने ऽनुपयोगस्यानुपपत्तिः ‐ चित्रगुर्देवदत्त इति। किं कारणम्?। अभिहितत्वात्। चित्रगुशब्देनाभिहितः सोर्थ इति कृत्वानुप्रयोगो न प्राप्नोति।। (1382 आक्षेपबाधकवार्तिकम् ।। 4 ।।) ।। न वानभिहितत्वात् सामान्याभिधाने हि विशेषानभिधानम् ।। (व्याख्याभाष्यम्) न वा एष दोषः। किं कारणम्?। अनभिहितत्वात्। चित्रगुशब्देनानभिहितः सोर्थ इति कृत्वाऽनुप्रयोगे भविष्यति।। कथमनभिहितः, यदिदानीमेवोक्तम् । पदार्थाभिधाने ऽनुप्रयोगानुपपत्तिरभिहितत्वाद्। इति?। सामान्याभिधाने हि विशेषानभिधानम्। सामान्ये ह्यभिधीयमाने विशेषोनभिहितो भवति। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः। चित्रगुः क?। देवदत्त इति।। (आक्षेपभाष्यम्) भवेत्सिद्धं यदा सामान्ये वृत्तिः। यदा तु खलु विशेषे वृत्तिः, तदा न सिध्यति ‐ चित्रा गावो देवदत्तस्येति चित्रगुर्देवदत्त इति।। (समाधानभाष्यम्) तदापि सिद्धम्। कथम्?। नेदमुभयं युगपत्संभवति। वाक्यं समासश्च। यदा वाक्यम्, न तदा समासः। यदा समासः, न तदा वाक्यम्। यदा समासः, सामान्येन तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः ‐ चित्रगुः कः? देवदत्त इति।। (आक्षेपभाष्यम्) सामान्यस्यैव तर्ह्यनुप्रयोगो न प्राप्नोति ‐ चित्रगुः कः? चित्रगु तत्, चित्रगु किंचित्, चित्रगु सर्वमिति।। (समाधानभाष्यम्) सामान्यमपि यथा विशेषस्तद्वत्। तत्र चित्रग्वित्युक्ते संदेहः स्यात् ‐ सर्वं वाऽविश्वं वेति। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः ‐ चित्रगु तदिति।। (समाधानान्तरभाष्यम्) अथवा विभक्त्यर्थोभिधीयते। एतच्चात्र युक्तं यद्विभक्त्यर्थोभिधीयते तत्र हि सर्वपश्चात्पदं वर्तते अस्येति।। (1383 आक्षेपवार्तिकम् ।। 5 ।।) ।। विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः ।। (व्याख्याभाष्यम्) विभक्त्यर्थाभिधानेऽद्रव्यस्य लिङ्गसंख्याभ्यामुपचारोनुपपन्नः। बहुयवं बहुयवा। बहुयवः बहुयवौ बहुयवा इति।। अपर आह ‐ विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः। विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसंख्ये ताभ्यां विभक्त्यर्थस्योपचारोनुपपन्नः। बहुयवं बहुयवा। बहुयवः बहुयवौ बहुयवा इति।। (आक्षेपभाष्यम्) कथं ह्यन्यस्य लिङ्गसंख्याभ्यामन्यस्योपचारः स्यात्?।। (1384 समाधानवार्तिकम् ।। 6 ।।) ।। सिद्धं तु यथा गुणवचनेषु ।। (व्याख्याभाष्यम्) सिद्धमेतत्।। कथम्?। यथा गुणवचनेषु।। कथं गुणवचनेषु?।। गुणवचनेषूक्तम् ‐ गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति। तद्यथा ‐ शुक्लं वस्त्रं शुक्ला शाटी शुक्लः कम्बलः। शुक्लौ कम्बलौ। शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति विभक्त्यर्थः तस्य यल्लिङ्गं वचनं तत्समासस्यापि भविष्यति।। (आक्षेपभाष्यम्) यदि तर्हि विभक्त्यर्थोभिधीयते कृत्स्नः पदार्थः कथमभिहितो भवति सद्रव्यः सलिङ्गः ससंख्यश्च।। (समाधानभाष्यम्) अर्थग्रहणसार्मथ्यात्। इह अनेकमन्यपदे इतीयता सिद्धम्। कथं पुन पदे नाम