॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|23
SK 829
2|2|23
शेषो बहुव्रीहिः   🔊
SK 829
सूत्रच्छेद:
शेषः - प्रथमैकवचनम् , बहुव्रीहिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
उपयुकतादन्यः शेषः। षेशः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः समासो न उक्तः। वक्ष्यति अनेकम् अन्यपदार्थे 2|2|24 चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेषः इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः न बहुव्रीहौ 1|1|29 इत्येवम् आदयः।
`उपयुक्ताद्योऽन्यः` इति। अभिहितादन्य इत्यर्थः। `यद्यान्यः समासो नोक्तः` इति। यत्रान्या समाससंज्ञा न विहितेत्यर्थः। `चित्रगुः` इति। अत्र बहुव्रीहित्वे सति `बहुव्रीहौ प्रकृत्या पूर्वपदम्` 6|2|1 इत्येष विधिर्भवति। `उन्मत्तगङ्गम्` इति। `अन्यपदार्थे च संज्ञायाम्` 2|1|20 इत्यव्ययीभावः। असति हि शेषग्रहण इहापि बहुव्रीहिः स्यात्। ननु च बहुव्रीहौ प्राप्तेऽव्ययीभावस्त्वारभ्यमाणस्तस्यैव बाधको भविष्यति, तत्कुतो बहुव्रीहिप्रसङ्गः? `प्राक्कडारात् परं कार्यम्` इत्यस्मिन् पक्ष इदं प्रत्युदाहरणमुपन्यस्तम्। तत्र हि पक्षे कयदि शेषग्रहणं न क्रियेत, ततः अन्यपदार्थेच संज्ञायाम्` 2|1|20 इति वचनप्रामाण्यदव्ययीभावः स्यात्। परत्वाद्बहुव्रीहिरित्येके। अयन्तु पक्षो वृत्तिकारेण नाश्रित इत्ययुक्तमेतत्। तस्मात् `आकडारादेका संज्ञा` 1|4|1 इत्यस्मिन् पक्षे `व्यक्तिः पदार्थः` इत्येद्दर्शमाश्रित्येदं प्रत्युदाहरणमुपन्यस्तम्। व्यक्तौ हि पदार्थे प्रतिलक्ष्ये लक्षणं प्रवत्र्तते। अत्रासति शेषग्रहणे यदेसद्विषयं लक्षणं तदकृतार्थमित्यवश्यं तेन प्रवर्त्तितव्यम्। एकसंज्ञाधिकाराच्च योगपद्यं न सम्भवतीति वचनप्रामाण्यादुभयप्रसङ्गः, उभे अपि पर्यायेण स्यातामित्यपरे॥
शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति। ठ्शिष असर्वोपयोगेऽ इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च---ठ्शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्ऽ इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते----स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य श्रृङ्गग्राहिकया समासो नोक्तः, यथा---प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥
सिद्धान्तकौमुदी
॥ अथ बहुव्रीहिसमासप्रकरणम्‌ ॥

अधिकारोऽयम् । द्वितीया श्रिता - (कौमुदी-683) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥
शेषो बहुव्रीहिः - शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननुद्वितीया श्रिते॑तितृतीया तत्कृते॑तिचतुर्थी तदर्थे॑तिपञ्चमी भयेने॑ति,षष्ठी॑ति,सप्तमी शौण्डै॑रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः ।विशेषणं विशेष्येणे॑त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह — विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिंत विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः । तदाह — प्रथमान्त इत्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।
शेषो बहुव्रीहिः - शेषो बहुव्रीहिः ।शिष् असर्वोपयोगे॑ कर्मणि घञ् । अत्र वृत्तिकृत् — -,यत्रान्यः समासो नोक्तः स शेष॑ इत्याह ।येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ॑इति हरदत्तो व्याख्यात् । एतच्चप्राक्कडारात्परं कार्य॑मिति पाठाभिप्रायेण बोध्यम् । अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते ।आ कडारादेके॑ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह — द्वितीया श्रितेत्यादिनेति । सेषधिकारस्थबहुव्रीहेरेवशेषाद्विभाषे॑ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपिप्रादयो गताद्यर्थे प्रथमये॑त्युक्तम्, तथापिद्वितीया श्रितादिभिः॑इतिवत्प्रथमा केनचित्सह समस्यते॑इति नोक्तमित्यर्थः । वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति ।कण्ठेकाल॑इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः । पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं चद्वितीयान्ताद्यर्थे॑इति फलितम् ।
लघुसिद्धान्तकौमुदी
अधिकारोऽयं प्राग्द्वन्द्वात्॥
महाभाष्यम्
शेषो बहुव्रीहिः (443) (अथ बहुव्रीहिप्रकरणम्) (281 बहुव्रीहिसंज्ञासूत्रम्।। 2। 2। 1 आ.15 सू.) (शेषपदार्थनिर्वचनाधिकरणम्) (आक्षेपभाष्यम्) शेष इत्युच्यते कः शेषो नाम?।। (एकदेशिसमाधानभाष्यम्) येषां पदानामनुक्तः समासः स शेषः।। (1377 समाधानबाधकवार्तिकम् ।। 1 ।।) ।। शेषवचनं पदतश्चेन्नाभावात् ।। (भाष्यम्) शेषवचनं पदतश्चेत्। तन्न। किं कारणम्?। अभावात्। नहि सन्ति तानि पदानि येषां पदानामनुक्तः समासः।। (एकदेशिसमाधानान्तरभाष्यम्) अर्थतस्तर्हि शेषग्रहणम् ‐ येष्वर्थेषु अनुक्तः समासः स शेषः।। (1378 समाधानान्तरबाधकवार्तिकम् ।। 2 ।। ।। अर्थतश्चेदविशिष्टम् ।। (भाष्यम्) अर्थतश्चेदविशिष्टमेतद्भवति। कुतः?। पदतः। नहि सन्त्यर्थाः येष्वर्थेष्वनुक्तः समासः।। (सिद्धान्तिसमाधानभाष्यम्) त्रिकतस्तर्हि शेषग्रहणम्। यस्य त्रिकस्यानुक्तः समासः स शेषः।। कस्य चानुक्तः?। प्रथमायाः। शेषो ब।। 23 ।। इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यास्यद्वितीये पादे प्रथममाह्निकम् ।।