Page loading... Please wait.
2|2|21 - तृतीयाप्रभृतीन्यन्यतरस्याम्‌
॥ तस्मै पाणिनये नमः ॥
2|2|21
SK 784
तृतीयाप्रभृतीन्यन्यतरस्याम्‌   🔊
सूत्रच्छेदः
तृतीया-प्रभृतीनि (प्रथमाबहुवचनम्) , अन्यतरस्याम् (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अमा एव इत्यनुवर्तते। उपदंशस् तृतीयायाम् 3|4|47 इत्यतः प्रभृति यान्युपपदानि तानि अमा एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाशेयम्। यदमा एव तुल्यविधानम् उपपदं तस्य प्राप्ते, यथा उपदंशस् तृतीयायाम् 3|4|47 इति। यत् पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्यये ऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*3,4..59) इति। मूलकोपदंशं भुङ्क्ते, मूलकेन उपदंशं भुङ्क्ते। उच्चैःकारम् आचष्टे, उच्चैः कारम्। अमा एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु 3|4|66, पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्।
`पर्याप्तो भोक्तुम्` इति। `पर्याप्तवचनष्वलमर्थेषु` 3|4|66 इत्यत्र `शकधृषज्ञाग्लाघटरभ` 3|4|65 इत्यादेः सूत्रात् तुमुन्ग्रहणानुवृत्तेस्तुमुन्प्रत्ययः॥
तृतीयाप्रभृतीन्यतरस्याम्॥ तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुतरपदप्रकृतिस्वरः, ठादिर्णमुल्यन्यतरस्याम्ऽ इत्याद्यौदातत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदातम्; स्वरादिषु तथा पाठात्। कारमित्याद्यौदातम्॥
सिद्धान्तकौमुदी
उपदंशस्तृतीयायाम् (कौमुदी-3368) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥
तृतीयाप्रभृतीन्यन्यतरस्याम् - तृतीयाप्रभृतीनि । तृतीयाशब्देनउपदंशस्तृतीयाया॑मित्यारभ्य॒अन्वच्यानुलोम्ये॑ इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते । एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषणम् । तदाह — उपदंशस्तृतीयायामित्यादिना । मूलकोपदंशमिति ।उपदंशस्तृतीयाया॑मिति णमुल् । अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननुमूलकेने॑त्यस्य "भुङ्क्ते" इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामथ्र्यात्कथमिह समास इति चेत्, मैवम् — उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामथ्र्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चैःकारमिति । उच्चेःकृत्वेत्यत्र तुअव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ ।तत्रउच्चैःकार॑मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात्अमैवाव्ययेने॑त्यप्राप्तेऽनेन विकल्पः । समासपक्षेआदिर्णमुल्यन्यतरस्या॑मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । "पर्याप्तिवचनेषु" इति तुमुन् ।
तृतीयाप्रभृतीन्यन्यतरस्याम् - तृतीयाप्रभृतीन्यन्यतरस्याम् । उभयत्रविभाषेयम् । अमैव तुल्यविधानस्य प्राप्तेऽमा चान्येन च तुल्यविधानस्याऽप्राप्ते चारम्भात् । प्राप्ते यथा — -॒उपदशस्तृतीयायाम् । मूलककेनोपदंशं । मूलकोपदंशम् । अप्राप्ते यथा — ॒अव्ययेऽयथाभिप्रेताख्याने॑ति क्त्वाणमुलौ । उच्चैःकारम् । इह समासपक्षे कृदृत्तरपदप्रकृतिस्वरः — ॒आदिर्ण मुल्यन्यतरस्या॑मित्याद्युदात्तत्वम् । असमासे तु उच्चैरित्यन्तोदात्तत्वम् ।उदि चेर्डै सिः॑इति व्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तुफिषः॑इत्यस्य च प्रवृत्तेरित्याहुः । मनोरमायां तूच्चैरित्यन्तोदात्तः, स्वरादिषु तथा पाठादिति स्थितम् ।अमे॑त्यनुवर्तत इत्याह — अमन्तेनेति । तेनेह न — पर्याप्तो भोक्तुम् ।पर्याप्तिवचनेष्वि॑ति तुमुन् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.