वृत्तिः स्यात्। पदं नाम शब्दः शब्दो दोषः?। शब्दे ह्यसंभवादर्थे कार्यं विज्ञास्यते। सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनं कृत्स्नः पदार्थो यथाभिधीयते सद्रव्यः सलिङ्गः ससंख्यश्चेति।। (आक्षेपभाष्यम्) यदि तर्हि कृत्स्नः पदार्थाभिधीयते ‐ लैङ्गाः सांख्याश्च विधयो न सिध्यन्ति।। (समाधानभाष्यम्) उक्तं वा।। किमुक्तम्?। लैङ्गेषु तावदुक्तम्। सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणात्स्वार्थे टाबादय। इति।। सांख्येष्वप्युक्तम् ।। किमुक्तम्?। कर्मादीनामनुक्ता एकत्वादय इति कृत्वा सांख्या भविष्यन्ति।। (आक्षेपभाष्यम्) प्रथमा तर्हि न प्राप्नोति?।। (समाधानभाष्यम्) समयाद्भविष्यति।। (आक्षेपभाष्यम्) यदि सामयिकी न नियोगतः, अन्याः कस्मान्न भवन्ति?।। (समाधानभाष्यम्) कर्मादीनामभावात्।। (आक्षेपभाष्यम्) षष्ठी तर्हि प्राप्नोति?। (समाधानभाष्यम्) शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति।। (आक्षेपभाष्यम्) एवमपि व्यतिकरः प्राप्नोति ‐ एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः, द्वयोरप्येकवचनबहुवचने, बहुष्वप्येकवचनद्विवचने?।। (समाधानभाष्यम्) अर्थतो व्यवस्था भविष्यति।। (समाधानान्तरभाष्यम्) अथ वा संख्या नामेयं परप्रधाना। संख्येयमनया विशेष्यम्। यदि चात्र प्रथमा न स्यात्, संख्येयमविशेषितं स्यात्।। (समाधानान्तरभाष्यम्) अथ वा वक्ष्यत्येतद् वचनग्रहणस्य प्रयोजनम् ‐ उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्।। (आक्षेपभाष्यम्) एवमपि षष्ठी प्राप्नोति।। किं कारणम्?। व्यभिचरत्येव ह्ययं समासो लिङ्गसंख्ये, षष्ठ्यर्थं पुनर्नव्यभिचरति?।। (समाधानभाष्यम्) अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति।। (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति ‐ चित्रगोर्देवदत्तस्येति।। (समाधानभाष्यम्) भवति बाह्यमर्थमपेक्ष्य षष्ठी।। (परिगणनाधिकरणम्) (भाष्यम्) परिगणनं कर्तव्यम्।। (1385 परिगणनवार्तिकम् ।। 7 ।। ।। बहुव्रीहिः समानाधिकरणानाम् ।। (व्याख्याभाष्यम्) समानाधिकरणानां बहुव्रीहिर्वक्तव्यः।। किं प्रयोजनम्?। व्यधिकरणानां मा भूदिति। पञ्चभिर्भुक्तमस्येति।। (1386 परिगणनवार्तिकम् ।। 8 ।।) ।। अव्ययानां च ।। (व्याख्याभाष्यम्) अव्ययानां च बहुव्रीहिर्वक्तव्यः। उच्चैर्मुखमस्येति उच्चैर्मुखः नीचैर्मुखः।। (1387 परिगणनवार्तिकम् ।। 9 ।।) ।। सप्तम्युपमानपूर्व(पद)स्योत्तरपदलोपश्च ।। (व्याख्याभाष्यम्) सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्रीहिर्वक्तव्यः, उत्तरपदस्य च लोपो वक्तव्यः।। कण्ठेस्थः कालोस्य कण्ठेकालः। उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः।। (1388 परिगणनवार्तिकम् ।। 10 ।।) ।। समुदायविकारषष्ठ्याश्च ।। (व्याख्याभाष्यम्) समुदायविकारषष्ठ्याश्च बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च लोपो वक्तव्यः। केशसमाहारश्चूडा अस्य केशचूडः। सुवर्णविकारोलंकारो यस्य सुवर्णालंकारः।। (1389 परिगणनवार्तिकम् ।। 11 ।।) ।। प्रादिभ्यो धातुजस्य वा ।। (व्याख्याभाष्यम्) प्रादिभ्यो धातुजस्य बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च वा लोपो वक्तव्यः। प्रपतितपर्णः प्रपर्णः। प्रपतितपलाशः प्रपलाशः।। (1390 परिगणनवार्तिकम् ।। 12 ।।) ।। नञ्ञोस्त्यर्थानां च ।। (व्याख्याभाष्यम्) नञ्ञोस्त्यर्थानां बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च वा लोपो वक्तव्यः। अविद्यमानः पुत्रोस्य अविद्यमानपुत्र अपुत्रः। अविद्यमानभार्यः अभार्यः।। (आक्षेपभाष्यम्) तत्तर्हीदं बहु वक्तव्यम् ? (1391 परिगणननिराकरणवार्तिकम् ।। 13 ।।) ।। न वाऽनभिधानादसमानाधिकरणेषु समाससंज्ञाभावः ।। (व्याख्याभाष्यम्) नवा वक्तव्यम्।। असमानाधिकरणानां बहुव्रीहिः कस्मान्न भवति ‐ पञ्चभिर्भुक्तमस्येति?। अनभिधानात्। तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेपि परिगणने यत्राभिधानं न भवति तत्र न बहुव्रीहिः। यथा पञ्च भुक्तवन्तोस्येति।। (आक्षेपभाष्यम्) अथैतस्मिन्सत्यनभिधाने यदि वृत्तिपरिगणनं क्रियेत तर्हि वर्तिपरिगणनमपि कर्तव्यम्।। (प्रत्याक्षेपभाष्यम्) तत्कथं कर्तव्यम्?।। (1392 समाधानवार्तिकम् ।। 14 ।।) प्र्प्र् । प्र्प्र् अर्थनियमे मत्वर्थग्रहणम् प्र्प्र् । प्र्प्र् (व्याख्यानभाष्यम्) अर्थनियमे मत्वर्थग्रहणं कर्तव्यम्। मत्वर्थे यः, स बहुव्रीहिरिति वक्तव्यम्। इह मा भूत् ‐ कष्टं श्रितमनेनेति।। (1393 वार्तिकम् ।। 15 ।।) ।। तथा चोत्तरस्य वचनार्थः ।। (भाष्यम्) एवं च कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति।। (वार्तिकस्थोत्तरपदव्याख्याभाष्यम्) केचित्तावदाहुः ‐ यद्वृत्तिसूत्रे इति संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति।। (सिद्धान्तिमतान्तरभाष्यम्) अपर आहुः यद्वार्तिके इति।। (1394 व्याख्येयवार्तिकम् ।। 16 ।।) ।। कर्मवचनेनाप्रथमायाः ।। (व्याख्याभाष्यम्) कर्मवचनेनाप्रथमाया बहुव्रीहिर्वक्तव्यः। उढो रथो येन उढरथोऽनड्वान्। उपहृतः पशू रुद्राय उपहृतपशू रुद्रः। उद्धृत ओदनः स्थाल्याः उद्धृतौदना स्थाली।। (आक्षेपभाष्यम्) यदि कर्मवचनेनेत्युच्यते, अथ कर्तृवचनेन कथम् ‐ प्राप्तमुदकं ग्रामं प्राप्तोदको ग्रामः। आगता अतिथयो ग्राममागतातिथिर्ग्रामः?।। (1395 वार्तिकम् ।। 17 ।।) ।। कर्तृवचनेनापि ।। (व्याख्याभाष्यम्) कर्तृवचनेनापीति वक्तव्यम्।। (आक्षेपभाष्यम्) अप्रथमाया इति किमर्थम्?।। (समाधानभाष्यम्) वृष्टे देवे गतः।। (आक्षेपभाष्यम्) अथ अप्रथमायाः इत्युच्यमाने इह कस्मान्न भवति ‐ वृष्टे देवे गतं पश्येति।। (समाधानभाष्यम्) बहिरङ्गा अत्राप्रथमा।। (1396 समासाक्षेपवार्तिकम् ।। 18 ।।) (इष्टानुपपत्तिपरिहाराधिकरणम्) ।। सुबधिकारेऽस्तिक्षीरादिवचनम् ।। (व्याख्याभाष्यम्) सुबधिकारेस्तिक्षीरेत्युपसंख्यानं कर्तव्यम्। अस्तिक्षीरा ब्राह्मणी।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?।। (1397 समाधानवार्तिकम् ।। 19 ।।) ।। नवाव्ययत्वात् ।। (भाष्यम्) नवा कर्तव्यम्। किं कारणम्?। अव्ययत्वात्। अव्ययमेषोस्तिशब्दः। नैषोस्तेर्लट्। कथमव्ययत्वम्?। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोव्ययमित्यव्ययसंज्ञा।। (किंसब्रह्माचारिशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) अथ किंसब्रह्मचारीति कोयं समासः?।। (समाधानभाष्यम्) बहुव्रीहिरित्याह ।। (आक्षेपभाष्यम्) कोस्य विग्रह: (समाधानभाष्यम्) के सब्रह्मचारिणोस्येति ।। (आक्षेपभाष्यम्) यद्येवं कठ इति प्रतिवचनं नोपपद्यते। न ह्यन्यत्पृष्टेनान्यदाख्येयम्।। (समाधानभाष्यम्) एवं तर्ह्येवं विग्रहः करिष्यते ‐ केषां सब्रह्मचारी किंसब्रह्मचारीति।। (समाधानबाधकभाष्यम्) प्रतिवचनं चैवं नोपपद्यते। स्वरे च दोषो भवति ‐ किंसब्रह्मचारीत्येवं स्वरः प्रसज्येत, किंसब्रह्मचारीति चेष्यते।। (समाधानान्तरभाष्यम्) एवं तर्ह्येवं विग्रहः करिष्यते ‐ कः सब्रह्मचारी किंसब्रह्मचारीति।। (समाधानान्तरबाधकभाष्यम्) भवेत्प्रतिवचनमुपपन्नम्। स्वरे तु दोषो भवति।। (समाधानभाष्यम्) एवं तर्ह्येवं विग्रहः करिष्यते ‐ कः सब्रह्मचारी तव किंसब्रह्मचारी त्वमिति।। (प्रागुक्तपक्षाङ्गीकारभाष्यम्) अथ वा पुनरस्त्वयमेव विग्रहः के सब्रह्मचारिणोस्येति।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ कठ इति प्रतिवचनं नोपपद्यत इति।। (समाधानभाष्यम्) नैष दोषः। अग्नौकरवाणिन्यायेन भविष्यति। तद्यथा ‐ कश्चित्कंचिदाह ‐ अग्नौकरवाणीति। स आह ‐ कुर्विति। कर्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति।। अपर आह ‐ अग्नौ करिष्य इति। क्रियतामिति कर्मण्यनुज्ञाते कर्ताप्यनुज्ञातो भवति। यथैव खल्वपि ‐ के सब्रह्मचारिणोस्येति?। कठाः इत्युक्ते संबन्धादेतद्गम्यते ‐ नूनमयमपि कठः इति। एवं कठ इत्युक्ते संबन्धादेतद्गन्तव्यं नूनं तेपि कठाः इति। न खल्वपि ते समासेन शक्याः प्रतिनिर्देष्टुम्। उपसर्जनं हि ते भवन्ति।। (अर्धतृतीयादिशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) अथार्धतृतीया इति कोयं समासः?।। (समाधानभाष्यम्) बहुव्रीहिरित्याह।। (आक्षेपभाष्यम्) कोस्य विग्रहः?।। (समाधानभाष्यम्) अर्धं तृतीयमेषामिति।। (आक्षेपभाष्यम्) कः समासार्थः। समासार्थो नोपपद्यते। अन्यपदार्थो हि नाम स भवति, येषां पदानां समासस्ततोन्यस्य पदस्यार्थोन्यपदार्थः?।। (समाधानभाष्यम्) एवं तर्ह्येवं विग्रहः करिष्यते ‐ अर्धं तृतीयमनयोरिति।। (आक्षेपभाष्यम्) एवमपि कः षष्ठ्यर्थः। षष्ठ्यर्थो नोपपद्यते। किं हि तयोरर्धं भवति?।। (प्रथमोक्तविग्रहाभ्युपगमभाष्यम्) अस्तु तर्ह्ययमेव विग्रहः ‐ अर्धं तृतीयमेषामिति।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ समासार्थो नोपपद्यते इति।। (समाधानभाष्यम्) नैष दोषः अवयवेन विग्रहः। समुदायः समासार्थः।। (आक्षेपभाष्यम्) यद्यवयवेन विग्रहः समुदायः समासार्थः, असिद्वितीयोनुससार पाण्डवम् सङ्कर्षणद्वितीयस्य बलं कृष्णस्य वर्धताम् इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।। (पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्) अस्तु तर्ह्ययमेव विग्रहः ‐ अर्धं तृतीयमनयोरिति।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ षष्ठ्यर्थो नोपपद्यत इति।। (समाधानभाष्यम्) नैष दोषः। इदं तावदयं प्रष्टव्यः ‐ अथेह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थ इति?। तत्रैतत्स्यात् ‐ एकस्मात्प्रादुर्भाव इति। एतच्च वार्तम्। तद्यथा ‐ सार्थिकानामेकप्रतिश्रये उषितानां प्रातरुत्थाय प्रतिष्ठमानानां न कश्चित्परस्परमभिसंबन्धो भवति। एवंजातीयकं भ्रातृत्वं नाम।। अत्र चेद्युक्तः षष्ठ्यर्थो दृश्यते, इहापि युक्तो दृश्यताम्।। (आक्षेपभाष्यम्) इह तर्हि अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोति।। (प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्) अस्तु तर्ह्ययमेव विग्रहः ‐ अर्धं तृतीयमेषामिति।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ असिद्वितीयोनुससार पाण्डवम् सङ्कर्षणद्वितीयस्य बलं कृष्णस्य वर्द्धताम् इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोतीति।। (समाधानभाष्यम्) नैष दोषः। अयं तीयान्तः शब्दोस्त्येव पूरणे वर्तते। अस्ति सहायवाची। तद्यः सहायवाची तस्येदं ग्रहणम् ‐ असिद्वितीयः असिसाहाय इति गम्यते।। (आक्षेपभाष्यम्) एवमपि ‐ अर्धतृतीया इत्येकस्मिन्नेकवचनं प्राप्नोति। एकार्था हि समुदाया भवन्ति। यथा ‐ -शतं यूथं वनमिति।। (पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्) ननु चोक्तम् ‐ अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोतीति।। (समाधानभाष्यम्) नैष दोषः। भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा ‐ शुक्लवाससमानय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनियते तद्गुणाश्च प्रचरन्ति।। (प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्) अथ वा पुनरस्त्वयमेव विग्रहः ‐ अर्धं तृतीयमेषामिति।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ एकवचनं प्राप्नोतीति।। (समाधानभाष्यम्) नैष दोषः। संख्या नामेयं परप्रधाना। संख्येयमनया विशेष्यम्। यदि चात्रैकवचनं स्यात् संख्येयमविशेषितं स्यात् ।। (आक्षेपभाष्यम्) इह तर्ह्यर्धतृतीया द्रोणा इत्ययं द्रोणशब्दः समुदाये प्रवृत्तः अवयवे नोपपद्यते।। (समाधानभाष्यम्) नैष दोषः। समुदायेषु हि प्रवत्ताः शब्दाः अवयवेष्वपि वर्तन्ते। तद्यथा ‐ पूर्व पञ्ञ्चालाः, उत्तरे पञ्ञ्चालाः, तैलं भुक्तं, घृतं भुक्तं, शुक्लो नीलः कपिल इति। एवमयं समुदाये द्रोणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते।। (आक्षेपभाष्यम्) कामं तर्ह्यनेनैव हेतुना यदा द्वौ द्रोणौ अर्धाढकं च तदा कर्तव्यमर्धतृतीया द्रोणा इति।। (समाधानभाष्यम्) न कर्तव्यम्। समुदायेषु वृत्ताः शब्दाः केष्ववयवेषु वर्तन्ते?, योवयवस्तं समुदायं न व्यभिचरति। कं च समुदायं न व्यभिचरति?। अर्धद्रोणो द्रोणम्। अर्धाढकं पुर्नव्यभिचरति।। अनेक ।। 24 ।।